मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|श्रीजाबालदर्शनोपनिषत्| नवमः खण्डः श्रीजाबालदर्शनोपनिषत् प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः श्रीजाबालदर्शनोपनिषत् - नवमः खण्डः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgurudattajabalstotraजाबालदेवतादेवीस्तोत्र नवमः खण्डः Translation - भाषांतर अथातः संप्रवक्ष्यामि ध्यानं संसारनाशनम् । ऋतं सत्यं परं ब्रह्म सर्वसंसारमेषजम् ॥१॥उर्ध्वरेतं विश्वरूपं विरूपाक्षं महेश्वरम् । सोऽहमित्यादरेणैव ध्यायेद्योगीश्वरेश्वरम् ॥२॥अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम् । अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥३॥तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् । न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥४॥आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत । अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥५॥एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः । क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः ॥६॥इति नवमः खण्डः ॥९॥ N/A References : N/A Last Updated : January 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP