चन्द्रालोकः - अष्टमो मयूखः

जयदेवेन रचितः अलङ्कारग्रन्थः । अलङ्कारशास्त्रग्रन्थेषु "चन्द्रालोक"वत् सरलं सुन्दरं सह्रुदयचित्ताकर्षकं च ग्रन्थरत्नं नान्यत् दृश्यते इति नातिशयोक्तिः ।


यद्व्यज्यमानं मनसः स्तैमित्याय स नो ध्वनिः ।
अन्यथा तु गुणीभूत-व्यङ्ग्यं आपतितं त्रिधा ॥१॥
व्यक्तिरेव क्वचिद्व्यङ्ग्यः क्वचिदर्थस्वभावतः ।
क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् ॥२॥
अगूढं कलयेदर्थान्तरसंक्रमितादिकम् ।
विस्मृतः किं अपांनाथ स त्वया कुम्भसंभवः ॥३॥
अपरस्य रसादेश्चेदङ्गमन्यद्रसादिकम् ।
हा हा! मत्कुचकाश्मीर-लिप्तं भिन्नं उरः शरैः ॥४॥
तथा वाच्यस्य सिद्ध्यङ्गं नौरर्थो वारिधेर्यथा ।
संश्रित्य तरणिं धीरास्तरन्ति व्याधिवारिधीन् ॥५॥
अस्फुटं स्तनयोरत्र कोकसादृश्यवन्मतम् ।
कुङ्कुमाक्तं स्तनद्वन्द्वं मानसं मम गाहते ॥६॥
संदिग्धं यदि संदेहो दैर्घ्याद्युत्पलयोरिव ।
संप्राप्ते नयने तस्याः श्रवणोत्तंसभूमिकाम् ॥७॥
तुल्यप्राधान्यं इन्दुत्वं इव वाच्येन साम्यभृत् ।
कान्ते त्वदाननरुचा ग्लानिं एति सरोरुहम् ॥८॥
असुन्दरं यदि व्यङ्ग्यं स्याद्वाच्यादमनोहरम् ।
सरस्यामीलदम्भोजे चक्रः कान्तां विलोकते ॥९॥
काकुस्थं प्रणतोऽम्भोधिरद्य माद्यतु रावणः ।
इत्यष्टधा गुणीभूत-व्यङ्ग्यं अङ्गीकृतं बुधैः ॥१०॥
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति वसुसंख्यः सुखयतु ॥११॥

N/A

References : N/A
Last Updated : November 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP