संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|पञ्चलम्बको नाम त्रयोदशो लम्बकः| सावित्र्याख्यायिका पञ्चलम्बको नाम त्रयोदशो लम्बकः सावित्र्याख्यायिका वेगवतीप्राप्तिः गन्धर्वदत्ताप्राप्तिः भगीरथयशःप्राप्तिकथा प्रभावतीप्राप्तिकथा अजिनावतीप्राप्तिकथा गोमुखकथा मरुभूतिकथा हरिशिखकथा मानसवेगाधिवधः पञ्चलम्बको नाम सावित्र्याख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत सावित्र्याख्यायिका Translation - भाषांतर पञ्चकलबकः । वल्गत्कालीकटाक्षावलिकलित इव स्फारहाराहिरज - स्फूर्जद्दंष्ट्राग्रधूमभ्रममलिन इव त्र्यम्बकस्याशु कण्ठः । भूत्यै वः क्षिप्तकर्णं प्रणयिकरधृतः केकिपिच्छाभिरामै - र्गौरी लीलाकिराती भवति पुनरिव प्रेषिभिर्यन्मयूखैः ॥१॥ अत्रान्तरे क्कापि यातं पुनः प्राप्तमथात्मजम् । दृष्ट्वा लेभे रतिं वीरो वत्सराजः प्रियासख ॥२॥ तं वल्लभावियोगर्तं ज्ञात्वा वत्सनरेश्वरः । बभूव सह देवीभ्यां शोकपावकर्मूच्छितः ॥३॥तदा रुमण्वानवदत्कुपितः पृतनापतिम् । युष्माभिर्बान्धवैः किं मे रक्षितं नृपतेरिति ॥४॥ सोऽब्रवीद्देव सर्वत्र नास्माभिरनधिष्ठितम् ।प्राकारगोपुरादालं कृतमव्यग्रमानसैः ॥५॥ वयं कस्य वराकस्य लोके परिभवास्पदम् । भवत्प्रतापसिन्दूररक्षातिलकमुद्रिताः ॥६॥ किं तु न प्रभवामोऽत्र देव व्योमविहारिणाम् । विद्याधराणां तैर्मन्ये कृतः कार्येषु विप्लवः ॥७॥ अथ वा राजपुत्रेण गोत्रस्खलनकोपिता । स्थिता मानवती क्कापि छन्ना मदनमञ्चुका ॥८॥अष्टावक्रस्य तनयां सावित्रीमङ्गिराः पुरा । धर्मपत्नीमवाप्यासीद्गृहाश्रमसुखस्थितिः ॥९॥ध्यानस्थितं कदाचित्तं सा दृष्ट्वा दयितं प्रिया । अन्यां चिन्तयसीत्युक्त्वा ययौ कोपपराङ्मुखी ॥१०॥सा गत्वा काननोपान्तं पाशं कण्ठे निवेशयत् ।प्राणास्तृणं हि नारीणां प्रियप्रणयतानवे ॥११॥ सवित्र्या सा ततोऽभ्येत्य देव्या दिव्यशरीरया । सावित्री रक्षिता पाशादितीर्ष्याकलुषाः स्त्रियः ॥१२॥ इति सावित्र्याख्यायिका ॥१॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP