प्रथमाष्टक -अष्टमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


इदं श्रेष्ठं भजेत्तस्य सिद्धयेत्केवलकुम्भक: ॥
न तस्य दुर्लभं किंचित्सोsजेय: कैरपीह हि ॥१॥
देहे पदादिमूर्धान्ते स्थिता लोकाश्चतुर्दश ॥
हृत्संयमात्तत्र तत्र तत्तल्लोकविदीरिता ॥२॥
अर्थज्ञानं तारकायां नासाग्रे चेन्द्रलोकवित् ॥
तदधो वह्निलोकस्य चक्षुषो: सर्वलोकवित् ॥३॥
श्रोत्रे च यमलोकस्य तत्पार्श्वे नैरृतस्य वित् ॥
पृष्ठेवरुणलोकस्य वायुलोकस्य च श्रुतौ ॥४॥
कण्ठे कुबेरलोकस्य वामेक्ष्णि शिवलोकवित् ॥
दक्षे परमलोकस्य ब्रह्मलोकस्य मूध्निं वित् ॥५॥
तत्तज्जन्तुध्वनौ तत्तद्भूतज्ञानं च कर्मणि ॥
प्राग्जातिविच्चान्यचित्ते स्फुटं तच्चित्तवृत्तिवित् ॥६॥
सूर्येन्द्वोर्लोकभज्ञानं ध्रुवे तद्गतिदर्शनम् ॥
स्वार्थे पुरुषविद्वीर्ये मारुत्यादिबलस्य वित् ॥७॥
कायरूपेsप्यदृश्यस्य कायव्यूहस्य नाभित: ॥
अतीतानागतज्ञानं स्याद्धर्माधर्मयोर्गले ॥८॥
क्षुत्तृण्नाश: कूर्मनाढ्यां स्थैर्यं तारे च सिद्धदृक् ॥
कायखे खगतिस्तत्तत्सिद्धयस्तत्र तत्र च ॥९॥
प्रत्याहारस्त्वाहरणमर्थचारी गवां बलात् ॥
आत्मान्वयेन दृष्टिश्च फलत्यागश्च कर्मण: ॥१०॥
वैरस्यं चेन्द्रियार्थेषु प्रतिमर्म च हृत्स्थिति: ॥
प्रत्याहार: पञ्चधैवं धारणापि च पञ्चधा ॥११॥
हृत्प्राणधारणा हृद्धीधारणाsध्यात्मधारणा ॥
तन्मूर्तिधारणा क्ष्मादौ हार्दखेsन्यखधारणा ॥१२॥
वज्राङ्कुशध्वजाब्जाङ्कयुग्रक्ताब्जाभपत्तलम् ॥
नखमाणिक्यभाध्वस्तभक्तहार्दतमस्ततिम् ॥१३॥
गूढगुल्फं कूर्मपृष्ठोल्लसत्पादोपरिस्थलम् ॥
परिपुष्टसुजङ्घोरुं विशालजघनस्थलम् ॥१४॥
पृथुश्रोणिं च काकुत्स्थं चारुनाभिं दलोदरम् ॥
कपाटवक्षसं दीर्घमांसलोरगवद्भुजम् ॥१५॥
सुचिह्नाचिह्नितकरं कम्बुकण्ठं स्मिताननम् ॥
स्नैग्ध्यधावल्ययुक्ताक्षं चलत्पिङ्गजटाधरम् ॥१६॥
चन्द्रकान्तं प्रभुं कृष्णभ्रूरश्मश्रुकनीनिकम् ॥
भावशुद्धद्विजाकीर्णं प्रसन्नमुखपङ्कजम् ॥१७॥
सिद्धासनसमासीनं वराभयदसत्करम् ॥
क्षणेक्षणेsपि स्वभक्तस्मृतिगामिनमीश्वरम् ॥१८॥
अनुग्रहाख्यहृत्स्थेन्दुज्ञापितस्मितचन्द्रिकम् ॥
सदाखण्डसमाधिख्यं दत्तात्रेयं दिगम्बरम् ॥१९॥
आसेचनकमूर्तिं तं सदापादाद्धृदामुखम् ॥
ध्यायेत्समाहितो योगी निवृत्ताखिलवृत्तिक: ॥२०॥
इदं तु सगुणध्यानं स्वेच्छोपात्तचिदात्मन: ॥
निर्गुणं केवलं हास्यं सच्चित्सुखमयं परम् ॥२१॥
ध्यातृध्यानध्येयरूप: समाधि: सविकल्पक: ॥
जीवात्मपरमात्मैक्यावस्था त्रिपुटिवर्जिता ॥२२॥
परिपूर्णानन्दरूपा शुद्धचिद्रूपिका पर: ॥
पश्चात्स्मृत्यनुमेयात्मार्थवृत्तय इहानुगा: ॥२३॥
अन्तर्लीनसहृत्प्राणोsपश्यन्नचलदृग्बहि: ॥
मुद्रेयं वैष्णवी शून्या शून्यलक्ष्मपदप्रदा ॥२४॥
तद्वान्दृढासनो दक्षकर्णे रुद्धबिलो ध्वनिम् ॥
त्रिग्रन्थिभेदं श्रृणुयात्सुसूक्ष्मं स समाधिभाक् ॥२५॥
अर्धोन्मीलितदृक्स्वस्थो नासाग्राक्षो वशी भजेत् ॥
लीनार्केन्दु: परं तत्त्वं तद्बाह्यन्तरवर्जितम् ॥२६॥
एवमभ्यासयोगेन खेचरीमुद्रयापि च ॥
मन: स्थिरीभावरूपाsवस्था सिद्ध्येन्मनोन्मनी ॥२७॥
शक्तिमध्ये मन: कृत्वा शक्तिं चापि मनोगताम् ॥
मनसा मन आलोक्य योगी नित्यं सुखी भवेत् ॥२८॥
आकाशमध्य आत्मानमात्मन्याकाशमेव च ॥
कृत्वाकाशमयं सर्वं चिन्तयेन्न किमप्यत: ॥२९॥
बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तनम् ॥
परित्यज्याखिलां चिन्तां चिन्मयं भावयेत्परम् ॥३०॥
योगेनेत्थं लीयमानं मनो ब्रह्मणि लीयते ॥
कर्पूरोsग्नाविवाब्धौ च लवणं ख इवान्यखे ॥३१॥
ज्ञेयं सर्वप्रतीतं च तज्ज्ञानं मन उच्यते ॥
मनोलयो ज्ञानवस्तुपरित्यागात्ततोsमृतम् ॥३२॥
योगो ज्ञानं च मनसो नाशस्य द्वौ क्रमौ परौ ॥
योगो हृद्वृत्तिरोधोsत्र ज्ञानं सम्यगवेक्षणम् ॥३३॥
चित्तवृत्तिनिरोधस्तु मन:स्पन्दोपशान्तिद: ॥
मन:स्पन्दोपशान्त्यायं संसार: प्रविलीयते ॥३४॥
शास्त्रसज्जनसंपर्कवैराग्याभ्यसयोगत: ॥
धैर्येण चास्यया पूर्ववासनातानबाद्धठात् ॥३५॥
सद्भक्त्या भगवद्ध्यानाच्चिरमेकान्तमोदितात् ॥
अखेदमनिलाभ्यासात्परतत्त्वैकचिन्तनात् ॥३६॥
ॐकारोच्चारणाद्दीर्घं घण्टिकाक्रमणाद्गवा ॥
शक्तिसंचालनात्प्राणमन:स्पन्दो निरुध्यते ॥३७॥
इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणां ॥
उत्काभ्यासेन विज्ञेयं तद्विष्णो: परमं पदम् ॥३८॥
द्वादशाङ्गुलपर्यन्तं नासाग्रे विमलाम्बरे ॥
संविद्दृशि प्रशाम्यन्त्यां हृत्प्राणस्पन्दरोधनम् ॥३९॥
भ्रूमध्ये तारकालोकनाशादन्त उपागते ॥
केतने चेतने बद्धे हृत्प्राणस्पन्दरोधनम् ॥४०॥
ओमित्येव यदुद्भूतं ज्ञानज्ञेयात्मकं शिवम् ॥
विभावयेन्निर्विकल्पस्तेन प्राणो निरुध्यते ॥४१॥
चिरकालं धियैकान्तं व्योमसंवेदनाद्दृढम् ॥
निर्वासनमनोधृत्या सुखात्प्राणो निरुध्यते ॥४२॥
इत्यथर्वोदितो योग: संक्षेपेणात्र दर्शित: ॥
विशेषाभ्यासापेक्षायां मूले सम्यग्विलोक्यताम् ॥४३॥
लीन: सपञ्चविपलद्विपलं ब्रह्मरन्ध्रग: ॥
प्राण: प्राणायाम एष वर्धमानस्तत: पर: ॥४४॥
प्रत्याहार: पलै: पञ्चविंश्यत्यानिन्द्रियार्थवित् ॥
धारणा पञ्चनाडीभिर्ध्यानं षष्टिघटीमितम् ॥४५॥
समाधिर्द्वादशदिनसाध्य: परमदुर्लभ: ॥
वासनाजालहा धर्ममेघ: सर्वकृतान्तकृत् ॥४६॥
यमेन दशधा नूनं दशधा नियमेन च ॥
आसनाद्येन षट्केन योगोsष्टाङ्गोsयमुच्यते ॥४७॥
एतेनाष्टाङयोगेन मनोनाशेन योगिराट् ॥
वासनातानवेनाशु तत्त्वज्ञानेन मुच्यते ॥४८॥
योगो हृद्वृत्तिरोधो हीत्युक्तमत्र महर्षिणा ॥
पातञ्जलाभिधो योग: सुखस्तेनात्र सूचित: ॥४९॥
स हृद्वृत्तिनिरोधाख्य: सुखोपि बहुसंमत: ॥
प्रसंगेनेह संक्षेपाज्ज्ञानसिद्ध्यर्थमुच्यते ॥५०॥
इति श्रीपद्दत्तात्रेयपुराणे त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां प्रथमाष्टके ज्ञानकाण्डेsष्टमोध्याय: ॥८॥
इति श्रीदत्तपुराणे योगकथनं नाम प्रथमाष्टके अष्टमोsध्याय ॥१।८॥
इति श्रीदत्तपुराणे प्रथमाष्टक: समाप्त: ॥

N/A

References : N/A
Last Updated : May 06, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP