संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|विषमशीलनामा दशमो लम्बकः| कन्याचतुष्टयप्राप्तिः विषमशीलनामा दशमो लम्बकः टेण्टाकरालाख्यायिका खण्डकापालिकवधः यक्षीसमागमकथा कन्याचतुष्टयप्राप्तिः शबरराजपुत्रीलाभः गजवराहशापमुक्तिः राजपुत्रीद्वयलाभः विषमशीलनामा कन्याचतुष्टयप्राप्तिः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कन्याचतुष्टयप्राप्तिः Translation - भाषांतर अत्रान्तरे संहतास्ते पापा म्लेच्छशकाधिपाः । ज्ञात्वा तदर्थमायान्तीं सिंहलाधिपतेः सुताम् । पथि तस्थुः सुसंरब्धाः सेनाच्छादितदिक्तटाः ॥१५०॥ ततो विदर्भराजेन तेषां विक्रमशक्तिना । बभूव सुचिरं युद्धं विस्मयाद्वीक्षितं सुरैः ॥१५१॥ ततः सा यक्षतनया सह गुह्यकसेनया । सेनां विदर्भाधिपतेरविशद्विजयश्रिये ॥१५२॥ अथ तेषु निरस्तेषु रणे भग्नेषु शत्रुषु । आगताः पृथिवीपालाः सर्वे तद्वशवर्तिनः ॥१५३॥ सिंहलेश्वरपुत्री च ते च त्रिदशकन्यके । आयातास्त्वद्विवाहाय सहिता सर्वराजभिः ॥१५४॥ इतः स कटकावर्तो वर्तते योजनत्रये । प्रत्युद्गमनसत्कारस्तत्र देव विधीयताम् ॥१५५॥ श्रुत्वेत्यनङ्गदेवेन कथितं पृथिवीपतिः । आदिदेश महोत्साहो यात्रासंरम्भदुन्दुभिः ॥१५६॥ ततो गर्जद्गजानीकसंछादितदिगन्तरान् । नातिदूरं निजपुराद्गत्वापश्यन्नरेश्वरान् ।नातिदूरं निजपुराद्गत्वापश्यन्नरेश्वरान् ॥१५७॥ नामानि देशभूपालैः सूचितैर्बन्दिभिः पुरा । प्रणम्यमानः सुमुखीं वरयित्रीं ददर्श सः ॥१५८॥ तां सिंहलेश्वरसुतां वीक्ष्य सारङ्गलोचनाम् । विप्रलम्ब्धं स्मरं मेने रतिसौभाग्यगर्वितम् ॥१५९॥ परिणीयेन्दुवदनां ततस्तां पृथिवीपतिः ।हेममौक्तिकरत्नानां कूटानप्यचलोपमान् ॥१६०॥ दिव्येनोद्वाहविधिना प्रयाते दिव्यकन्यके । कुलाधिदेवते कान्तं स्मरसौभाग्ययोरिव ॥१६१॥ तं दिव्यहरिणं हारिरत्नकान्तिविचित्रितम् । लब्ध्वा विवेश स्वपुरं सानुगो वल्लभासकःः ॥१६२॥ अतः संभोगसुभगः .........तां यदृच्छया । केनापि द्विजपुत्रेण ददर्शालेख्यपुत्रिकाम् ॥१६३॥ तां दृष्ट्वा चित्रफलके त्रैलोक्योन्मादनौषधिम् ।स्वप्ने तामेव चापश्यत्खेत्यङ्क (?) इव लम्बिनीम् ॥१६४॥ नग्नकृपणकां ज्ञात्वा तां चित्रलिखितां प्रियाम् । राज्ञो मलयसिंहस्य पुत्रीं मलयवासिनः ॥१६५॥ कान्तां मलयवत्याख्यां विलासतिलकं रतेः । स्वयं गत्वा सहामात्यो लेभे हरिणलोचनाम् ॥१६६॥ इति कन्याचतुष्टयप्राप्तिः ॥४॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP