संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छंकरदिग्विजयः ।|अथ द्वितीयः सर्गः| श्लोक ८१ ते ९३ अथ द्वितीयः सर्गः श्लोक १ ते २० श्लोक २१ ते ४० श्लोक ४१ ते ६० श्लोक ६१ ते ८० श्लोक ८१ ते ९३ द्वितीय सर्ग - श्लोक ८१ ते ९३ श्रीविद्यारण्यस्वामिविरचितः Tags : booksanskritपुस्तकविद्यारण्यसंस्कृत श्लोक ८१ ते ९३ Translation - भाषांतर तज्ज्ञातिबन्धुसुहृदिष्टजन ङ्गनास्ता - स्तं सूतिकागृहनिविष्टमथो निदध्युः ॥सोपायनास्तमभिवीक्ष्य यथा निदाघेचन्द्रं मुदं ययुरतीव सरोजवक्त्रम् ॥८१॥तत्सूतिकागृहमवैक्षत नप्रदीपंतत्तेजसा यदवभातमभूत्क्षपायाम् ॥आश्चर्यमेतदजनिष्ट समस्तजन्तो - स्तन्मन्दिरं वितिमिरं यदभूददीपम् ॥८२॥यत्पशतां शिशुरसौ कुरुते शमग्य्रं तेनाकृतास्य जनकः किल शंकराख्याम् ॥यद्वा चिराय किल शंकरसंप्रसादा - ज्जातस्ततो व्यधित शंकरनामधेयम् ॥८३॥सर्वं विदन्सकलशक्तियुतोऽपि बालो मानुश्यजातिमनुसृत्य चचार तद्वत् ॥बालः शनैर्हसितुमारभत क्रमेणस्रप्तुं शशाक गमनाय पदाम्बुजाभ्याम् ॥८४॥बालेऽथ मञ्चे किल शायितेऽस्मि - न्सतां प्रसनं हृदयं बभूव ॥संवीक्षमाणे मनिगुच्छवर्यं विद्वन्मुखं हन्त विनीलमासीत् ॥८५॥संताडयन्हन्त शनैः पदाभ्यांपर्यङ्कवर्यं कमनीयशय्यम् ॥बिभेद सद्यः शतधा समूहा - न्विभेदवादीन्द्रमनोरथानाम् ॥८६॥द्वित्राणि वर्णानि वदत्यमुष्मि - न्द्वैतिप्रवीरा दधुरेव मौनम् ॥मुदा चलत्यङ्घ्रिसरोरुहाभ्यां दिशः पलायन्त दशापि सद्यः ॥८७॥उदचारयदर्भको गिरःपदचारानतनोदनन्तरम् ॥विकलोऽभवदादिमात्तयोः पिकलोकश्चरमान्मरालकः ॥८८॥नवविद्रुमपल्लवास्तृता - मिव काश्मीरपरागपाटलाम् ॥रचयन्नचलां पदत्विषा स चचारेन्दुनिभः शनैः शनैः ॥८९॥मूर्धनि हिमकरचिह्नं निटले नयनाङ्कमंसयोः शूळम् ।वपुषि स्फटिकसवर्ण प्राज्ञास्तं मेनिरे शंभुम् ॥९०॥राज्यश्रीरिव नयकोविदस्य राज्ञो विद्येव व्यसनदवीयसो बुधस्य ॥शुभ्रांशोश्छविरिव शारदस्य पित्रोः संतोषैः सह ववृधे तदीयमूर्तिः ॥९१॥नागेनोरसि चामरेण चरणे बालेन्दुना फालके पाण्योश्चक्रगदाधनुर्डमरुकैर्मूर्ध्नि त्रिशूलेन च ॥तत्तस्याधुतमाकलय्य ललितं लेखाक्रुते लाञ्छितं चित्रं गात्रममंस्त तत्र जनता नेत्रैर्निमेषोज्झितैः ॥९२॥सर्गे प्राथमिके प्रयाति विरतिं मार्गे स्थिते दौर्गतेस्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति ॥वर्गे देहभृतां निसर्गमलिने जातोपसर्गेऽखिले सर्गे विश्वसृजस्तदीयवपुषा भर्गोऽवतीर्नो भुवि ॥९३॥इति श्रीमाधवीये तदवतारकथापरः । संक्षेपशंकरजये सर्गः पूर्णो द्वितीयकः ॥२॥ N/A References : N/A Last Updated : May 17, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP