मानसवेगाधिवधः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति स्थित्वा निजकथाविनोदैर्नरवाहनः ।
सज्जीकृतबलाम्भोधिर्निर्ययौ विजयोत्सुकः ॥२१९॥
तस्योग्रदुन्दुभिध्वानपूरिताशामुखे दिवि ।
अभवत्पुष्करोभ्द्रान्तपुष्करावर्तकभ्रमः ॥२२०॥
विस्तीर्णविद्यास्तेनैव वयस्या गोमुखादयः ।
तद्विमानं महापद्ममारुह्यासन्रणोत्सुकाः ॥२२१॥
ततः समाययौ वीरो गौरिमुण्डः क्रुधा ज्वलन् ।
शिरा मानसवेगेन सेनास्वव्रतिना वरः ॥२२२॥
तत्र युद्धमभूद्धोरं वित्रासितसुरासुरम् ।
चण्डसिंहमुखैर्वीरैर्गौरीमुण्डानुयायिनाम् ॥२२३॥
नरवाहनदत्तोऽथ हत्वा तमपि दुर्भदम् ।
घोरं मानसवेगाख्यं खङ्गाग्रच्छिन्नमस्तकम् ॥२२४॥
गौरीमुण्डं वधप्राप्तं नावधीत्करुणामयः ।
जग्राह तद्बलं सर्वं संप्राप्य मधुरस्मितः ॥२२५॥
गौरीमुण्डपुरं प्राप्य राजधानीं प्रविश्य सः ।
निरुद्धामानिनायाशु प्रियां मदनमञ्चुकाम् ॥२२६॥
इति मानसवेगाधिवधः ॥१०॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP