संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|पञ्चलम्बको नाम त्रयोदशो लम्बकः| गोमुखकथा पञ्चलम्बको नाम त्रयोदशो लम्बकः सावित्र्याख्यायिका वेगवतीप्राप्तिः गन्धर्वदत्ताप्राप्तिः भगीरथयशःप्राप्तिकथा प्रभावतीप्राप्तिकथा अजिनावतीप्राप्तिकथा गोमुखकथा मरुभूतिकथा हरिशिखकथा मानसवेगाधिवधः पञ्चलम्बको नाम गोमुखकथा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत गोमुखकथा Translation - भाषांतर अथाजग्मुश्चमूचन्द्रप्रभामण्डलमण्डिताः । विद्याधराधिपा व्योम्नि वेगताण्डविकुण्डलाः ॥१५५॥श्वशुरास्तद्वयस्याश्च द्रष्टुं वत्सनरेश्वरम् । हृष्टाः सभामाविविशुः पूजिता जगतीभुजा ॥१५६॥रत्नासनेषूपविष्टा विवर्णास्ते प्रभाजुषः । सुमेरुशिखरारूढास्त्रिदशा इव संगताः ॥१५७॥वीरोऽमितगतिः श्रीमान्सदा वायुपथाभिधः । तथा पिङ्गलगान्धारश्चण्डासिंहनासहस्तिणः(?) ॥१५८॥ते वत्सराजमाभाष्य कुशलं नतमौलयः । प्राहुर्मुखैर्वितन्वाना बहु सोमप्रभां सभाम् ॥१५९॥अयं तव सुतः श्रीमान्विजयी नरवाहनः । हरेण नः समादिष्टश्चक्रवर्ती भविष्यति ॥१६०॥ जगत्त्रयकृतास्माभिरस्य शासनमुद्रिता । कृते मानसवेगाच्च गौरीमुण्डाच्च दुर्भगात् ॥१६१॥ वीरो विद्याविरतस्तविद्धं(?) नरवाहनः । नार्हति त्रिपुरारातिवरदृप्ता हि शेखराः ॥१६२॥सहास्माभिरितो गत्वा सिद्धक्षेत्रं यतव्रतः । सिद्धविद्यः पुरा जित्वा पुनरेष्यति ते सुतः ॥१६३॥इति तद्वचसा राज्ञा विसृष्टो नरवाहनः । सह तैस्तद्विमानेन सिद्धक्षेत्रं क्षणाद्ययौ ॥१६४॥मरुभूतिमुखैः सार्धं सिद्धक्षेत्रमवाप्य सः । तस्थौ मुनिरिवाक्षोभ्यो निस्तरङ्गोऽम्बुधिप्रभः ॥१६५॥ततश्चचाल वसुधा ववुर्वाताः शिलामुचः । पेतुरुल्काः सनिर्ध्वानाश्चुक्षुभुर्मकराकराः ॥१६६॥ अथ चाभूद्दिवा क्षोभाद्गुहाविवरदारुणः । स्फुटतामिव वेणूनां घोटश्चटचटारवः ॥१६७॥ततश्चकार कल्पान्तजलदध्वानदुःसहः । प्रचण्डो गौरीमुण्डस्य समरारावडिण्डिमः ॥१६८॥अदृश्यत सितच्छत्रशुभ्रीकृतनभस्तलः । सह मानसवेगेन गौरीमुण्डो गजाग्रगः ॥१६९॥ तस्य व्योम्नि विकोशासिश्यामांशुपटलीभवेत् । मालानीलो व्यलदलैर्विहते वरुणाश्रयः ॥१७०॥तत्र विद्यादह्रेन्द्राणाम मालारत्नाम्शुबिम्बिते । रवौ सहस्रसूर्येव बभूव नभसस्तटी ॥१७१॥तेषां गम्भीरसंरम्भं संभाव्य गतविभ्रमा । प्रत्यर्थ.......महासेनाश्चण्डसिंहादयः स्वयम् ॥१७२॥ ततस्तरणिसंपातस्फुरद्रत्नकिरीटकाः । द्यां विधे...........सामन्ताश्चक्रुर्ज्वालाजटोत्कटाम् ॥१७३॥ गन्धर्वाणां सहस्रौघैर्विद्याभिर्गुलिकाभृताम् । अभूत्प्रकटसस्फोटसंचट्टचिच्चटं नभः ॥१७४॥गौरीमुण्डस्मृता देवी गौरी हुंकारमोहितान् । चकार चण्डसिंहाद्यान्संप्राप्तविजयानपि ॥१७५॥ संक्रुद्धोऽथ समभ्येत्य गौरीमुण्डो महाजवः । जग्राह बाहुसंग्रामसंमुखं नरवाहनम् ॥१७६॥ मायायोधी(?) तमादाय संविधूय गिरेस्तटे । चिक्षेप दूरसंतापमूर्च्छाविस्मृतसंभवम् ॥१७७॥ वेगान्मानसवेगोऽपि तद्वयस्यान्दिगन्तरे । तत्याज गोमुखमुखा................................ ॥१७८॥विद्यया धनवत्या ते रक्षिता न ययुः क्षयम् । ततस्त्र्यम्बकनिर्दिष्टो ररक्ष नरवाहनम् ॥१७९॥ वीरोऽमृतप्रभो नाम वह्निशैलान्नभश्चरः । नरवाहनदत्तोऽथ तपस्तेपे हराचले ॥१८०॥पूर्वमाराध्य हेरम्बं तद्वराच्च महेश्वरम् । गौरीं च तत्प्रसादेन विद्यां प्राप नृपात्मजः ॥१८१॥स्वयं विनिर्मितं यत्नाद्विमानं पद्मयोनिना । सहस्रपत्त्र वचसा शंकरस्यारुरोह सः ॥१८२॥ततो वक्रपुरे गत्वा प्रापामितगतेः सुताम् । सुलोचनानामत......स्तसारङ्गलोचनाम् ॥१८३॥रममाणस्तया तत्र लेभे विद्याधरेश्वरः । प्रतीहारं स्वयं प्राप्तं सनन्दिनमिवेश्वरम् ॥१८४॥चण्डसिंहप्रभृतिभिर्दयिताभिश्च संगतः । यदस्थानजविद्याभिर्वयस्यानानिनाय सः ॥१८५॥ कृतप्रणामांस्तान्दृष्ट्वा न्यपृच्छन्नरवाहनः । क्क युष्माभिरियान्कालः क्षपितः प्रेक्षितै रतिः ॥१८६॥ उवाच गोमुखः पूर्वं देव तस्मिन्महारणे । क्षिप्तो मानसवेगेन प्राप्तोऽहं किं वटाटवीम् ॥१८७॥तत्राहं शोकविधुरो यत्नान्मर्तुं समुद्यतः । आश्वासितो ब्राह्मणेन स्वामिनं द्रक्ष्यसीत्यथ ॥१८८॥नागस्वामी स मामाह पुराहं पाटलापुरे । अबन्धूर्जडधीर्नापि लिपिमात्रबुधोऽभवम् ॥१८९॥ ततोऽहं लज्जितो भिक्षाव्रतो भस्मकपालभृत् ।अवापं योषितादत्तं रक्ताब्जं सत्कृपावकः ॥१९०॥अपरा मम तद्वीक्ष्य हस्ते प्राह सुराङ्गना । कया स्तोष्य............दत्त्वेदं शाकिन्या रक्तमम्बुजम् ॥१९१॥श्रुत्वेत्यहमपश्यं तं स्वकरे पौरुषं करम् । ततोऽहं तद्गिरा गत्वा सुरभिं शरणं गतः ॥१९२॥रक्षितो रजनीमेकां तयाहं शाकिनीभयात् । तद्गिरा श्रुतिसोमाख्यमाचार्यं शरणं गतः ॥१९३॥तेनापि रजनीमेकां रक्षितोऽस्मि परेऽहनि ।विसृष्टः परिसंख्यायां प्राप्तोऽहं खेचरीगणैः ॥१९४॥ममैवायं ममैवायमिति तासां हरारवे । उत्कोऽस्मि पतितो दैवादायुःशेषेऽथ चापरम् ॥१९५॥ततो निशि च यक्षिण्या संगतः शापमुक्तया । कृतो निजप्रभावाद्यस्तेनाहं वेद्म्यनागतम् ॥१९६॥ प्रभुस्तवेश्वरवरान्प्राप्तवान्नरवाहनः । न क्षराद्रक्षति च स मामुवाचेति सोऽग्रजः ॥१९७॥ततोऽहं तदनुज्ञातो विद्यया दिव्यरूपया । त्वत्पादमूलमानीतो धन्योऽस्मि सफलः क्षणः ॥१९८॥इति गोमुखकथा ॥७॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP