मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|श्रीजाबालदर्शनोपनिषत्| सप्तमः खण्डः श्रीजाबालदर्शनोपनिषत् प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः श्रीजाबालदर्शनोपनिषत् - सप्तमः खण्डः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgurudattajabalstotraजाबालदेवतादेवीस्तोत्र सप्तमः खण्डः Translation - भाषांतर अथातः संप्रवक्ष्यामि प्रत्याहरं महामुने । इन्द्रियाणां विचरतां विषयेषु स्वभावतः ॥१॥बलादाहरणं तेषां प्रत्याहारः स उच्यते । यत्पश्यति तु तत्सर्वं ब्रह्म पश्यन्समाहितः ॥२॥प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोहितः । यद्यच्छुद्धनशुद्धं वा करोत्यामरणान्तिकम् ॥३॥तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारः स उच्यते । अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ॥४॥काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते । अथवा वायुमाकृष्य स्थानात्स्थानं निरोधयेत् ॥५॥दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् । उरोदेशात्समाकृष्ण नाभिदेशे निरोधयेत् ॥६॥नाभिदेशात्समाकृष्य कुण्डल्या तु निरोधयेत् । कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत् ॥७॥अथापानात्कटिद्वन्द्वे तथोरो च सुमध्यमे । तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् ॥८॥प्रत्याहारोऽयमुक्तस्तु प्रत्याहारस्मरैः पुरा । एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ॥९॥सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत । नसाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ॥१०॥पूरयेदनिलं विद्वानापादतलमस्तकम् । पश्चात्पादद्वये तद्वन्मूलाधारे तथैव च ॥११॥नाभिकन्दे च हृन्मध्ये कष्ठमूले च तालुके । भ्रुवोर्ममध्ये ललाटे च तथा मूर्धनि धारयेत् ॥१२॥देहे स्वात्ममतिं विद्वान्समाकृष्य समाहितः । आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ॥१३॥प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः । एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् ॥१४॥इति सप्तमः खण्डः ॥७॥ N/A References : N/A Last Updated : January 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP