संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|विषमशीलनामा दशमो लम्बकः| विषमशीलनामा विषमशीलनामा दशमो लम्बकः टेण्टाकरालाख्यायिका खण्डकापालिकवधः यक्षीसमागमकथा कन्याचतुष्टयप्राप्तिः शबरराजपुत्रीलाभः गजवराहशापमुक्तिः राजपुत्रीद्वयलाभः विषमशीलनामा विषमशीलनामा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत विषमशीलनामा Translation - भाषांतर ते कन्यके ततः प्राप्य विश्वकर्मसुरालयम् । प्रविश्यापश्यदत्यन्तकान्तामुत्कीर्णपुत्रिकाम् ॥२००॥ तां दृष्ट्वा नयनानन्दसुधां भेजे सविस्मयः । देवो विषमशीलोऽपि मदनानलवक्रिते ॥२०१॥ तेन पृष्टः स वेतालः केयमित्यतिकौतुकात् । उवाच शिल्पिना देव कृतेयं सालभञ्जिका ॥२०२॥ कलिङ्गराजतनययामालोक्य सदृशाकृतिम् । सेयं कलिङ्गसेनाख्या रूपकारेण निर्मिता ॥२०३॥ श्रुत्वेति वेतालवचस्तत्प्राप्तिन्यस्तमानसः । अभूत्कलिङ्गयात्रायां प्रस्थानाभिमुखो नृपः ॥२०४॥ अत्रान्तरे समभ्येत्य वणिक्पुत्रो व्यजिज्ञपत् । तं देव मम नागेन हर्म्यस्था दयिता हृता ॥२०५॥ तां विलासवतीं नाम नीतामालोक्य वल्लभाम् । कुञ्जरेन्द्रेण तेनाहं निखिलं व्याकुलोऽभवम् ॥२०६॥ ततो मां दुःखसंतप्तं कश्चिदभ्यागतो द्विजः । आश्वासयन्प्राह सखे मा विवृं.........वृथा कृथाः ॥२०७॥ भवन्त्यस्मिन्भवाम्भोधौ भ्राम्यतां कर्ममारुतैः । संयोगाश्च वियोगाश्च स्थायिनो न हि देहिनाम् ॥२०८॥ अभवत्ताम्रलिप्तायां देसटस्य द्विजन्मनः । तनयः केसटो नाम कन्दर्प इव मूर्तिमान् ॥२०९॥ कदाचित्तीर्थयात्रायां यातः पथि ददर्श सः । यन्न्यात्र(?) प्रस्थितान्विप्रान्विशेशोचितभूषितान् ॥२१०॥ तन्मध्यादवदद्वृद्धः केसटं सुन्दराकृतिम् । भद्र वृद्धस्य कार्येऽस्मिन्सहायो मे सखे भव ॥२११॥ अस्ति मे तनयो वक्रनासिको विकटाननः । लम्बोदरो दीर्घग्रीवो दन्तुरः खलतिः कृशः ॥२१२॥ तदर्थं धनलुब्धेन मया विप्रो महाधनः । सुतां रूपवतीं नाम याचितो धनशालिनीम् ॥२१३॥ विवाहः प्रस्तुतोऽद्यैव निशि तत्र ममात्मजम् । दृष्ट्वा कुरूपसाकां ना(?)न जाने किं करिष्यति ॥२१४॥ अतस्त्वं मन्मथाकारः साहाय्यं कर्तुमर्हसि । मत्पुत्रार्थं परिणये प्राप्नुयाद्येन कन्यकाम् ॥२१५॥ तच्च्रुत्वा बाढमित्याह केसटः स्वच्छचेतसाम् ।कथं परोपकारेषु निषेधे वाक्प्रवर्तते ॥२१६॥ ततः सोष्णीषकुसुमापीडकल्पितशेखरः ।कुसुमायुधसच्छायो नीतस्तेन द्विजालयम् ॥२१७॥ विवाहवसुधां प्राप्य स ददर्श द्विजात्मजाम् । रूपयौवनलावण्यैः पुनरुक्तविभूषणाम् ॥२१८॥ सखीनां सह कन्याभ्यां कटाक्षकिरणैर्दृशः । फुल्लेन्दीवरमालाङ्गं विदधानामिवोत्सवे ॥२१९॥ तां दृष्ट्वा केसटस्याभून्मनसि स्मयशालिनः । अहो मे दर्शनादस्या धन्यता नेत्रयोरभूत् ॥२२०॥ ततः केसटमालोक्य श्रृङ्गारमिव रूपिणम् । आजानुबाहुदीर्घाक्षं परिष्वक्तमिव त्विषा ॥२२१॥ कर्णोपान्तमुपेत्यास्य तत्सख्यावूचतुः शनैः । एकानुरागवत्याख्या परा श्रृङ्गारवत्यपि ॥२२२॥ धन्य रूपवती यस्यास्त्वं कान्तप्रवरो वरः । आवयोरपि कर्तव्यस्त्वया पाणिग्रहोत्वसः ॥२२३॥ इति स्वैरे समाकर्ण्य निःश्वस्याचिन्तयन्मुहुः ।भवतीभिर्ममान्यस्मिन्मन्ये जन्मनि संगमः ॥२२४॥ ध्यात्वा त्वेवं समासन्ने लग्ने निशि नदीतटे । स्पष्टमम्भोविनिर्यातं सोऽपश्यत्पिशिताशनम् ॥२२५॥ तं तु क्षामं तथालोक्य किं करोतीति कौतुकात् । अभक्षिता रूपवती तमेवानुययौ शनैः ॥२२६॥ सापि प्राप्य नदीतीरे राक्षसं तमभाषत । तद्वाक्यविस्मितं रक्षः प्राह रूपवतीं ततः ॥२२७॥ संत्रासातङ्कदुःखानां हस्ते न्यस्तेव वेधसा । मामत्सि राक्षसपते कान्तोऽयं मुच्यतां विभो ॥२२८॥ एतद्वियोगद्यत्सत्यं जीवितं निधनं मम । तच्छ्रुत्वा राक्षसः प्राह स्त्री न वध्या ममाबले ॥२२९॥ सावदद्भर्तृहीनायाः का मे वृत्तिर्निशाचर । सोऽब्रवीत्सस्मितं सुभ्रु सदा वर्तस्व भिक्षया ॥२३०॥ सापि को मे ददातीति प्रोवाच रजनीचरम् । सोऽब्रवीच्छतधा यातु तत्तुभ्यं न ददाति यः ॥२३१॥ ततो रूपवती प्राह भर्तृभिक्षा त्वमेव मे । देहीति तन्निषेधात्तु तद्रक्षः शतधा ययौ ॥२३२॥ मोचयित्वेति भर्तारं गत्वा तत्सहिता गृहम् । निशां निनाय तद्वक्त्रविन्यस्तानिमिषेक्षणा ॥२३३॥ प्रातर्जन्यावली यात्रारम्भे वृद्धद्विजन्मनः । अवाप्य परिणीतां तां नावा गन्तुं समुद्ययौ ॥२३४॥ मत्पुत्रोऽस्याः कुरूपोऽसौ केसटं वीक्ष्य न प्रियः । भविष्यतीति स ध्यात्वा छलान्नद्यां तमक्षिपत् ॥२३५॥ भ्राम्यमाणस्तरङ्गाद्यैः सोऽप्यं प्राप्य दिनैस्त्रिभिः । तीरं वियोगसलिले ममज्जापारदुस्तरे ॥२३६॥ तां शशाङवतीं ध्यात्वा ययो यत्त्रासशोषितः ।निधिना दृष्टनष्टेन विप्रलब्ध इवाभवत् ॥२३७॥ ततोऽस्तशिखरं याते पद्मिनीजीवितेश्वरे । संदेहं दिक्षु यातासु शोकैरिव तमश्चयैः ॥२३८॥भ्राजिष्णुरत्नाभरणं सोऽपश्यत्पतितं दिवः । पुरुषं यौवनोदारं विश्राममिव नेत्रयोः ॥२३९॥ तं केसटोऽथ पप्रच्छ कोऽसीति प्रणयोदितम् । निवेद्य निजवृत्तान्तं कान्ताविरहपीदितः ॥२४०॥ संपृष्टः प्राह निःश्वस्य धैर्यमालम्ब्य विक्रियाम् ।त्यजैतां श्रृणु मे तुल्यां क.............. ॥२४१॥ .................................... ।.................................... ॥२४२॥ .................................... । .................................... ॥२४३॥ .................................... । .................................... ॥२४४॥ .................................... । .................................... ॥२४५॥ .................................... । .................................... ॥२४६॥ .................................... । .................................... ॥२४७॥ .................................... । .................................... ॥२४८॥ .................................... । .................................... ॥२४९॥ .................................... । .................................... ॥२५०॥ .................................... । .................................... ॥२५१॥ .................................... । .................................... ॥२५२॥ .................................... । .....................स सततं नासौ त्वयि निरादरः ॥२५३॥ कलिङ्गसेना श्रुत्वेति दृष्ट्वा कार्पटिकोदितम् । सौभाग्यगर्वशैथिल्यं तत्याज मृगलोचना ॥२५४॥ ततः श्रीविक्रमादित्यः पालयन्निखिलां महीम् ।.........कर्पूरधवलाश्चकार यशसा दिशः ॥२५५॥अत्रान्तरे शत्रुजितः कश्चिदेत्य नृपात्मजः । चक्रे विषमशीलस्य सेवां द्वादशवार्षिकीम् ॥२५६॥चिरस्थितं राजपुत्रं सोऽथ कार्पटिकव्रतम् । तं खण्डकपटाभिख्ये व्यधादेत्य पुरे नृपम् ॥२५७॥ सर्वर्तुफलपुष्पाढ्यं मणिकाञ्चनमन्दिरम् । स सर्वकामदं प्राप्य तत्पुरं विस्मितोऽभवत् ॥२५८॥ ततः प्रतिनिवृत्ताय पुनश्चास्मै ददौ स्वयम् । चतुरम्भोधिपर्यन्तं चतुर्भागं भुवो विभुः ॥२५९॥ अत्रान्तरे समभ्येत्य पुनः कश्चिव्द्यजिज्ञपत् ।देवं श्रीविक्रमादित्यं रोमाञ्चोद्भूतविग्रहम् ॥२६०॥कृष्णशक्तिरिति ख्यातो वाहं....द्विजपुत्रकः । आगतः श्वशुरावासाद्भार्यामादाय तत्स्थिताम् ॥२६१॥ तुरङ्गीमधिरुह्यायमस्या याने सुहृद्वृते । अभक्षयन्नरं साशु मद्भार्या गूढशाकिनी ॥२६२॥तां रक्ताक्तमहावक्रां दृष्ट्वाहं भयविह्वलः । देव त्वां शरणं प्राप्तः प्रमाणमधुना प्रभुः ॥२६३॥ तच्छ्रुत्वा सस्मिते राज्ञि ध्वस्तायां च तदाज्ञया ।शाकिन्यां तत्कथामध्ये प्राह मन्त्री नरेश्वरम् ॥२६४॥ आलयः सर्वपापानां देव क्रूरतराः स्त्रियः ।अग्निगर्भाभिधस्यासीत्प्रिया भार्या द्विजन्मनः ॥२६५॥ सा चौररागिणी शूले चौरमुल्लम्बिनं पुरा । स्नेहदुःखस्मरावेशादालिलिङ्ग चुचुम्ब च ॥२६६॥ तदा प्रविष्टो वेतालस्तस्याश्चिच्छेद नासिकाम् । छिन्ननासा च सा गत्वा पत्युर्वस्त्रान्तमग्रहीत् ॥२६७॥ अनेन निगृहेताहमपापेत्यार्तराविणी । पित्रा मात्रा च सा सार्धं गत्वा राज्ञे न्यवेदयत् ॥२६८॥ राज्ञादिष्टेऽथ तद्भर्तुर्निग्रहे रभसं स्थितः । तद्वृत्तं दिव्यपुरुषः कथयित्वा ररक्ष तम् ।इति पापाः स्त्रियो देव भवन्ति कलुषाशयाः ॥२६९॥ इत्युक्ते तेन भूपालं मूलदेवोऽप्यभाषत ।पापा नैकान्ततो देव सन्ति साध्व्योऽपि योषितः ॥२७०॥ मत्प्रसिद्धिं समाकर्ण्य धूर्तैर्लभ्यास्मि नो बलात् । इत्युद्वाहविधौ बद्धनियमां शङ्कितां सदा ॥२७१॥ पुरा धूर्तः प्रसिद्धोऽहं युक्त्या धूर्तैरनिर्जिताम् । अवापं विप्रतनयां विवाहे छन्नवेषभृत् ॥२७२॥ ततस्तां विहितोद्वाहामवदं प्राज्ञमानिनीम् ।हा वञ्चितासि गच्छामि स्वतिते(?) विजितं मया ॥२७३॥ इति ब्रुवाणं मां प्राह प्रस्थितं सा स्मितव्रता ।गच्छ मत्सूनुना बद्धो न चिरात्त्वं भविष्यसि ॥२७४॥ इति प्रतिज्ञां श्रुत्वाहं तस्या यातो निजां पुरीम् ।यति काले कदाचित्सा छन्ना तामाययौ पुरीम् ॥२७५॥ तस्यौ च तत्र गणिकामिषेणालक्षिता क्षितौ । कामुकान्साथ संप्राप्तान्धियैव विमुखान्व्यधात् ॥२७६॥ पूर्वे यामे स्नानविधिं द्वितीये भोजनक्रम म् । तृतीये मण्डनारम्भं चतुर्थे तु कथान्तरम् ॥२७७॥ निजैः परिजनैः कृत्वा कामिनामिति वञ्चनाम् । शीलसंरक्षणपरा तस्थौ मत्संगमाशया ॥२७८॥ नवां वाराङ्गनां प्राप्तां श्रुत्वाहं तामशङ्कितः ।प्रविष्टः कामुको भूत्व अतद्गृहं स्मरमोहितः ॥२७९॥ सा मां प्रौढं परिज्ञाय संगमं विदधे मया । मत्तश्च गर्भं संप्राप्य प्रच्छन्ना स्वपुरं ययौ ॥२८०॥ सासूताथ सुतं काले संप्रवृद्धिं कलानिधिम् । मातुर्गृहात्समभ्येत्य मां द्यूतैः सोऽजयत्कृती ॥२८१॥ स हारितानेकधनं बध्वा मां मातुरन्तिकम् । निनाय सा च मां प्राह सा निजानां स्वसंगम म् ॥२८२॥ तीर्णा मया प्रतिज्ञासौ प्रमाणमधुना भवान् । इति ब्रुवाणां तां कान्तामभजं सत्यवादिनीम् ॥२८३॥ इत्येवं सत्यशालिन्यो देव सन्ति पतिव्रताः । मोलदेवो निगद्येति प्रणम्य प्रययौ नृपम् ॥२८४॥ अथ श्रीविक्रमादित्यो हेलया निर्जिताखिलः । म्लेच्छान्काम्बोजयवनान्नीचान्हूणान्सबर्बरान् ॥२८५॥ तुशारान्पारसीकांश्च त्यक्ताचारान्विश्रृङ्खलान् । हत्वा भ्रूभङ्गमात्रेण भुवो भारमवारयत् ॥२८६॥ इत्येवं सत्यसंपन्नाः प्राप्नुवन्ति समीहितम् । नरवाहन कान्तां तामवाप्स्यसि धृतिं श्रियः ॥२८७॥ इति निशम्य कथां स मुनेर्वचः प्रियतमाविरहानलतापितः । वनमहीषु चचार निजां पुरीमनुसरञ्शनकैर्नरवाहनः ॥२८८॥ इति क्षेमेन्द्रविरचितायां बृहत्कथायां विषमशीलनामा दशमो लम्बकः समाप्तः । N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP