मालतीमाधवम् - तृतीयोऽङ्कः ।

एतद् भवभूतिना लिखितं कल्पनारम्यनाटकं वर्तते।


( ततः प्रविशति बुद्धरक्षिता । )
बुद्धरक्षिता - ( परिक्रम्य आकाशे । ) अवलोइदे, अवि जाणासि कहिं भअवदी ।
अवलोकिता - ( प्रविश्य । ) बद्धरक्खिदे, किं पमुद्धासि । जो कोवि कालो भअवदीए पिण्डपारणवेलं विसज्जिअ मालदीं अणुवट्टमाणाए ।
बुद्धरक्षिता - हुं । तुमं उण कहिं पत्थिदासि ।
अवलोकिता - अहं क्खु भअवदीए माहवसआसं अणुप्पेसिदा । संदिट्ठं अ तस्स संकरउरसंबन्धि कुसुमाअरुज्जाणं गदुअ कुञ्जणिउञ्जपेरन्तरत्तासोअगहणे चिट्ठेति । गदो अ तत्थ माहवो ।
बुद्धरक्षिता - अवलोइदे, किं ति माहवो तत्थ अणुप्पेसिदो ।
अवलोकिता - अज्ज किसणचउद्दसित्ति जणणीए समं मालदी संकरउरं गमिस्सदि । तदो एवं किल सोहग्गं वड्ढदि त्ति देवदाराहणणिमित्तं सहत्थकुसुमावअअं उद्दिसिअ लवङ्गिआदुदीअं मालदीं तं एव्व कुसुमाअरुज्जाणं आणइस्सदि । तदो अण्णोण्णदंसणं हविस्सदि त्ति । तुमं उण कहिं पत्थिदा सि ।
बुद्धरक्षिता - अहं क्खु संकरउरं जेव्व पत्थिदाए पिअसहीए मदअन्तिआए आमन्तिदा । अदो भअवदीए पादवन्दणं कदुअ तहिं जेव्व गच्छामि ।
अवलोकिता - तुमं क्खु भअवदीए जस्सिं पओअणे णिउत्ता तत्थ को वुत्तन्तो ।
बुद्धरक्षिता - मए क्खु भअवदीए समादेसेण तासु तासु विस्सम्भकहासु ईरिसो तारिसो त्ति मअरन्दस्स उवरि पिअसहीए मदान्तिआए परोक्खाणुराओ तहा दूरं आरोविदो जहा से मणोरहो अवि णाम तं पेक्खामि त्ति ।
अवलोकिता - साहु बुद्धरक्खिदे, साहु । एहि गच्छम्ह ।
( इति निष्क्रान्ते । )
प्रवेशकः ।

----------------------------

( प्रविश्य । )

कामन्दकी -
तथा विनयनम्रापि मया मालत्युपायतः ।
नीता कतिपयाहोभिः सखीविस्रम्भसेव्यताम् ॥१॥
संप्रति हि
व्रजति विरहे वैचित्र्यं नः प्रसीदति संनिधौ
रहसि रमते प्रीत्या वाचं ददात्यनुवर्तते ।
गमनसमये कण्ठे लग्ना निरुध्य निरुध्य मां
सपदि शपथैः प्रत्यावृत्तिं प्रणम्य च याचते ॥२॥
इदं च तत्र साधीयः प्रत्याशानिबन्धनम् ।
शाकुन्तलादीनितिहासवादा -
न्प्रस्तावितानन्यपरैर्वचोभिः ।
श्रुत्वा मदुत्सङ्गनिवेशिताङ्गी
चिराय चिन्तास्तिमितत्वमेति ॥३॥
तदद्य माधवसमक्षमुत्तरमुपक्रमिष्यामः । ( नेपथ्याभिमुखमवलोक्य । )
वत्से, इत इतः ।
( ततः प्रविशति मालती लवङ्गिका च । )
मालती - ( स्वगतम् । ) कहं उवहारीकिदन्हि राइणो तादेण । राआराहणं क्खु तादस्स गुरुअं, ण उण मालदी । ( सास्रम् ) हा ताद, तुमं वि मह णाम एव्वं त्ति सव्वहा जिदं भोअतिण्हाए । ( सानन्दम् । ) कहं महाउलप्पसूदो सो महाभाओ । सुट्ठु भणिदं पिअसहीए कुदो वा महोअहिं वज्जिअ पारिजादस्स उग्गमो त्ति । अवि णाम तं उणो वि पेक्खिस्सं ।
लवङ्गिका - सहि, एसो क्खु महुरमहुरसाद्दमञ्जरिकवलणकेलिकलकोइलउलकोलाहलाउलिदसहआरसिहरुड्डीणचडुलचञ्चरीअणिअरवइअरुद्दलिददलकरालचम्पआहिवासमणोहरो मरालजहणपरिणाहुव्वहण मन्थरोरुभरविसंठुलक्खलिदसलणसंचलणोवणीदसेअसीअरसुहाबिन्दुज्जलमुद्धमुहचन्दचन्दणाअमाणसीअलफंसो तुमं परिस्सअदि कुसुमाअरुज्जाण मारुदो । तां पिअसहि, इदो परिक्कमावो ।
( परिक्रम्य प्रविशतः । )
( ततः प्रविशति माधवः । )
माधव :- हन्त, परागता भगवती । इयं हि मम
आविर्भवन्ती प्रथमं प्रियायाः
सोछ्वासमन्तःकरणं करोति ।
निदाघसंतप्तशिखण्डियूनो
वृष्टेः पुरस्तादचिरप्रभेव ॥४॥
दिष्ट्या लवङ्गिकाद्वितीया मालत्यपि ।
आश्चर्यमुत्पलदृशो वदनामलेन्दु -
सांनिध्यतो मम मुहुर्जडिमानमेत्य ।
जात्येन चन्द्रमणिनेव महीधरस्य
संधार्यते द्रवमयो मनसा विकारः ॥५॥
संप्रति रमणीयतरा मालती ।
ज्वलयति मनोभवाग्निं मदयति हृदयं कृतार्थयति चक्षुः ।
परिमृदितचम्पकावलिविलासलुलितालसैरङ्गैः ॥६॥
मालती - सहि, इमस्सिं कुञ्जणिउञ्जे कुसुमाइं अवचिणुम्ह ।
माधवा -
प्रथमप्रियावचनसंश्रयस्फुर -
त्पुलकेन संप्रति मयावलम्ब्यते ।
धनराजिनूतनपयःसमुक्षण -
क्षणबद्धकुङ्मलकदम्बडम्बरः ॥७॥
लवङ्गिका - सहि, एवं करेम्ह ।
( पुष्पावचर्य नटकतः  )
माधव :- अपरिमेयाश्चय्रमाचार्यकं भगवत्याः ।
मालती - सहि, देण इदो वि अवरस्सिं अवचिणुम्ह ।
कामन्दकी - ( मालतीं परिष्वज्य । ) अयि, विरम विरम । निःसहा जातासि ।
स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं
जनयति मुखचन्द्रोद्भासिनः खेदबिन्दून् ।
मुकुलयति च नेत्रे सर्वथा सुभ्रु खेद -
स्त्वयि विलसति तुल्यं वल्लभालोकनेन ॥८॥
( मालती लज्जां नाटयति । )
लवङ्गिका - सोहणं भअवदीए आणत्तं ।
माधव :- हृदयंगमः परिहासः ।
कामन्दकी - तदास्यताम् । किंचिदाख्येयमाख्यातुकामास्मि ।
( सर्वा उपविशन्ति । )
कामन्दके - ( मालत्याश्रुबुकमुन्नमय्य । ) श्रृणु चित्रमिदं सुभगे ।
मालती - अवहिदम्हि ।
कामन्दकी - अस्ति तावदेकदा प्रसङ्गतः कथित एव मया माधवाभिधानः कुमारः, यस्त्वमिव मामकीनस्य मनसो द्वितीयं बन्धनम् ।
लवङ्गिका - सुमरामो ।
कामन्दकी - स खलु मदनोद्यानयात्रादिवसात्प्रभृति दुर्मनायमानः परवानिव शरीरोपतापेन । तथाहि -
यदिन्दावानन्दं प्रणयिनि जने वा न भजते
व्यनक्त्यन्तस्तापं तदयमतिधीरोऽपि विषमम् ।
प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डु मधुरं
वपुः क्षामं क्षामं वहति रमणीयश्च भवति ॥९॥
लवङ्गिका - एदं वि तस्सिं अवसरे भअवदिं तुवराअन्तीए अवलोइदाए उदीरिदं आसि । जह अस्सधसरीसो माहवो त्ति ।
कामन्दकी - यावदहमशृणवं मालत्येवास्य मन्मथोन्मादहेतुरिति । ममापि स एव निश्चयः । कुतः ।
अनुभवं वदनेन्दुरुपागम -
न्नियतमेष यदस्य महात्मनः ।
ख्शुभितमुक्तलिकातरलं मनः
पय इव स्तिमितस्य महोदघेः ॥१०॥
माधव :- अहो उपन्यासशुद्धिः । अहो मम च महत्त्वारोपणे यत्नः । अथवा ।
शास्त्रे प्रतिष्ठा सहजश्च बोधः
प्रागल्भ्यमभ्यस्तगुणा च वाणी ।
कालानुरोधः प्रतिभानवत्त्व -
मेते गुणाः कामदुधाः क्रियायु ॥११॥
कामन्दकी - यतस्तेन जीवितादुद्विजमानेन दुष्करमपि न किंचिन्न क्रियते । तथा हि -
धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते
मार्गे गात्रं क्षिपति बकुलामोदगर्भस्य वायोः ।
दावप्रेम्णा सरसबिसिनीपत्रमात्रोत्तरीय -
स्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥१२॥
मालती - ( स्वगतम् । ) एव्वं दुक्करं करेदि सो ।
कामन्दकी - तदेवं प्रकृत्या सुकुमारः कुमारः कदाचिदप्यन्यत्रापरिक्लिषटपूर्वस्तपस्वी । यतः शक्यमनेन मरनमप्यनुभवितम् ।
मालती - सहि, अत्तणो कालणादो मच्चलोआलंकारभूदस्स तस्स किं वि आसंकमाणा भूदाविट्ठा विअ ण आणामि किं पडिवज्जदि त्ति ।
माधव :- दिष्ट्या, अनुकम्पितोऽस्मि भगवत्या ।
लवङ्गिका - भअवदी एव्वंवादिणि त्ति आचक्खिअदि । अम्हाणं वि भट्टिदारिआ भवणासण्णरज्झामुहमुहुत्तमण्डणस्स तस्स जेव्व बहुसो अणुहूददंसणा भविअ रविअरासिलिट्ठमुद्धकमलिनीकन्दसुन्दराववसोहाविहाविदाणङ्गवेअणावइअररमणिज्जा वि परिजणं दूणेदि । णाहिणन्दइ कलालीलाओ । केवलं मिलाअन्तकन्तहत्थपल्लत्थगण्डमण्डला दिअहो गमेहि अवि अ विअसिदारविन्दमअरन्दविस्सन्दसुन्दरेण दरदलिदकुन्दमाअन्दमहुबिन्दुसंदोहवाहिणा भवणुज्जाणपेरन्तमारुदेण उत्तम्मिअदि । अण्णं अ जदो प्पहुदि तस्सिं दिअहे णिअमहूसवब्भुदअदंसणत्थं पडिवण्णरूवस्स कामकाणणालंकारिणो भअवदो मम्महस्स विअ तस्स माहवस्स विविहविब्भमाणुराआणुबन्धमहग्धीकिदजोव्वणारम्भं अण्णोण्णदिट्ठिविणिवाअवञ्चणावसरजुवरिदचित्ततुवरन्तकोदूहलुल्लसिदसद्धसत्थम्भमन्थरावअवपडिलग्गसेदपुलअकम्पाणन्दिअसहीजणं परस्परावलोअणसुहं समासादिदं । तदोप्पहुदि सव्सेसदूसहाआसविअम्भणुद्दामदारुणं दसापरिणामं अणुहोन्ती मुहुत्तसंपत्तपुण्णचन्दोदआ विअ बालकमलिणी परिमिलाअदि । तह वि मुहुत्तमेत्तहिअअविणिहिदणिम्माअन्तवल्लहसमाअमा णिब्भरसलिलासारसिच्चमणा विअ मेदिणी सीअलाअदि त्ति जाणामि । जेण पप्फुरिदरदणच्छदुज्जलन्तदन्तमोत्तिअंपन्तिकन्तिसविसेससोहिदं णिरन्तरुल्लसिदपुलअपह्मलकवोलघोलन्तसंददाणन्दबाहत्थवअं ईसविसमणिप्पन्दमन्थरतारुत्ताणमसिणमुअलाअन्तणेत्तणीलुप्पलं अविरलुब्भिण्णसेअजलबिन्दुसुन्दरणिडलचन्दलेहामणोहरं मुद्धमुहपुण्डरीअं उव्वहन्ती विअड्ढसहअरीचित्तसंसइदकोमारभावा होइ । किं अ, उद्दामससिलऊहणिउरुम्बचुम्बिअपउतणिस्सन्दचन्दमणिहारधारिणी पउरकप्पूरसविसेससिसिरचन्दणरसच्छडासारणिअरदन्तुरिदबालकदलीपत्तसअणा पादसंवाहणादिवावारतुवरन्तुसहअरीसत्थविरइदोवणीदकमलिणीदलजलद्दतालउन्ता उण्णिद्दा एव रअणीओ गमेइ । कहं वि उबलद्धणिद्दासुहा पक्खालिदपादपल्लवबुव्वमन्तपिण्डालत्तअरसा थरथराअन्तपीवरोरुमोलपासविसंवादिअणीविबन्धणा उक्खुब्भन्तहिअअन्तरुत्तरङ्गणिस्सासविसमऊस्ससन्तपुलकपम्हलपओहरोवरिविक्खित्तवेवन्तभुअलदावेट्ठणबन्धणा झत्ति पडिबोधवेलाविसज्जिदापङ्गदिट्ठिविणिवादविण्णाणसुण्णसअणिज्जसंजादमोहमीलन्तलोअणा ससंभमसहीअणपअत्तपडिवण्णमुच्छाविच्छेअसमअसंगलिददीहणीसासजणिदजीविदासा किंकादव्वनामूढं पढमं पत्थिअणिअजीविदावसाणं दुव्वारदेव्वदुव्विलसिदोवालम्भमेत्तवावारं सहीजणं करेदि । ता पेक्खदु भअवदी । इमेसु दाव लावण्णभूइट्ठणिम्भाणपरिपेसलेसु अङ्गेसु दारुनविअम्भिअस्स किअच्चिरं कुसलावसाणदा मस्महस्स । कहं अ इमाइं रमणकेलिकलहकोवराअपल्लविदकेरलीकपोलकोमलुव्वेल्लमिमलचन्दिओद्दामदलिदतिमिरावरणाइं विभावरीमुहाइं । इमे अ उल्लसिददुद्धरापूरधवलुज्जलजोण्हापक्खालिदनहोङ्गणा परिमलिअपाडलीमुउलणिम्महणबहुलपरिमलुप्पीडसंकलणमसिणमंसलमलअमारुदुद्धूमायिददहदिसामुहा अणत्थआरिणो होन्ति रअणीपरिणामा अ पिअसहीए ।
कामन्दकी -
यदि तद्विषयोऽनुरागबन्धः
स्फुटमेतद्धिफलं गुणज्ञतायाः ।
इति नन्दितमप्यवस्थयास्या
हृदयं दारुणया विदीर्यते मे ॥१३॥
माधव :- अहो, स्थान एवाभ्युल्लासो भगवत्याः ।
कामन्दकी - अहो, प्रमादः ।
प्रकृतिललितमेतत्सौकुमार्यैकसारं
वपुरयमपि सत्य दारुणः पञ्चबाणः ।
चलितमलयवातोद्धूतचूतप्रसूनः
कथमयमपि कालश्चारुचन्द्रावतंसः ॥१४॥
लवङ्गिका - अण्णं अ जाणिदं होदु भअवदीए । एदं अ माहवप्पडिच्छन्दअसणाहं चित्तफलअं ( मालत्याः स्तनांषुकमपनीय । ) एसा वि तस्स जेव्व सहत्थविरइदेत्ति कण्ठावलम्बिदा बउलमाला संजीवणं पिअसहीए । ( इति बकुलमालां दर्शयति । )
माधव :-
जितमिह भुवने त्वया यदस्याः
सखि बकुलावलि वल्लभासि जाता ।
परिणतबिसदण्डकाण्डपाण्डु -
स्तनपरिणाहविलासवैजयन्ती ॥१५॥
( नेपथ्ये कलकलः । सर्व आकर्नयन्ति । )
रे रे संकरउरवासिजाण्पदा, एसो क्खु जोव्वणारम्भभरिददुव्विसहामरिसरोसवइअरवलामोडी अविघडिदुग्घडिअलोहपञ्जरपडिलग्गसंगिअणिअलो णिअलीलाविलासुव्वेलिअवल्लहतुङ्गलङ्गूलविअडवैजअन्तिआविसमडामरुद्धामसरीरसंणिवेसो मठादो अवक्कमि तक्खणसतिण्णकवनिआणेअदेहिदेहावअवमज्झणिट्ठुरस्थिखण्डण्टंकारकडकडाअन्तकरवत्तकठिणदाढाकरालमुहकन्दरो विअडविइंब्भणद्दामदारुणचपेडामोडिअपरिमिलिअणरतुरङ्गजङ्गलुग्गालभरिअगलगुहागब्भगम्भीरघग्घरो रल्लिग्गल्लूरणसद्दसंदब्भपरिपूरिअणहोअलो णिहदणिप्पेसिदणट्ठणिट्ठाविदासेसजणणिवहो कठोरणहरकप्परदलिआकट्ठजन्तुगत्तावअवपउत्तरत्तकद्दमिअगइवहो दुट्ठसद्दूलो कअन्तलीलाइदं करेदि । ता पडिरक्खद जहासत्ति अत्तणो जीविदं त्ति ।
( प्रविश्य संभ्रान्ता । )
बुद्धरक्षिता - परित्ताअध । एसा णो पिअसही अमच्चणन्दणस्स भइणी मदअन्तिआ एदिणा दुट्ठसद्दूलेण हदविद्दाविदपरिअणा अभिभवीअदि
मालती - सहि लवङ्गिए, अहो महन्तो पमादो ।
माधव :- बुद्धरक्षिते, कासौ ।
मालती - ( सहर्षसाध्वसम् । स्वगतम् । )  अम्हहे, एसो वि एत्थ एव्व ।
माधव :- ( स्वगतम् । ) हन्त, पुण्यवानस्मि यदहमतर्कितोपनतदर्शनोल्लसितयानया ।
अविरलमिव दाम्ना पौण्डरीकेण नद्धः
स्नपित इव च दुग्धस्रोतसा निर्भरेण ।
कवलित इव कृत्स्नश्चक्षुषा स्फारितेन
प्रसभममृतमेघेनैव सान्द्रेण सिक्तः ॥१६॥
बुद्धरक्षिता - महाभाअ, एसो क्खु उज्जाणबाहिअरत्थामुहे ।
माधव :- ( साटोपम् । ) अप्रमत्तोऽस्मि ।
मालती - लवङ्गिए, संसओ क्खु जादो ।
माधव :- ( सबीभत्सम् । ) अहह ।
संसक्तत्रुटितविवर्तितान्त्रजाल -
व्याकीर्णस्फुरदपवृत्तरुण्डखण्डः ।
कीकालव्यतिकरगुल्फदघ्नपङ्कः
प्राचण्ड्यं वहति नखायुधस्य मार्गः ॥१७॥
अहो प्रमादः ।
वयं बत विदूरतः क्रमगता पशोः कन्यका
सर्वा :- हा मदअन्तिए ।
कामन्दकीमाधवौ - ( सहर्षाकूतम् । )
कथं तदवपातितादधिगतायुधः संभ्रमात् ।
कुतोऽपि मकरन्द एत्य सहसैव मध्ये स्थितः
इतरा :- साहु, महाभाअ, साहु ।
कामन्दकीमाधवौ -
दृढं च पशुना हतो व्यसुरसौ कृतश्चामुना ॥१८॥
इतरा :- अच्चाहिदं ।
कामन्दकी - ( साकूतम् । ) कथं व्यालनखरप्रहारनिःसृतरक्तनिवहः क्षितितलविषक्तखङ्गलतावष्टम्भनिश्चलः संभ्रान्तमदयन्तिकावलम्बितस्ताम्यति वत्सो मकरन्दः ।
इतरा :- हद्धि, गाढप्पहारदाए, किलम्मदि महाभाओ ।
माधव :- मथं प्रमुग्ध एव । भगवति, परित्रायस्व माम् ।
कामन्दकी - वत्स, अतिकातरोऽसि । नन्वेहि, पश्यावस्तावत् ।
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे तृतीयोऽङ्कः ।

N/A

References : N/A
Last Updated : June 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP