मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|श्रीजाबालदर्शनोपनिषत्| द्वितीयः खण्डः श्रीजाबालदर्शनोपनिषत् प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः श्रीजाबालदर्शनोपनिषत् - द्वितीयः खण्डः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgurudattajabalstotraजाबालदेवतादेवीस्तोत्र द्वितीयः खण्डः Translation - भाषांतर तपः संतोषमास्तिक्यं दानमीश्वरपूजनम् । सिद्धांतश्रवणं चैव र्हीर्मतिश्च जपो व्रतम् ॥१॥एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु ॥२॥वेदोक्तेन प्रकरेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥३॥को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान् । इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः ॥४॥यद्टच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् । तत्संतोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥५॥ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेत्प्रियम् । सर्वत्र विगतस्नेहः संतोषं परमं विदुः । श्रोते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥६॥न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने । अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया ॥७॥रागाद्यपेतं हृदयं वागदुष्टानृतादिना । हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ॥८॥सत्यं ज्ञामनन्तं च परानन्दं परं ध्रुवम् । प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः ॥९॥वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् । तस्मिन्भवति या लज्जा र्हीः सैवेति प्रकीर्तिता । वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥१०॥गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः । वेदोक्तेनैव मार्गेण मंत्राभ्यासो जपः स्मृतः ॥११॥कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके । इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया ॥१२॥जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा ॥१३॥वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः । मानसो मननध्यानभेदाद्वैविध्यमाश्रितः ॥१४॥उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते । मानसश्च तथोपांशोः सहस्रगुणमुच्यते ॥१५॥उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् । नीचैः श्रोत्रेण चेन्मन्त्रः श्रृतश्चेन्निष्फलं भवेत् ॥१६॥इति द्वितीयः खण्डः ॥२॥ N/A References : N/A Last Updated : January 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP