मालतीमाधवम् - दशमोऽङ्कः ।

एतद् भवभूतिना लिखितं कल्पनारम्यनाटकं वर्तते।


( ततः प्रविशति कामन्दकी मदयन्तिका लवङ्गिका च । )
कामन्दकी - ( सकरुणं सास्रम् । ) हा वत्से मालति, मदङ्कालंकारिणि, क्कासि । देहि मे प्रतिवचनम् ।
आ जन्मनः प्रतिमुहूर्तविशेषरम्य -
ण्याचेष्टितानि तव संप्रति तानि तानि ।
चाटूनि चारुमधुराणि च संस्मृतानि
देहं दहन्ति हृदयं च विदारयन्ति ॥१॥
अपि च । पुत्रि,
अनियतरुदितस्मितं विराज -
त्कतिपयकोमलदन्तकुङ्मलाग्रम् ।
वदनकमलकं शिशोः स्मरामि
स्खलदसमञ्जसमुग्धजल्पितं ते ॥२॥
इतरे - ( सास्रम् । ) हा पिअसहि, सुप्पसण्णमुहचन्दसुन्दरि, कहिं गदासि । को दे सरीरस्स देव्वदुव्विलासपरिणामो एक्काकिणीए उवणदो । हा महाभाअ माहव, उदिअत्थमिदमहूसवो दे जीअलोओ संवुत्तो ।
कामन्दकी - ( सविशेषखेदम् । ) हा वत्सौ,
अभिनवरागरसोऽयं भवतोः कृतकौतुकः परिष्वङ्गः ।
लवलीलवङ्गयोरिव नियतिमहावात्ययाभिहतः ॥३॥
लवङ्गिका - ( सोद्वेगम् । ) हदास, वज्जमअहिअअ, सव्वहा णिसंसेसि । ( इति हृदयमाहत्य पतति । )
मदयन्तिका - सहि लवङ्गिए, णं भणामि क्खणमेत्तं वि दाव समस्सस ।
लवङ्गिका - मदअन्तिए, किं करेमि । दिढवज्जलेवपडिवद्धणिच्चलं विअ जीविदं मं ण परिच्चअदि ।
कामन्दकी - वत्से मालति, जन्मनः प्रभृति वल्लभतरा ते लवङ्गिका । तत्किमुज्जिहानजीवितां नानुकम्पसे । इयं हि
उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते ।
मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥४॥
कथं त्वं कल्याणि, कामन्दकीं त्यजसि । नन्वकरुणे, मदीयचीवराञ्चलोष्मणैव ते प्रगुणितान्यङ्गानि ।
स्तन्यत्यागात्प्रभृति सुमुखी दन्तपाञ्चालिकेव
क्रीडायोगं तदनु विनयं प्रापिता वर्धिता च ।
लोकश्रेष्ठे गुणवति वरे स्थापिता त्वं मयैव
स्नेहो मातुर्मयि समधिकस्तेन युक्तस्तवापि ॥५॥
( सवैक्लव्यम् । ) हा चन्द्रमुखि, संप्राप्ति निराशस्मि संवृत्ता ।
अकारणस्मेरमनोहराननः
शिखाललाटार्पितगौरसर्षपः ।
तवाङ्कशायी परिवृत्तभाग्यया
मया न दृष्टस्तनयः स्तनंधयः ॥६॥
लवङ्गिका - भअवदि, पसीद । णिस्सहम्मि जीविदुव्वहणे । साहं इमादो गिरिप्पपादादो अत्ताणं अवधुणिअ णिव्वुत्ता भविस्सं । तह मे भअवदी आसिसं करेदु, जेण जम्मन्तरे वि दाव पिअसहिं पेक्खिस्सं ।
कामन्दकी - ननु लवङ्गिके, कामन्दक्यपि नातः परं वत्सावियोगेन जीविष्यति । समश्चायमुत्कण्ठावेग आवयोः । किंच,
संगमः कर्मणां भेदाद्यदि न स्यान्न नाम सः ।
प्राणानां तु परित्यागे संतापोपशमः फलम् ॥७॥
लवङ्गिका - जह तुम्हे आणवेत्थ । ( इत्युत्तिष्ठति । )
कामन्दकी - ( सदयं वीक्ष्य । ) वत्से मदयन्तिके ।
मदयन्तिका - किं आणवेध । अग्गेसरीहोहि त्ति । अवहिदम्हि ।
लवङ्गिका - सहि, पसीद । विरम एत्तो अत्तणो वावादणादो । मा अ एणं जणं विसुमरेसि ।
मदयन्तिका - ( सकोपमिव । ) अपेहि । णम्हि दे वसंवदा ।
कामन्दकी - हन्त, निश्चितं वराक्या
मदयन्तिका - ( स्वगतम् । ) णाह मअरन्द, णमो दे ।
लवङ्गिका - भअवदि, अअं जेव्व महुमदीसोत्तसंदाणिदपवित्तमेहलो महीहरविटङ्को ।
कामन्दकी - कृतमिदानीं प्रस्तुतान्तरायेण ।
( सर्वाः पतितुमिच्छन्ति । )
( नेपथ्ये । )
आश्चर्यम्,
व्यतिकर इव भीमस्तामसो वैद्युतश्च
क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः ।
कामन्दकी - ( विलोक्य साद्भुतहर्षम् । )
कथमिह मम वत्सस्तत्किमेतत्
मकरन्द :- ( प्रविश्य । )
किमन्य -
त्प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥८॥
( नेपथ्ये । )
कथमतिदारुणो जनावमर्दः संप्रवर्तते ।
मालत्यापायमधिगम्य विरक्तचेताः
सांसारिकेषु विषयेषु च जीविते च  
निश्चित्य वह्निपतनाय सुवर्णबिन्दु -
मभ्येति भूरिवसुरित्यधुना हताः स्मः ॥९॥
मदयन्तिकालवङ्गिके - झत्ति मालदीमाहवाणं दंसनब्भुदओझत्ति अच्चाहिदं अ ।
कामन्दकीमकरन्दौ - दिष्ट्या । कष्टं भोः आश्चर्यम् ।
किमयमसिपत्त्रचन्दनरसाच्छटासारयुगपदवपातः ।
अनलस्फुलिङ्गकलितः किमयमनभ्रः सुधावर्षः ॥१०॥
संजीवनौषधिविषव्यतिकरमालोकतिमिरसंभेदम् ।
अद्य विधिरशनिशशधरमयूखसंवलनमनुकुरुते ॥११॥
( नेपथ्ये । )
हा ताद, विरम । ऊसुअम्हि दे वअणकमलदंसणस्स । पसीद ।
संभावेहि मं । कहं मम कारणादो समत्थलोआलोआन्तरालविक्खम्भणिम्मलेक्कमङ्गलप्पदीवभूदं अत्ताणं परिच्चअसि । मए उण अलज्जाए णिरणुक्कोसाए तुम्हे परिच्चत्ता ।
कामन्दकी - हा वत्से, मालति ।
जन्मान्तरादिव पुनः कथमपि लब्धासि यावदयमपरः ।
उपराग इव शशिकलां कवलयितुमुपस्थितोऽनर्थः ॥१२॥
इतरे - हा पिअसहि ।
( ततः प्रविशति मुग्धं मालतीं धारयन्माधवः । )
माधव :- कष्टं भोः ।
एषा प्रवासं कथमप्यतीत्य
याता पुनः संशयमन्यथैव ।
को नाम पाकाभिमुखस्य जन्तो -
र्द्वाराणि दैवस्य पिधातुमीष्टे ॥१३॥
मकरन्द :- सखे, अथ क्क सा योगिनी ।
माधव :-
श्रीपर्वतादिहाहं सत्वरमपतं तयैव सह सद्यः ।
करुणवनेचरवचनादन्तरितां तां न पश्यमि ॥१४॥
कामन्दकीमकरन्दौ - महाभागे, पुनः परित्रायस्व नः ।
किमर्थमन्तर्हितासि ।
मदयन्तिकालवङ्गिके - सहि मालदि, णं भणामि सहि मालदि त्ति । ( सोत्कम्पम् । ) भअवदि, परित्ताहि । चिरणिरुद्धणिस्सासणिच्चलं से हिअअं । हा अमच्च, हा पिअसहि, तुम्हे दुवे वि परप्परावसाणस्स कारणं जादा ।
कामन्दकी - हा वत्से मालति ।
माधव :- हा प्रिये मालति ।
मकरन्द :- हा प्रियसखि ।
( सर्वे मोहमुपगम्य पुनः संज्ञां लभन्ते । )
कामन्दकी - तत्किमेष झटिति पाट्यमानादिवाम्बुदादम्बुनिवहः परिस्खलन्नस्मान्प्रीणयति ।
माधव :- ( सोच्छ्वासम् । ) अये, प्रत्यापन्नचेतनेव मालती । तथाह्यस्याः
भवति विततश्वासोन्नाहप्रणुन्नपयोधरं
हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् ।
तदनु वदनं मूर्च्छाच्छेदात्प्रसादि विराजते
परिगतमिव प्रारम्भेऽह्नः श्रिया सरसीरुहम् ॥१५॥
( नेपथ्ये । )
अविगणय्य नृपं सहनन्दनं
चरणयोर्नतमग्निचये पतन् ।
सपदि भूरिवसुर्विनिवर्तितो
मम गिरा गुरुसंमदविस्मयः ॥१६॥
माधवमकरन्दौ - भगवति, दिष्ट्या वर्धसे ।
सा योनिनीयमतिरयविघटितजलदाभ्युपैति नौ यस्याः ।
वागमृतजलासारो जलदजलासारमतिशेते ॥१७॥
कामन्दकी - प्रियं नः ।
मालती - दिट्ठिआ चिरस्स पच्चुज्जीविदम्हि ।
कानन्दकी - ( सहर्षबाष्पम् । ) एह्येहि पुत्रि ।
मालती - हा कहं भअवदी । ( इति पादयोर्निपतति । )
कामन्दकी - ( उत्थाप्यालिङ्ग्य मूर्ध्न्युपाघ्राय । )
जीव जीवितसमय जीवितं
देहि जीवतु सुहृज्जनश्च ते ।
अङ्गकैस्तुहिनसङ्गशीतलैः
पुत्रि मां प्रियसखीं च जीवय ॥१८॥
माधव :- वयस्य मकरन्द, संप्रत्युपादेयो माधवस्य जीवलोकः संवृत्तः ।
मकरन्द :- ( सहर्षम् । ) एवमेवैतत् ।
इतरे - पिअसहि, मणोरहातिक्कान्तदंसणे, संभावेहि अम्हे परिस्सङ्गेण ।
मालती - हा पिअसहिओ । ( इत्युभे आलिङ्गतः । )
कामन्दकी - वत्सौ, किमेतत् ।
माधवमकरन्दौ - भगवति,
कपालकुण्डलाकोपदुर्जातजनितापदः ।
वयमभ्युद्धृताः कृच्छ्रान्निर्बन्धादार्ययानया ॥१९॥
कामन्दकी - कथमघोरघण्टवधविजृम्भितमेतत् ।
लवङ्गिकामदयन्तिके - अहो अच्चरिअं । पुणरुत्तदारुणस्स परिणामरमणिज्जत्तणं विहिणो ।
सौदामिनी - ( प्रविश्य । ) भगवति, स एष चिरंतनोऽन्तेवासीजनः प्रणमति ।
कामन्दकी - अये, भद्रम् । सौदामिनी ।
माधवमकरन्दौ - कथमियं सा भगवत्याः पक्षपातस्थानमाद्यशिष्या सौदामिनी । यतः सर्वमधुना संगच्छते ।
कामन्दकी -
एह्येहि भूरिवसुजीवितदानपुण्य -
संभारधारिणि चिरादसि हन्त दृष्टा ।
दत्तप्रमोदमभिनन्दय मे शरीर -
मालिङ्ग्य सौहृदनिघे विरम प्रणामात् ॥२०॥
अपि च ।
वन्द्या त्वमेव जगतः स्पृहणीयसिद्धि -
रेवंविधैर्विलसितैरतिबोधिसत्त्वैः ।
यस्याः पुरा परिचयप्रतिबद्धबीज -
मुद्भूतभूरिफलशालि विजृम्भितेन ॥२१॥
मदयन्तिकालवङ्गिके - इअं सा अज्जा सौदामिणी ।
मालती - बाढम् । इमाए क्खु भअवदीसंबन्धपक्खवादिणीए णिब्भच्छिअ कवालकुण्डलं अत्तणो आवसहं उवणीअ आसासिदम्हि । किं अ केसरावलीसाभिण्णाणहत्थाए इह आगत्तूण सव्वे तुम्हे संधारिदा ।
इतरा :- सुप्पसण्णा णो कणिटठा भअवदी ।
मकरन्दमाधवौ - अहो नु खलु भोः ।
अपि चिन्तामनिश्चिन्तापरिश्रममपेक्षते ।
इदं त्वचिन्तितं मये कृतमाश्चर्यमार्यया ॥२२॥
सौदामिनी - ( स्वगतम् । ) हन्त, लज्जयति मामत्यन्तसौजन्यमेतेषाम् । ( प्रकाशम् । ) भगवति, एतत्प्रहृष्टनन्दनाभिनन्दितेन राज्ञा पद्मावतीश्वरेण भूरिवसोः प्रत्यक्षमभिलिख्य पत्रमायुष्मतो माधवस्य प्रेषितम् । ( लेख्यमर्पयति । )
कामन्दकी - ( गृहीत्वा वाचयति । )  ‘ स्वस्त्यस्तु वः । परमेश्वरः समाज्ञापयत्यि यथा,
श्लाघ्यानां गुणिनां धुरि स्थितवति श्रेष्ठान्ववाये त्वयि
प्रत्यस्तव्यसने महीयसि परं प्रीतोऽस्मि जामातरि ।
तेनेयं मदयन्तिकापि भवतः प्रीत्यै तव प्रेयसे
मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥२३॥
( माधवमुद्दिश्य सहर्षम् । ) वत्स, श्रूयताम् ।
माधव :- श्रुतम् । इदानीं सर्वथा कृतार्थोऽस्मि ।
मालती - दिट्ठिआ एदं वि दाव अवगदं हिअअस्स सङ्कासल्लं ।
लवङ्गिका - संपदं णिरवसेसं पूरिआ महावसिरिणो मणोरहा ।
मकरन्द :- ( पुरोऽवलोक्य । ) कथमवलोकिताबुद्धरक्षिते कलह्म्सश्च दूरतः समागतानस्मान्वीक्ष्य तत्रैव हर्षनिर्भर नृत्यन्त इत एवागच्छन्ति ।
( ततः प्रविशतोऽवलोकिताबुद्धरक्षिते कलहंसश्च । )
ते - ( विविधं नृत्यं कृत्वा सर्व उपसृत्य सप्रमानं कामन्दकीं प्रति । ) जअ भअवदि कज्जणिहाणे । ( माधवं प्रति । ) जअ मअरन्दणन्दण माहव पुण्णचन्द, दिट्ठिआ वड्ढसि ।
( सर्वे सस्मितं पश्यन्ति । )
लवङ्गिका - तदीअकज्जं वि अ एतस्सिं संपूरिदम् । अदो सव्वप्पआरमहूसवे णच्चइ ।
कामन्दकी - एवमेतत् । अस्ति वा कुतश्चिदेवंभूतं महाद्भुतं विचित्ररमणीयोज्ज्वलं प्रकरणम् ।
सौदामिनी - इदमत्र रामणीयकं यदमात्यभूरिवसुदेवरातयोश्चिरात्संपूर्णोऽयमितरेतरापत्यसंबन्धरूपो मनोरथः ।
मालती - ( स्वगतम् ) तं कहं विअ ।
मकरन्दमाधवौ - ( सकौतुकम् । ) भगवति, अन्यथा वस्तु प्रवृत्तम्, अन्यथा वचनपर्यायः ।
लवङ्गिका - ( जनान्तिकम् । ) भअवदि, किं पदिवज्जिदव्वं ।
कामन्दकी - ( स्वगतम् । ) संप्रति मदयन्तिकासंबन्धेन नन्दनावग्रहात्प्रत्यस्तशङ्काः खलु वयम् । ( प्रकाशम् । ) वत्सौ, न खल्वन्यथा वस्तु प्रवृत्तम्, अन्यथावचनमस्याः । यतः श्रावकावस्थायामस्मत्सौदामिनीसमक्षं तयोः प्रवृत्तेयं प्रतिज्ञावाभ्यामपत्यसंबन्धः कर्तव्य इति । प्रधानप्रकृतिकोपस्त्वेवं परिहृतः ।
मालती - अहो संवरणम् ।
मकरन्दमाधवौ - ( साश्चर्यम् । ) जयन्ति खलु महतां विसंवादिन्यः प्रत्यायिन्यः कल्याणा नीतयः ।
कामन्दकी - वत्स,
यत्प्रागेव मनोरथैर्वृतमभूत्कल्यानमायुष्मतो -
स्तत्पुण्यैर्मदुपक्रमैश्च फलितं क्लेशैश्च मच्छिष्ययोः ।
निष्णातश्च समागमोऽपि विहितस्त्वत्प्रेयसः कान्तया
संप्रीतौ नृपनन्दनौ यदपरं प्रेयस्तदप्युच्यताम् ॥२४॥
माधव :- ( सहर्षम् । ) अतः परं मम प्रियमस्ति तथापीदमस्तु भरतवाक्यम् -
शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु शान्तिं सर्वत्र सुखी भवतु लोकः ॥२५॥
कामन्दकी - एवमस्तु ।
( इति निष्कान्ताः सर्वे । )
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे दशमोऽङ्कः ।

N/A

References : N/A
Last Updated : June 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP