संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|पञ्चलम्बको नाम त्रयोदशो लम्बकः| गन्धर्वदत्ताप्राप्तिः पञ्चलम्बको नाम त्रयोदशो लम्बकः सावित्र्याख्यायिका वेगवतीप्राप्तिः गन्धर्वदत्ताप्राप्तिः भगीरथयशःप्राप्तिकथा प्रभावतीप्राप्तिकथा अजिनावतीप्राप्तिकथा गोमुखकथा मरुभूतिकथा हरिशिखकथा मानसवेगाधिवधः पञ्चलम्बको नाम गन्धर्वदत्ताप्राप्तिः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत गन्धर्वदत्ताप्राप्तिः Translation - भाषांतर इति तद्वचसा व्योमयानारूढो नृपात्मजः । ददर्श कुलशैलेन्द्रान्बलाकानिव भूतले ॥६०॥जलपात्रमिवाम्भोधिं नदीं शतपदीमिव । पश्यन्समीरणपथा स ययौ दयिताङ्कगः ॥६१॥ क्षणं वेगवतीवक्त्रशशाङ्कोद्भसितं नभः । बभूवामृतकल्लोलक्षाल्यमानमिवाभितः ॥६२॥ कुतिलावर्तविधुरं राजसूनोः सितांशुकम् । कर्पूरकर्णपूरत्वमगमद्गगनश्रियः ॥६३॥ तस्य सूर्यकरोच्चण्डकुण्डलाताण्डवैर्बभौ । आखण्डलधनुर्दण्डामण्डितेवाभ्रमण्डली ॥६४॥ वेगाद्गतिविलोलेन तस्या हारेण हारिणा । रराजोद्दण्डडिण्डीरपाण्डुराब्धिनिभं नभः ॥६५॥ अत्रान्तरे नरपतेः सहसान्तःपुरोदरे । उदतिष्ठद्गते तस्मिन्करुणो रोदनध्वनिः ॥६६॥प्रियासखः क्क यातो मे पुत्रको नरवाहनः । सा गत्वा तं समुद्रस्य तीरे कनकपर्वते ॥६७॥नीत्वास्थाप्य पुरं याता द्रष्टुं मदनमञ्चुकाम् ।तत्र विद्याधरपतिं सा तमन्धगृहेऽक्षिपत् ॥६८॥ वीणादत्ताभिधानोऽथ श्रीमान्दिव्यकुमारकः । तमुज्जहार सख्येन कुलं सुकृतवानिव ॥६९॥कथितान्वयनामानं नरवाहनमाह सः । इह सागरदत्ताख्यो गन्धर्वाधिपतेः पतिः ॥७०॥गन्धर्वदत्ता तस्यास्ति पुत्री तस्या मृगीदृशः । विष्णुगीतिकृतज्ञाय देयाहमिति निश्चयम् ॥७१॥ वयं तच्च न विद्मेह गीताभ्यासपरायणाः । निःशब्दजनसंचारे वल्लकीपाणयः स्थितः ॥७२॥ श्रुत्वेति गीतिकाभिज्ञं सत्यमस्मीतिवादिनम् । वीणादत्तो निनायाशु तत्पुरं नरवाहनम् ॥७३॥ तत्र गन्धर्वराजस्य सभायामभिपूजितः । शुश्राव वीणां तत्पुत्र्याः सारमञ्जुलमूर्च्छनाम् ॥७४॥केशांशमिश्रया तन्त्र्या श्रुत्यंशो विस्तरीकृतः । इत्युक्त्वा राजपुत्रस्तां स्वयं जग्राह वल्लकीम् ॥७५॥ वाललेशं विचार्यासौ गायन्वैष्णवगीतकम् । वीणास्वनस्य वाद्येन गन्धर्वा विस्मयं ययुः ॥७६॥ प्रतिज्ञापाठमुच्चार्य वरपुत्रीं वरे स्थिताम् ।ततो गन्धर्वदत्तां स ददर्श वरवर्णिनीम् ॥७७॥दृशा कुवलयाकीर्णां त्विषा शशिसमाकुलाम् । भ्रुवा स्मरधनुर्व्याप्तं विदधानामिवाखिलाम् ॥७८॥पित्रार्पितां तां लावण्यनलिनीं नरवाहनः । प्राप्य फुल्लोत्पलदृशं विजहार स्मराकृतिः ॥७९॥ इति गन्धर्वदत्ताप्राप्तिः ॥३॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP