मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|श्रीजाबालदर्शनोपनिषत्| पञ्चमः खण्डः श्रीजाबालदर्शनोपनिषत् प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः श्रीजाबालदर्शनोपनिषत् - पञ्चमः खण्डः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgurudattajabalstotraजाबालदेवतादेवीस्तोत्र पञ्चमः खण्डः Translation - भाषांतर सम्यक्कथय मे ब्रह्मन्नाडीशुद्धिं समासतः । यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् ॥१॥सांकृते शृणु वक्ष्यामि नाडीशुद्धिं समासतः । विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः ॥२॥यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः । स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥३॥पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा । मनोरमे शुचौ देशे मठं कृत्वा समाहितः ॥४॥आरभ्य चासनं पश्चात्प्राड्मुखोदड्मुखोऽपि वा । समग्रीवशिरः कायः संवृतास्यः सुनिश्चलः ॥५॥नासाग्रे शशभृद्विम्बे बिन्दुमध्ये तुरीयकम् । स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥६॥इडया प्राणमाकृष्ण पूरयित्वोदरे स्थितम् । ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥७॥बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् । पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥८॥पुनः पिङ्गलयापूर्य वन्हिबीजमनुस्मरेत् । पुनर्विरेचयेद्धीमान्निडयैव शनैः शनैः ॥९॥त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च । षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसंधिषु ॥१०॥नाडीशुद्धिमवाप्नोति पृथक्चिन्होपलक्षितः । शरीरलघुता दीप्तिर्वन्हेजठिरवर्तिनः ॥११॥नादाभिव्यक्तिरित्येतञ्चिन्हं तत्सिद्धिसूचकम् । यावदेतानि संपश्येत्तावदेवं समाचरेत् ॥१२॥अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् । आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयम्प्रभः ॥१३॥अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो भवत्ययम् । अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः । स एव सर्वदा शुद्धो नान्यः कर्मरतो हि संः ॥१४॥इति पञ्चमः खण्डः ॥५॥ N/A References : N/A Last Updated : January 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP