मालतीमाधवम् - द्वितीयोऽङ्कः ।

एतद् भवभूतिना लिखितं कल्पनारम्यनाटकं वर्तते।


( ततः प्रविशतश्चेट्यौ । )
एका - हला, संगीतसालापरिसरे अवलोइआदुईआ भअवदी कामन्दई किं वि मन्तअन्ती आसी ।
द्वितीया - सहि, तेण किल माहवप्पिअवअस्सेण मअरन्देण सअलो मअणुज्जाणउत्तन्तो भअवदिए णिवेदिदो । तदो भट्टिदारिअं दट्टुकामाए पउत्तिणिमित्तं अवलोइदा अनुप्पेसिदा । मए वि ताए कहिदं जह लवङ्गिआदुईआ विवित्ते भट्टिदारिआ वट्टदित्ति ।
प्रथमा - सहि, लवङ्गिआ क्खु केसरकुसुमाइं अवइणुम्मि त्ति गआ मअणुज्जाणं किं संपदं णिउत्ता ।
द्वितीया - अह इं । तं क्खु कापतन्तीं एव्व हत्थे घेत्तूण अपरिअणा भट्टिदारिआ उपरिअलिन्दं समारूढा ।
प्रथमा - णूणं तस्स महाणुहावस्स संकहाए अत्ताणं विणोदेइ ।
द्वितीया - ( निःश्चस्य । ) कुदो क्खु से आस्सासो । एदिणा अज्ज सविसेसदंसणेण अदिभूमिं क्खु ताए अहिणिवेसो गमिस्सदि । अण्णं अ । कले एव्व णन्दणस्स कारणादो महाराओ भट्टिदारिअं पत्थअन्तो अमच्चेण विण्णत्तो ।
प्रथमा - किं त्ति ।
द्वितीया - पहवइ णिअस्स कण्णाअजणस्स महाराओ त्ति । अदो आमरणं क्खु मालदीए हिअअसल्लं माहवाणुराओ त्ति तक्केमि ।
प्रथमा - अवि णाम भअवदी एत्थ किं वि भअवदित्तणं दंसइस्सदि ।
द्वितीया - अइ असंबद्धमणोरहे, एहि ।
( इति निष्क्रान्ते । )
प्रवेशकः ।
( ततः प्रविशत्युपविष्टा सोत्कण्ठा मालती लवङ्गिका च । )
मालती - सहि, तदो तदो ।
लवङ्गिका - तदो तेण महाणुहावैण उवणीदा इअं उबलमाला । ( इत्यर्पयति । )
मालती - ( मालां गृहीत्वा सहर्षं निर्वर्ण्य । ) सहि, एक्कपासविसमपडिबद्धा इअं विरअणा ।
लवङ्गिका - एत्थ अरमणिज्जत्तणे तुमं एव्वं अवरद्धासि ।
मालती - कहं विअ ।
लवङ्गिका - जेण सो दुव्वासामलङ्गो तहा विहत्थीकिदो ।
मालती - सहि लवङ्गिए, सव्वहा आसासणसीलासि ।
लवङ्गिका - सहि, एत्थ का आसासणसीलदा । णं भणामि । सो वि पिअसहीए मन्दमारुअप्पअलिअप्पफुल्लपुण्डरीअविब्भहिं पढमारद्धवउलावलीविरअणावदेससंअमणबलामोडिअवित्थरन्तेहिं लोअणेहिं विअम्भमाणविम्हअत्थिमिददीहपरेन्तपरिअन्तणाविलासुल्लसिअभूलदाविहाविदाणङ्गसरसंरम्भविब्भमविअङ्ढं ओलोअन्तो पच्चक्खीकिदो एव्व ।
मालती - ( लवङ्गिकां परिष्वज्य । ) आम पिअसहि, किं दाव तस्स साहाविआ एव्व ते मुहुत्तसंणिहाइणो जणस्स विप्पलम्भइत्तआ विलासा, आदु पिअसही जहा संभावेदि ।
लवङ्गिका - ( विहस्य सासूयमिव । ) तुमं वि सहावेण एव्व तस्सिं अवसरे असंगीदअं णत्तिदासि ।
मालती - ( सलज्जं विहस्य । ) हुं, तदो तदो ।
लवङ्गिका - तदो पडिणिअत्तमाणजत्ताजणसंकुलेण अन्तरिदे तस्सि मन्दारिआघरं उवगदम्हि । ताए चित्रफलअं पहादे हत्थीकिदं आसी ।
मालती - किंणिमित्तं ।
लवङ्गिका - तं क्खु माहवाणुअरो कलहंसओ कामेदि । सा तस्स इंसइस्सदित्ति । तदो पिअणिवेदिआ मन्दारिआ संवुत्ता ।
मालती - ( स्वगतम् । सानन्दम् । ) णूणं देण वि कलहंसएण एदं पडिच्छन्दअं अत्तणो पहुणो दंसिदं हविस्सदि । ( प्रकाशम् । ) सहि, किं दाणीं दे पिअं ।
लवङ्गिका - एदं क्खु संदाविदस्स तुह संदावआरिणो दुल्लहमणोरहावेसदूसहाआसदज्झन्तचित्तस्स खणमेत्तणिव्वावइत्तअं तुह पडिच्छन्दअं । ( इति चित्रं दर्शयति । )
मालती - ( सहर्षोच्छ्वासं चिरं निर्वर्ण्य । ) अम्हो, दाणीं वि हिअअस्स मे अणासासो । जेण एदं वि आसासणं विप्पलम्भो त्ति संभावीअदि कहं अक्खराइं पि । ( ‘ जगति जयिन: ’ इत्यादि पठति । सानन्दम् । ) महाभाअ, सरिसं क्खु दे णिम्माणस्स वअणमहुरदाए । दंसणं उण तक्कालमणोहारि परिणामदीहसंदावदारुणं अ । धण्णाओ क्खु ताओ इत्थिआओ जाओ तुमं ण पेक्खन्दि । पेक्खिअ अत्तणो हिअअस्स वा पहवन्दि ।
लवङ्गिका - सहि, एवं वि णत्थि दे आसासो ।
मालती - कहं विअ ।
लवङ्गिका - जस्स कारणादो तुमं उक्खण्डिअबन्धणं कङ्केलिपल्लवं विअ हिअअं धारेन्दी किलन्दणोमालिआकुसुमणीसहा कुसुमाउहेण पडिहिज्जसि, सो वि जाणाविदो भअवदा मम्महेण संदावस्स दूसहत्तणम् ।
मालती - सहि, कुसलं दाणीं तस्स महापहावस्स होदु । मह उण सुदुल्लहो आसासो ( सास्त्रम् । संस्खृतमाश्रित्य । )
मनोरोगस्तीव्रो विषमिव विसर्पन्नविरतं
प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव ।
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो
न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥१॥
लवङ्गिका - एव्वं एदं । पच्चक्खसोक्खदाइणो परोक्कदुक्कदूसहा सज्जणसमाअमा होन्दि । अवि अ पिअसहि, जस्स वादाअणन्दरमुहुत्तदंसणेण वि सुसमिद्धहुदवहाअन्तपुण्णचन्दोदया णिक्करुणकामव्वावारसंसइदजीविदा दे सरीरावत्था, तस्स एव्व संपदं सविसेसदंसणादो अज्ज संतप्पसि त्ति किं एत्थ भणिदव्वम् । ता एत्थ पिअसहि, सलाहणिज्जं दुल्लहमणोरहफलं जीअलोअस्स जं गुरु आणुराअसरिसो महाभाअवल्लहसमाअमो त्ति एत्तिअं जाणीमो ।
मालती - सहि, दइदमालदीजीविदे, साहसोवण्णासिणि, अवेहि । ( सास्रम् । ) अहवा । अहं एव वारंवारं विलोअअन्ती पलाअंतपडिट्ठाविदधीरत्थणावट्टम्भेण अत्तणो हिअएण दूरं विलीअन्तलज्जत्तेण दुव्विणअलहुआ एत्थ अवरद्धम्मि । तहावि पिअसहि । ( संस्कृतमाश्रित्य । )
ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी
दहतुं मदनः किं वा मृत्योः परेण विधास्यतः ।
मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया
कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥२॥
लवङ्गिका - ( स्वगतम् । ) एत्थं दाणीं को उवाओ ।
( नेपथ्यार्धप्रविष्टा । )
प्रतिहारी - एसा भअवदी कामन्दई ।
उभे - किं भअवई ।
प्रतिहारी - भट्टिदारिअं दट्ठुआमा आअदा ।
उभे - तदो किं विलम्बीअदि ।
( निष्क्रान्ता प्रतिहारी । मालती चित्रं छादयति । )
लवङ्गिका - ( स्वगतम् ) सुसमाहिदं क्खु जादम् ।
( ततः प्रविशति कामन्दक्यवलोकिता च । )
कामन्दकी - साधु सखे भूरिवसो, साधु । प्रभवति निजस्य कन्यकाजनस्य देव इत्युभयलोकाविरुद्धमुत्तरमुपन्त्यस्तम् । अपि च । अद्य मन्मथोद्यानवृत्तान्तेन भगवतो विधेरप्यनुकूलतामवगच्छामि । बकुलावलीचित्रफलकव्यतिकरस्तु कमप्यद्भुततमं प्रमोदमुल्लासयति । इतरेतरानुरागो हि विवाहकर्मणि परार्ध्यं मङ्गलम् । गीतश्चायमर्थोऽङ्गिरसा यस्यां मनश्च क्षुषोर्निर्बन्धस्तस्यामृद्धिरिति ।
अवलोकिता - एसा मालदी ।
कामन्दकी - ( निर्वर्ण्य । )
निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा
कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी ।
अवस्थामापन्ना मदनदहनोद्दाहविधुरा -
मियं नः कल्याणी रमयति मनः कम्पयति च ॥३॥
अपि च ।
परिपाण्डुपांसुलकपोलमाननं
दधती मनोहरतरत्वमागता ।
रमणीयजन्मनि जने परिभ्रमँ -
ल्ललितो विधिर्विजयते हि मान्मथः ॥४॥
नियतमनया संकल्पनिर्मितः प्रियसमागमोऽनुभूयते । तथा ह्यस्याः
नीवीबन्धोच्छ्वसनमधरस्पन्दनं दोर्विषादः
खेदश्चक्शुर्मसृणमुकुलाकेकरस्निग्धमुग्धम् ।
गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धः प्रकम्पो
गण्डाभोगे पुलकपटलं मूर्च्छना चेतना च ॥५॥
( उपसर्पति । )
( लवङ्गिका मालतीं चालयति । उभे तत्तिष्ठतः । )
मालती - भअवदि, वन्दामि ।
कामन्दकी - महाभागघेयजन्मतायाः फलस्य भाजनं भूयाः ।
लवङ्गिका - भअवदि, एदं पवित्तं आसणम् ।
( सर्वा उपविशन्ति । )
मालती - कुसलं भअवदिए ।
कामन्दकी - ( निःष्वस्य । ) कुशलमिव ।
लवङ्गिका - ( स्वगतम् । ) पत्थावणा क्खु एसा कवडणाडास्स । ( प्रकाशम् । ) गुरुअबाहभरत्थम्भमन्थरिदकण्ठप्पडिलग्गणिग्गमं अण्णारिसं विअ अज्ज भअवदीए वअणम् । ता किं दाणीं उव्वेअकारणं हविस्सदि ।
कामन्दकी - नन्वयमेव चीरचीरवरविरुद्धः परिचयः ।
लवङ्गिका - कहं विअ ।
कामन्दकी - अयिम त्वमपि किं न जानीषे ।
इदमिह मदनस्य जैत्रमस्त्रं
सहजविलासनिबन्धनं शरीरम् ।
अनुचितवरसंप्रदानशोच्यं
विफलगुणातिशयं भविष्यतीति ॥६॥
( मालती वैचित्र्यं नाटयति । )
लवङ्गिका - अत्थि एदं जं णरेन्दवअणाणुरोहेण णन्दणस्स पडिवण्णा मालदित्ति सअलो जणो अमच्चं जुअच्छइ ।
मालती - ( स्वगतम् । ) कहं उवहारीकिदम्हि राइणो तादेण ।
कामन्दकी - आश्चर्यम् ।
गुणापेक्षाशून्यं कथमिदमुपक्रान्तमथवा
कुतोऽपत्यस्नेहः कुटिलनयनिष्णातमनसाम् ।
इदं त्वैदंपर्यं यदुत नृपतेर्नर्मसचिवः
सुतादानान्मित्रं भवतु स भवान्नन्दन इति ॥७॥
मालती - ( स्वगतम् । ) राआराहणं क्खु तादस्स गुरुअं, ण उण मालदी ।
लवङ्गिका - जहा भअवदी आणवेदि त्म तह जेव्व । अण्णहा तस्सिं वरे दुद्दंसणे अदिक्कन्दजोव्वने किं ति ण विआरिदं अमच्चेण ।
मालती - ( स्वगतम् । ) हा, हदम्हि समुपत्थिदाणत्थवज्जपडणा मन्दभाइणी ।
लवङ्गिका - ता पसीद । भअवदि, परित्ताहि एत्तो जीवन्दाम्रणादो पिअसहिं । तुह वि एसा दुहिदा जेव्व ।
कामन्दकी - अयि सरले, किमत्र भगवत्या शक्यम् । प्रभवति प्रायः कुमारीणां जनयिता दैवं च । यच्च किल कौशिकी शकुन्तला दुष्यन्तमप्सराः पुरूरवसं चकम उर्वशीत्याख्यानविद आचक्षते, वासवदत्ता च पित्रा संजयाय राज्ञे दत्तमात्मानमुदयनाय प्रायच्छदित्यादि, तदपि साहसकल्पमित्यनुपदेष्टव्यमेव । सर्वथा
राज्ञः प्रियाय सुहृदे सचिवाय कार्या -
द्दत्त्वात्मजां भवतु निर्वृतिमानमात्यः ।
दुर्दर्शनेन घटतामियमप्यनेन
धूमग्रहेण विमला शशिनः कलेव ॥८॥
मालती - ( स्वगतम् । ) हा ताद, तुमं वि मम णाम एव्वं त्ति जिदं भोगतिण्हाए ।
अवलोकिता - चिराइदं भअवदीए । णं भणामि अस्सत्थचित्तो महाभाओ माहवो त्ति ।
कामन्दकी - इदं गम्यते । वत्से, अनुजानीहि माम् ।
लवङ्गिका - ( जनान्तिकम् । ) सहि मालदि, संपदं भअवदीए सआसादो तस्स महाणुहावस्स उग्गमं जाणीमो ।
मालती - ( जनान्तिकम् । ) अत्थि मे कोदूहलम् ।
लवङ्गिका - ( प्रकाशम् । ) को एसो माहवो णाम, जस्सिं भअवदी एव्वं सिणेहगुरुअं अत्ताणं धारेदि ।
कामन्दकी - अप्रस्ताविनी महत्येषा कथा ।
लवङ्गिका - तह वि आअक्खिअ भअवदी पसादं करेदु ।
कामन्दकी - श्रूयताम् । अस्ति विदर्भराजस्यामात्यः समग्रपुरुषप्रकाण्डचक्रचूडामणिर्देवरातो नाम । यमशेषभुवनमहनीयपुण्यमहिमानमात्मनः सातीर्थ्यात्पितैव ते जानाति योऽसौ यादृशश्चेति ।
अपि च ।
व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः
सुकृतविलसितानां स्थानमूर्जस्वलानाम् ।
अगणितमहिमानः केतनं मङ्गलानां
कथमिव भुवनेऽस्मिंस्तादृशाः संभवन्ति ॥९॥
मालती - ( सहर्षम् । ) सहि, तं क्खु भअवदीए गहीदणामहेअं सव्वहा तादो सुमरेदि ।
लवङ्गिका - सहि, समं किल भअवदीद गुरुसआसादो विज्जाहिगमो किदो त्ति तक्कालवेदिणो मन्तअन्दि ।
कामन्दकी -
तत उदयगिरेरिवैक एष
स्फुरितगुणद्युतिसुन्दरः कलावान् ।
इह जगति महोत्सवस्य हेतु -
र्नयनवतामुदियाय बालचन्द्रः ॥१०॥
लवङ्गिका - ( अपवार्य । ) अवि णाम माहवो हवे ।
कामन्दकी -
असौ विद्याशाली शिशुरपि विनिर्गत्य भवना -
दिहायातः संप्रत्यविकलशरच्चन्द्रवदनः ।
यदालोकस्थाने भवति पुरुमुन्मादतरलैः
कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥११॥
तदत्र च बालसुहृदा मकरन्देन सह विद्यामान्वीक्षिकीमधीते । स एष माधवो नाम ।
मालती - ( सानन्दं जनान्तिकम् । ) सहि लवङ्गिए, सुदं महाउलप्पसूदो महाभाओ त्ति ।
लवङ्गिका - ( जनान्तिकम् । ) सहि, कुदो वा महोदहिं वज्जिअ पारिजाअस्स उग्गमो ।
( नेपथ्ये शङ्खध्वनिः )
कामन्दकी - अहो कालातिपातः । संप्रति हि
क्षिपन्निद्रामुद्रां मदनकलहच्छेदसुभगा -
मुपात्तोत्कम्पानां विहगमिथुनानां प्रथमतः ।
दधानः सौधानामलघुषु निकुञ्जेषु घनता -
मसौ संध्याशङ्खध्वनिरनिभृतः खे विचरति ॥१२॥
वत्से, सुखं स्थीयताम् । ( इत्युत्तिष्ठति । )
मालती - ( अपवार्य । ) कहं उवहारीकिदम्हि राइणो तादेण । राआराहणं क्खु तादस्स गुरुअं, ण उण मालदी । ( सास्रम् । ) हा ताद, तुमं वि मह णाम एव्वं ति सव्वहा जिदं भोअतिण्हाए । ( सानन्दम् । ) कहं महाउलप्पसूदो सो महाभाओ । सुट्ठु भणिदं पिअअसहीए कुदो वा महोअहिं वज्जिअ पारिजादस्स उग्गमो त्ति । अवि णाम तं उणो वि पेक्खिस्सं ।
लवङ्गिका - अवलोदे, इदो एदिणा संजवणेण ओदरम्ह ।
कामन्दकी - ( अपवार्य । ) अवलोकिते, साधु संप्रति मया तटस्थयैव मालतीं प्रति निसृष्टार्थदूत्यस्य लघूकृतो भारः । कुतः
वरेऽन्यस्मिन्दोषः पितरि विचिकित्सा च जनिता
पुरावृत्तोद्गाररपि च कथिता कार्यपदवी ।
स्तुतं माहाभाग्यं यदभिजनतो यच्च गुणतः
प्रसङ्गाद्वत्सस्येत्यथ खलु विधेयः परिचयः ॥१३॥
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे द्वितीयोऽङ्कः ।

N/A

References : N/A
Last Updated : June 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP