मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|श्रीजाबालदर्शनोपनिषत्| दशमः खण्डः श्रीजाबालदर्शनोपनिषत् प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः श्रीजाबालदर्शनोपनिषत् - दशमः खण्डः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgurudattajabalstotraजाबालदेवतादेवीस्तोत्र दशमः खण्डः Translation - भाषांतर अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् । समाधिः संविदुत्पत्तिः परजीवकैतां प्रति ॥१॥नित्यः सर्वगतौ ह्यात्मा कूटस्थो दोषवर्जितः । एकः सन्मिद्यते भ्रान्त्या मायया न स्वरूपतः ॥२॥तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः । यथाकाशो घटाकाशो मठाकाश इतीरितः ॥३॥तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना । नाहं देहो न च प्राणो नेन्द्रियाणि मनो न हि ॥४॥सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः । इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते ॥५॥साहं ब्रह्म न संसारी न मत्तोन्यः कदाचन । यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ॥६॥समुद्रे लीयते तद्वज्जगन्मय्यनुलीय्यते । तस्मान्मनः पृथङ्नास्ति जगन्माया च नास्ति हि ॥७॥यस्यैवं परमात्मायं प्रत्यग्भूतः प्रकाशितः । स तु याति च पुंभावं स्वयं साक्षात्परामृतम् ॥८॥यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ॥९॥यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ॥१०॥यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणाऽसौ तदा भवति केवलः ॥११॥यदा पश्यति चात्मानं केवलं परमार्थतः । मायामात्त्रं जगत्कृत्स्नं तदा भवति निर्वृत्तिः ॥१२॥एवमुक्त्वा स भगवान्दत्तात्रेयो महामुनिः । सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः ॥१३॥इति दशमः खण्डः ॥१०॥॥ ॐ आप्यायन्विति शान्तिः ॥हरिः ॐ तत्सत् ॥॥ इति श्रीजाबालदर्शनोपनिषत्समाप्ता ॥ N/A References : N/A Last Updated : January 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP