गावो हिरण्यं वहुसस्यमालिनी
वसुंधरा चित्रपदं निकेतनम् ॥
संभावना बन्धुजनैश्च संगमो
न पुत्रहीनं बहवोऽप्यमूमुहन् ॥४१॥
अस्यामजाता मम संततिश्चे -
च्छरद्यवश्यं भवितोपरिष्टात् ॥
तत्राप्यजाता तत उत्तरस्या -
मेवं स कालं मनसा निनाय ॥४२॥
खिन्दन्मनाः शिवगुरुः कृतकार्यशेषो
जायामचष्ट सुभगे किमतः परं नौ ॥
साङ्गं वयोऽर्धमगमत्कुलजे न दृष्टं
पुत्राननं यदिहलोक्यमुदाहरन्ति ॥४३॥
एवं प्रिये गतवतोः सुतदर्शनं चे -
त्पञ्चत्वमैष्यदथ नौ शुभमापतिष्यत् ॥
अस्याभ्युपायमनिशं भुवि वीक्षमाणो
नक्षे ततः पितृजनिर्विफला ममाभूत् ॥४४॥
भद्रे सुतेन रहितौ भुवि के वदन्ति
नौ पुत्रपौत्रसरनिक्रमतः प्रसिद्धिः ॥
लोके न पुष्पफलशून्यमुदाहरन्ति
वृक्षं प्रवालसमये फलितं विहाय ॥५४॥
इतीरिते प्राह तदीयभार्या
शिवाख्यकल्पद्रुममाश्रयावः ॥
तत्सेवनान्नौ भविता सुनाथ
फलं स्थिरं जङ्गमरूपभैशम् ॥४६॥
भक्तेप्सितार्थपरिकल्पनकल्पवृक्षं
देवं भजाव कमितः सकलार्थसिद्ध्यै ॥
तत्रूपमन्युमहिमा परमं प्रमाण
नो देवतासु जडिमा जडिमा मनुष्ये ॥४७॥
इत्थं कलत्रोक्तिमनुत्तमां स
श्रुत्वा सुतार्थी प्रणतैकवश्यम् ॥
इयेष संतोषयितुं तपिभिः
सोमार्धमूर्धानमुमार्धमीशम् ॥४८॥
तस्योपधाम किल संनिहिताऽऽपगैका
स्नात्वा सदाशिवमुपास्त जले स तस्याः ॥
कन्दाशनः कतिचिदेव दिनानि पूर्वं
पश्चात्तदा स शिवपादयुगाब्जभृङ्गः ॥४९॥
जायाऽपि तस्य विमला नियमोपतापै -
श्चिक्लेश कायमनिशं शिवभर्चयन्ती ॥
क्षेत्रे वृषस्य निवसन्तमजं स भर्तुः
कालोऽत्यगादिति तयोस्तपतोरनेकः ॥५०॥
देवः कृपापरवशो द्विजवेषधारी
प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम् ॥
प्रोवाच भोः किमभिवाञ्छसि किं तपस्ते
पुत्रार्थितेति वचनं स जगाद विप्रः ॥५१॥
देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं
सर्वज्ञमेकमपि सर्वगुणोपपन्नम् ॥
पुत्रं ददान्यथ बहून्विपरीतकांस्ते
भूर्योआयुषस्तनुगुणानवदद्द्विजेशः ॥५२॥
पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः
सर्वज्ञतापदमितीरित आबभाषे ॥
दद्यामुदीरितपदं तनयं तपो मा
पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ॥५३॥
आकर्नयन्निति बुबोध स विप्रवर्य -
स्तं चाब्रवीन्निजकलत्रमनिन्दितात्मा ॥
स्वप्नं शशंस वनितामनिरस्य भार्या
सत्यं भविष्यति तु नौ तनयो महात्मा ॥५४॥
तौ दंपती शिवपरौ नियतौ स्मरन्तौ
स्वप्नेक्षितं गृहगतौ बहुदक्षिणान्नैः ॥
संतर्प्य विप्रनिकरं तदुदीरिताभि -
राशीर्भिरापतुरनल्पमुदं विशुद्धौ ॥५५॥
तस्मिन्दिने शिवगुरोरुपहोक्ष्यमाणे
भक्ते प्रविष्टमभवक्तिल शैवतेजः ॥
भुक्तान्नविप्रवचनादुपभुक्तशेषं
सोऽभुङ्क्त साऽपि निजभर्तृपदाब्जभृङ्गी ॥५६॥
गर्भं दधार शिवगर्भमसौ मृगाक्षी
गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ॥
तेजोतिरेकविनिवारितदृष्टिपात -
विश्वं रवेर्दिवसमध्य इवोग्रतेजः ॥५७॥
गर्भालसा भगवती गतिमान्द्यमीष -
दापेति नाद्भुतमिदं धरते शिवं या ॥
यो विष्टपानि बिभृते हि चतुर्दशापि
यस्यापि मूर्तय इमा वसुधाजलाद्याः ॥५८॥
संव्याप्तवानपि शरीरमशेषमेव
नोपास्तिमाविरसकावकृतात्र कांचित् ॥
यत्पूर्वमेव महसा दुरतिक्रमेण
व्याप्तं शरीरमदसीयममुश्य हेतोः ॥५९॥
रम्याणि गन्धकुसुमान्यपि गर्धिमस्यै
नाऽऽधातुमैशत भरात्किमु भूषणानि ॥
यद्यद्गुरुत्वपदमंस्ति पदार्थजातं
तत्तद्विधारणविधावलसा बभूव ॥६०॥

N/A

References : N/A
Last Updated : May 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP