मालतीमाधवम् - षष्ठोऽङ्कः ।

एतद् भवभूतिना लिखितं कल्पनारम्यनाटकं वर्तते।


( ततः प्रविशति कपालकुण्डला । )
कपालकुण्डला - आः पाप दुरात्मन्, मालतीनिमित्तं विनिपातितास्मद्गुरो माधवहतक, अहं त्वया तस्मिन्नवसरे निर्दयं निघ्नत्यपि स्त्रीत्यवज्ञाता । ( सक्रोधम् । ) तदवश्यमनुभविष्यसि कपालकुण्डलाकोपस्य फलम् ।
शान्तिः कुतस्तस्य भुजङ्गशस्त्र -
र्यस्मिन्निबद्धानुशया सदैव ।
जागर्ति दंशाय निशान्तदंष्ट्रा -
कोटिर्विषोद्गारगुरुर्भुजङ्गी ॥१॥
भो राजानश्चरमवयसामाज्ञया संचरध्वं
कर्तव्येषु श्रवणसुभगं भूमिदेवाः पठन्तु ।
चित्रं नानावचननिवहैश्चेष्ट्यतां मङ्गलेभ्यः
प्रत्यासन्नस्त्वरयतितरां जन्ययात्राप्रवेशः ॥२॥
यावच्चसंबन्धिनो न परापतन्ति तावद्वत्सया मालत्या नगरदेवतागृहमविघ्नमङ्गलाय गम्यतामित्यादिशति भगवती कामन्दकी । अन्यच गृहीतविशेषमण्डनः प्रतीक्ष्यतामानुयात्रिको जन इति ।
कपालकुण्डला - भवतु । इतो मालतीविवाहपरिकर्मसत्वरप्रतिहारजनसहस्रसंकुलात्प्रदेशादपक्रम्य माधवापकारं प्रत्यभिनिविष्टा भवामि । ( इति निष्क्रान्ता । )
इति शुद्धविष्कम्भः ।
कलहंस :-( प्रविश्य । ) आणत्तोम्हि णअरदेव्वदागब्भघरवट्टिणा मअरन्दसणाहेण माहवेण जाणीहि दाव इदोमुहं प्पउता मालदी ण वेत्ति । ता जाव णं आणन्दइस्सं ।
( ततः प्रविशतो माधवमकरन्दौ । )
माधव :-
मालत्याः प्रथमावलोकनदिनादारभ्य विस्तारिणो
भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम् ।
अद्यान्तः खलु सर्वथास्य मदनायासप्रबन्धस्य मे
कल्याणं विदधातु वा भगवतीनीतिर्विपर्येतु वा ॥३॥
मकरन्द :- कथं भगवत्याः सा मेधाशक्तिर्विपर्येष्यति ।
कलहंस :- ( उपसृत्य । ) णाह, दिट्ठिआ वड्ढसि । पउत्ता क्खु इदोमुहं मालदी ।
माधव :- अपि सत्यम् ।
मकरन्द :- किमश्रद्दधानः पृच्छसि । न केवलं प्रवृत्ता प्रत्यासन्ना च वर्तते । तथा हि ।
अस्माकमेकपद एव मरुद्विकीर्ण -
जीमूतजालरसितानुकृतिर्निनादः ।
गम्भीरमङ्गलमृदङ्गसहस्रजन्मा
शब्दान्तरश्रवणशक्तिमपाकरोति ॥४॥
तदेहि । जालमार्गेण पश्यामः ।
( तथा कुर्वन्ति । )
कलहंस :- णाह, पेक्ख । इमे दाव उप्पडिअराअहंसविब्भमाहिरामचामरसमीरणुव्वेलिअकदलिआवलीतरङ्गिदुत्ताणगअणङ्गणसरोणिरन्तरुद्दण्डपुण्डरीअविब्भमं वहन्दो मङ्गलधवलातपत्तणिवहा दीसन्ति । इमाओ सविलासकवलिदतम्बूलाहिपूरिदकवोलमन्डलाभोअव्वइअरक्खलिदमहुरमङलुग्गीअबद्धकोलाहलेहिं विविहरअणालंकारकिरणावलीविडम्बिदमहिन्दचावविच्छेअविच्छुरिदणहत्थलेहिं वारसुन्दरीकदम्बेहिं अज्झासिआओ क्कणन्तकणअकिंकिणीरणिअझणझणक्कारिणीओ करिणीओ ।
( माधवमकरन्दौ सकौतुकं पश्यतः । )
मकरन्द :- स्पृहणीयाः खल्वमात्यभूरिवसोर्विभूतयः । तथा हि
प्रेङ्खद्भूरिमयूरमेचकचयैरुन्मेषिचाषच्छद -
च्छायासंवलितैर्विवर्तिभिरिव प्रान्तेषु पर्यावृताः ।
व्यक्ताखण्डलकार्मुका इव भवन्त्युच्चित्रचीनांशुक -
प्रस्तारस्थगिता इवोन्मुखमणिज्योतिर्वितानैर्दिशः ॥५॥
कलहंस :- कहं ससंभमाणेअपडिहारमण्डलावज्जिदुज्जलकणअकलधौअपङ्कलित्तलदापरिक्खित्तरेहारइदमण्डलो दूरसंठिदो परिअणो । एसा अ बहुलसिन्दूरणिअरसंज्झाराओवरत्तमुहमहुरघोलन्तणक्खत्तमालाभरणधारिणिं करेणुरअणिं अलंकरन्ती इदो जेव्व कोदूहलुप्फुल्लमुहसमत्थलोअदिस्सन्तमणहरप्पण्डुरपरिक्खामदेहसोहाविभाविआणङ्गवेअणा पढमच्चन्दलेहाविब्भमं वहन्दी किंचिअन्दरं पसरिदा मालदी ।
मकरन्द :- वयस्य, पश्य ।
इयमवयवैः पाण्डुक्षामैरलंकृतमण्डना
कलितकुसुमा बालेवान्तर्लता परिशोषिणी ।
वहति च वरारोहा रम्यां विवाहमहोत्सव -
श्रियमुदयिनीमुद्भूतां च व्यनक्ति मनोरुजम् ॥६॥
कथं निषादिता गजवधूः ।
माधव :- ( सानन्दम् । ) कथमवतीर्य भगवतीलवङ्गिकाभ्यां प्रवृत्तैव ।
( ततः प्रविशति कामन्दकी मालती लवङ्गिका च । )
कामन्दकी - ( सहर्षमपवार्य । )
विधाता भद्रं नो वितरतु मनोज्ञाय विधये
विधेयासुर्देवाः परमरमणीयां परिणतिम् ।
कृतार्था भूयासं प्रियसुहृदपत्योपनयतः
प्रयत्नः कृत्स्नोऽयं फलतु शिवतातिश्च भवतु ॥७॥
मालती - ( खगतम् । ) केण उण उवाएण संपदं मरणणिव्वाणस्स अन्दरं संभावइस्सं । मरणं वि मे मन्दभाअहेआए अहिमदं अदिदुल्लहं होदि ।
लवङ्गिका - अद्कीलालिदा क्खु पिअसही एदिणा अणुऊलविप्पलम्भेण ।
( प्रविश्य भूषणपटलकहस्ता । )
प्रतीहारी - भअवदीं अमच्चो भणादि । एदिणा णरिन्दाणुप्पेसिदविवाहणेवत्थेण देवदाए पुरदो अलंकरिदव्वा मालदि त्ति ।
कामन्दकी - युक्तमाङ्गलिकं हि तत्स्थानम् । इतो दर्शय ।
प्रतीहारी - एदं दाव धवलपट्टंसुअजुअलं । एदं अ उत्तरीअवण्णंसुअं । इमे अ सव्वङ्गिआ आहरणसंजोआ । इमे अ भोक्तिआहारा । एदं चन्दणं । असो सिदकुसुमापीडो त्ति ।
कामन्दकी - ( अपवार्य । ) रमणीयं वत्सं मकरन्दमवलोकयिष्यति जनः । ( प्रकाशम् । गृहीत्वा । ) भवतु । एवमुच्यताममात्यः ।
( प्रतिहारी निशःक्रान्ता । )
कामन्दकी - लवङ्गिके, प्रविश त्वमभ्यन्तरं वत्सया मालत्या सह ।
लवङ्गिका - भअवदी उण ।
कामन्दकी - अहमपि विविक्ते तावदलंकरणरत्नानां प्राशस्त्यं शास्त्रतः परीक्ष्ये । ( इति निष्क्रान्ता । )
मालती - ( आत्मगतम् । ) लवङ्गिकामेत्तपरिवारा दाव संउत्ता । ( प्रकाशम् । ) एदं देवदामन्दिरदुवारं । ता पविसदु पिअसही ।
( प्रविशतः । )
मकरन्द :- इतः स्तम्भान्तरितौ पश्यावः ।
( तथा कुरुतः । )
लवङ्गिका - सहि, अअं अङ्गराओ । इमाओ कुसुममालाओ ।
मालती - तदो किं ।
लवङ्गिका - सहि, इमस्सिं पाणिग्गहणमङ्गलारम्भे कल्लाणसंवत्तिणिमित्तं देवदां पूजेहि त्ति अम्बाए अणुप्पेसिदासि ।
मालती - ( स्वगतम् । ) कुदो दाणिं दारुणसमारम्भदेव्वदुव्विलासपरिणामदुक्खणिद्दलिअमाणसं पुणो वि मम्मच्छेददूसहं मन्दभाइणीं दूमिज्जसि ।
लवङ्गिका - अइ, किं वत्तुकामासि ।
मालती - किं दाणिं दुल्लहाभिणिवेसमणोरहविसंवदन्तभाअहेओ जणो मन्तेदि ।
मकरन्द :- सखे, श्रुतम् ।
माधव :- असंतोषस्तु हृदयस्य ।
मालती - ( लवङ्ग्कां परिष्वज्य । ) परमत्थभइणि पिअसहि लवङ्गिए, एसा दाणि दे पिअसही अणाहा मरणे वट्टमाणा आगब्भणिग्गमणिरन्तरोवारूढविस्सम्भसरिसं परिस्सज्जिअ अब्भत्थेदि । जइ दे अहं अणुवट्टणीआ तदो मं हिअएण धारयन्ती समग्गसोहग्गलच्छीपरिग्गहेक्कमङ्गलं माहवस्स सिरिमुहारविन्दं आणन्दमसिणं पलोएहि । ( इति रोदिति । )
माधव :- वयस्य मकरन्द,
म्लानस्य जीवकुसुमस्य विकासनानि
संतर्पणानि सकलेन्द्रियमोहनानि ।
आनन्दनानि हृदयैकरसायनानि
दिष्ट्या मयाप्यधिगतानि वचोमृतानि ॥८॥
मालती - जह तस्स जीविदप्पदाइणो अवसिदां मं सुणिअ संदप्पमाणस्स तहाविहं सरेररअणं ण परिहीअदि, जह अ लोअन्दरगअं वि मं उदूसिअ सो जणो सुमरणकहामेत्तपरिसेसं कालन्दरेण वि लोअजत्तं ण सिढिलेदि तह करेसु । एवं दे पिअसही मालदी सकामा होइ ।
मकरन्द :- हन्त, अतिकरुणं प्रस्तुतम् ।
माधव :-
नैराश्यकातरधियो हरिणेक्षणायाः
श्रुत्वा निकामकरुणं च मनोहरं च ।
वात्सल्यमोहपरिदेवितमुद्वहामि
चिन्ताविषादविपदं च महोत्सवं च ॥९॥
लवङ्गिका - अइ, पडिहदं दे अमङ्गलं । इदो वि अवरं ण सुणिस्सं ।
मालती - सहि, पिअं क्खु तुम्हाणं मालदीजीविदं ण उण मालदी ।
लवङ्गिका - सहि, किं ति भणिदं होदि ।
मालती - जे ण पच्चासाणिबन्धणेहिं वअणसंविहाणेहिं जीआविअ इमं महाबीभच्छारम्भं अनुभाविदम्हि । संपदं उण मे मणोरहो एत्तिअं जेव्व । जं तस्स देवस्स परकेरअत्तणेण अवरद्धं अत्ताणं परिच्चइअ णिब्वुदा हुविस्सं । अस्सिं पओअणे पिअसही मे अपरिपन्थि होदु । ( इति पादयोः पतति । )
मकरन्द :- सैषा परमा सीमा स्नेहस्य ।
( लवङ्गिका माधवं संज्ञयाऽऽह्वयति । )
मकरन्द :- वयस्य, लवङ्गिकास्थाने तिष्ठ ।
माधव :- परवानस्मि साध्वसेन ।
मकरन्द :- इयमेव नेदीयसां प्रकृतिरभ्युदयानाम् ।
( माधवः स्वैरं लवङ्गिकास्थाने तिष्ठति । )
मालती - सहि, अणुऊलदाए पसादं करेहि ।
माधव :-
सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् ।
विरसं विरहायासं सोढुं तव चित्तमसहं मे ॥१०॥
मालती - सहि, अलङ्घणिज्जो दे मलदीप्पणामो ।
माधव :-
किं वा भणामि विच्छेददारुणायासकारिणि ।
कामं कुरु वरारोहे देहि मे परिरम्भणम् ॥११॥
मालती - ( सहर्षम् । ) कहं अणुगहीदम्हि ( उत्थाय । ) इअं आलिङ्गामि । दंसणं उण बाफप्पीडणेण पिअसहिआए पच्चक्खं ण लभिअदि । ( आलिङ्ग्य सानन्दम् । ) सहि, कठोरकमलगब्भपम्हलो अण्णारिसो जेव्व दे अज्ज णिव्वावेदि मं सरीरप्फंसो । ( सास्रम् । ) किंअ मौलिविनिवेसिदअञ्जली मह वअणेण विण्णवेहि तं जणम् । जह ण मए मन्दभाआए विकसन्तसदपत्तलच्छीविलासहारिणो मुहचन्दमण्डलस्स सच्छन्ददंसणेण संभाविदो चिरं लोअणमहोसवो । मुहा मणोरहेहिं अविरअविअम्भमाणदुव्वारदुक्खावेअवइअरुव्वत्तमाणबन्धणं धारिअं हिअअं । गमिआ अ वारंवारं सविसेसदूसहाआसदूमाविदसहीअणा सरीरसंदावा । कहं वि अदिवाहिदा चन्दादपमलअमारुअप्पमुहा अणत्थपरम्पराओ । संपदं उण णिरासम्हि संउत्तेति । तुए वि पिअसहि, सव्वदा सुमरिदव्वम्हि । एसा अ माहवसिरीहत्थणिम्माणमणोहरा बउलमाला मालदीणिव्विसेसं पिअसहीए दठ्ठव्वा सव्वदा हिअएण धारणिज्जा अत्ति । ( इति स्वकण्ठादुन्मुच्यमाधवस्य हृदि बकुलमालां विन्यस्यन्ती सहसापसृत्य साध्वसोत्कम्पं नाटयति । )
माधव :- हन्त । ( अपवार्य । )
एकीकृतस्तवचि निषिक्त इवावपीड्य
निर्भुग्नपीनकुचकुङ्मलयानया मे ।
कर्पूरहारहरिचन्दनचन्द्रकान्त -
निष्यन्दशैवलमॄणालहिमादिवर्गः ॥१२॥
मालती - अम्हहे, लवङ्गिआए मालदी विप्पलद्धा ।
माधव :- अयि स्वचित्तवेदनामात्रवेदिनि परव्यसन्नानभिज्ञे, इयमुपालभसे ।
उद्दामदेहपरिदाहमहाज्वराणि
संकल्पसंगमविनोदितवेदनानि ।
त्वत्स्नेहसंविदवलम्बितजीवितानि
किं वा मयापि न दिनान्यतिवाहितानि ॥१३॥
लवङ्ग्का - सहि, उवालम्भणिज्जं उवालद्धासि ।
कलहंस :- अहो सरसरमणिज्जदा संविहाणस्स ।
मकरन्द :- महाभागे, एवमेतत् ।
त्वं वत्सलेति कथमप्यवलम्बितात्मा
सत्यं जनोऽयमियतो दिवसाननैषीत् ।
आबद्धकंकणकरप्रणयप्रसाद -
मासाद्य नाण्दुतु चिराय फलत्नु कामाः ॥१४॥
लवङ्गिका - महाणुहाव, हिअए, वि अप्पडिहदसअंगाहसाहसो अअं जणो किं दाणिं करग्गहणे विआरेदि ।
मालती - हद्धि, कण्णआजणविरुद्धं किं वि उवण्णस्सदि ।
कामन्दकी - ( प्रविश्य । ) पुत्रि कातरे, किमेतत् ।
( मालती कम्पमाना कामन्दकीमालिङ्गति । )
कामन्दकी - ( तस्याश्चिबुकमुन्नमध्य । ) वत्से,
पुरश्चक्षूरागस्तदनु मनसोऽनन्यपरता
तनुग्लानिर्यस्य त्वयि समभवद्यत्र च तव ।
युवा सोऽयं प्रेयानिह सुवदने मुञ्च जडतां
विधातुर्वैदग्ध्यं विलसतु सकामोऽस्तु मदनः ॥१५॥
लवङ्गिका - भअवदि, किसणचउअद्दसीरअणिमसाणसंचारणिव्वूढविसमववसाअणिट्ठाविदपचण्डपाखण्डदोद्दण्डसाहसो साहसिओ क्खु एसो । अदो पिअसही उक्कम्बिदा ।
कामन्दकी - लवङ्गिके, स्थाने खल्वनुरागोपकारयोर्गरीयसोरुपन्यासः ।
मालती - हा ताद, हा अम्ब ।
कामन्दकी - वत्स माधव ।
माधव :- आज्ञापय ।
कामन्दकी - इयमाशेषसामन्तमस्तकोत्तंसपरागरञ्जितचरणाङ्गुलेरमात्यभूरिवसोरेकापत्यरत्नं मालती  भगवता सदृशसंयोगरसिकेन वेधसा मन्मथेन मया च तुभ्यं दीयते ( इति बाष्पं विसृजति । )
मकरन्द :- फलितं हि तर्हि भगवतीपादप्रसादेन ।
माधव :- तत्किमित्यतिबाष्पायितमाननं भगवत्याः ।
कामन्दकी - ( चीरञ्चलेन नेत्रे परिमृज्य । ) वत्स, किमपि कल्याणं वक्तुकामास्मि ।
माधव :- तत्किम् ।
कामन्दकी - विज्ञापयामि ।
माधव :- आज्ञापय ।
कामन्दकी -
परिणतिरमणीयाः प्रीतयस्त्वद्विधाना -
महमपि तव मान्या हेतुभिस्तैश्च तैश्च ।
तदिह सुवदनायां तात मत्तः परस्मा -
त्परिचयकरुणायाः सर्वथा मा विरंसीः ॥१६॥
( इति पादयोः पतितुमिच्छति । )
माधव :- अहो, वात्सल्यादतिक्रामति प्रसङ्गः ।
मकरन्द :- भगवति,
श्लाघ्यान्वयेति नयनोत्सवकारिणीति
निर्व्यूढसौहृदरसेति गुणोज्ज्वलेति ।
एकैकमेव हि वशीकरणं गरीयो
युष्माकमेवमियमित्यथ किं ब्रवीमि ॥१७॥
कामन्दकी - वत्स माधव ।
माधव :- आज्ञापय ।
कामन्दकी - स्वीक्रियतामियम् ।
माधव :- स्वीकरोमि ।
कामन्दकी - वत्स माधव, वत्से मालति ।
माधव :- आज्ञापय ।
मालती - आणवेदु भअवदी ।
कामन्दकी -
प्रेयो मित्रं बन्धुता वा समग्रा
सर्वे कामाः शेवधिर्जीवितं वा ।
स्त्रीणां भर्ता धर्मदाराश्च पुंसा -
मित्यन्योन्यं वत्सयोर्ज्ञातमस्तु ॥१८॥
मकरन्द :- अथ किम् ।
लवङ्गिका - जह तुम्हे आणवेत्थ ।
कामन्दकी - वत्स मकरन्द, अनेनैव वैवाहिकेन मालतीनेपथ्येनापवारितः प्रवर्तख परिणयायात्मनः । ( इति पटलकमर्पयति । )
मकरन्द :- यदाज्ञापयदि, यावदितश्चित्र जवनिकामन्तर्धाय नेपथ्यं धारयामि । ( तथा करोति । )
माधव :- भगवति, सुलभमपि बह्वनर्थकमतिसंकटमेतद्वयस्वस्य ।
कामन्दकी - कस्त्वमस्यां चिन्तायाम् ।
माधव :- एवं भगवत्येव जानाति ।
मकरन्द :- ( प्रविश्य विहसन् । )
( सर्वे सविस्मयं सकौतुकं पश्यन्ति । )
माधव :- ( गाढं मकरन्दं परिष्वज्य । ) भगवति, कृतपुण्य एव नन्दनः । यतः प्रियवयस्यमीदृशं मनसा मुहूर्तसपि कामयिष्यति ।
कामन्दकी - वत्सौ मालतीमाधवौ, इतो निर्गत्य वृक्षगहनेन गम्यतामुद्वाहमङ्गलार्थम् । अस्ति तत्र दीर्घिकायाः पश्चादुद्यानवाटः ।
सुविहितं तत्रैव वैवाहिकद्रव्यजातमवलोकितया भूयश्च ।
गाढोत्कण्ठकठोरकेरलवधूगण्डाच्छपाण्डुच्छदै -
स्ताम्बूलीपटलैः पिनद्धफलितव्यानम्रपूगद्रुमाः ।
कक्कोलीफलजग्धमुग्धविकिरव्याहारिणस्तद्भुवो
भागाः प्रेङ्खितमातुलुङ्गवृतयः प्रेयो विधास्यन्ति वाम् ॥१९॥
अतस्तत्रै मदयन्तिकामकरन्दयोर्यावदागमनं स्थातव्यम् ।
माधव :- ( सहर्षम् । ) कल्याणान्तरावतंसा कल्याणसंपदुपरिष्टाद्भवतु ।
कलहंस :- दिट्ठिआ इदं वि पिअं णो हविस्सदि ।
कामन्दकी - कथं संदेहो भवतः ।
लवङ्गिका - सुदं पिअसहीद ।
कामन्दकी - वत्स मकरन्द, भद्रे लवङ्गिके, इतः प्रतिष्ठामहे ।
मालती - सहि, तुए वि गन्दव्वं ।
लवङ्गिका - ( विहस्य । ) संपदं क्खु अम्हे एत्थ ओसरम्ह ।
( इति निष्कान्ताः कामन्दकीलवङ्गिकामकरन्दाः । )
माधव :- अयमिदानीमहम् ।
आमूलकण्टकितकोमलबाहुनाल -
मार्द्राङ्गुलीदलमनङ्गनिदाघतप्तः ।
अस्याः करेण करमाकलयामि कान्त -
मारक्तपङ्कजमिव द्विरदः सरस्याः ॥२०॥
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे षष्ठोऽङ्कः ।

N/A

References : N/A
Last Updated : June 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP