ततो महेशः किल केरलेषु श्रीमद्वृषाद्रौ करुणासमुद्रः ।
पूर्णानदीपुण्यतटे स्वयंभूलिङ्गात्मनाऽनङ्गधगाविरासीत् ॥१॥
तच्चोदितः कश्चन राजशेखरः स्वप्ने मुहुर्दृष्टतदीयवैभवः ।
प्रासादमेकं परिकल्प्य सुप्रभं प्रावर्तयत्तस्य समर्हणं विभोः ॥२॥
तस्येश्वरस्य प्रणतार्तिहर्तुः
प्रसादतः प्राप्तनिरीतिहावः ॥
कश्चित्तदभ्यशगतोऽग्रहारः
कालट्याभिख्योऽस्ति महान्मनोज्ञ ॥३॥
कश्चिद्विपश्चिदिह निश्चलधीर्विरेजे
विद्याधिराज इति विश्रुतनामधेयः ॥
रुद्रो वृषाद्रिनिलयोऽवतरीतुकामो
यत्पुत्रमात्मपितरं समरोचयत्सः ॥४॥
पुत्रोऽभवत्तास्य पुरात्तपुण्यैः
सुब्रह्मतेजाः शिवगुर्वभिख्यः ॥
ज्ञाने शिवो यो वचने गुरुस्त -
स्यान्वर्थनामाकृत लब्धवर्णः ॥५॥
स ब्रह्मचारी गुरुगेहवासी तत्कार्यकारी विहितान्नभोजी ।
सायं प्रभातं च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट ॥६॥
क्रियाद्यनुश्ठानफलोऽर्थबोधः स नोपजायेत विना विचारम् ।
अधीत्य वेदानथ तद्विचारं चकार दुर्बोधतरो हि वेदः ॥७॥
वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म ।
अपाठि मत्तः सषडङ्गवेदो व्यचारि कालो बहुरत्यगात्ते ॥८॥
भक्तोऽपि गेहं व्रज संप्रति त्वं जनोऽपि ते दर्शनलालसः स्यात् ।
गत्वा कदाचित्स्वजनप्रमोदं विधेहि मा तात विलम्बयस्व ॥९॥
विधातुमिष्टं यदिहापराह्णे विजानता तत्पुरुषेण पूर्वम् ।
विधेयमेवं यदिह श्व इष्टं कर्तुं तदद्येति विनिश्चितोऽर्थः ॥१०॥
कालोप्तबीजादिह यादृशं स्यात्सस्यं न तादृग्विपरीतकालात् ।
तथा विवाहादिकृतं स्वकाले फलाय कल्पेत च चेद्वृथा स्यात् ॥११॥
आ जन्मनो गणतयो ननु तान्गताब्दा -
न्माता पिता परिणयं तव कर्तुकामौ ॥
पित्रोरियं प्रकृतिरेव पुरोपनीति
यद्ध्याततस्तनुभवस्य ततो विवाहम् ॥१२॥
तत्तत्कुलीनपितरः स्पृहयन्ति कामं
तत्तत्कुलीनपुरुषस्य विवाहकर्म ॥
पिण्डप्रदातृपुरुषस्य ससंततित्वे
पिण्डाबिलोपमुपरि स्फुटमीक्षमाणाः ॥१३॥
अर्थावबोधनफलो हि विचार एष
तच्चापि चित्रबहुकर्मविधानहेतोः ॥
अत्राधिकारमधिगच्छति सद्वितीयः
कृत्वा विवाहमिति वेदविदां प्रवादः ॥१४॥
सत्यं गुरो न नियमोऽस्ति गुरोरधीत -
वेदो गृही भवति नान्यपदं प्रयाति ॥
वैराग्यवान्व्रजति भिक्षुपदं विवेकी
नो चेद्गृही भवति राजपदं तदेतत् ॥१५॥
श्रीनैष्ठिकाश्रममहं परिगृह्य याव -
ज्जीवं वसामि तव पार्श्वगतश्चिरायुः ॥
दण्डाजिनी सविनयो बुध जुह्वदग्नौ
वेदं पठन्पठितविस्मृतिहानिमिच्छन् ॥१६॥
दारग्रहो भवति तावदयं सुखाय
यावत्कृतोऽनुभवगोचरतां गतः स्यात् ॥
पश्चाच्छनैर्विरसतामुपयाति सोऽयं
किंनिह्नुशे त्वमनुभूतिपदं महात्मन् ॥१७॥
यागोऽपि नाकफलदो विधिना कृतश्चे -
त्प्रायः समग्रकरणं भुवि दुर्लभं तत् ॥
वृष्ट्यादिवन्नहि फलं यदि कर्मंणि स्या -
द्दिष्ट्या यथोक्तविरहे फलदुर्विधत्वम् ॥१८॥
निःस्वो भवेद्यदि गृही निरयी स नूनं
भोक्तुं न दातुमपि यः क्षमतेऽणुमात्रम् ॥
पूर्णोऽपि पूर्तिमभिमन्तुमशक्नुवन्यो
मोहेन शं न मनुते खलु तत्र तत्र ॥१९॥
यावत्सु सत्सु परिपूर्तिरथो अमीषां
साधो गृहोपकरणेषु सदा विचारः ॥
एकत्र संहतवतः स्थितपूर्वनाश -
स्तच्चापयाति पुनरप्यपरेण योगः ॥२०॥
एवं गुरौ वदति तज्जनको निनीषु -
रागच्छदत्र तनयं स्वगृहं गृहेशः ॥

N/A

References : N/A
Last Updated : May 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP