संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| प्रथमाष्टक| चतुर्थोsध्याय: प्रथमाष्टक प्रथमोsध्याय: द्वितोयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: प्रथमाष्टक -अष्टमोsध्याय: प्रथमाष्टक - चतुर्थोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथ कर्मेश्वरविप्रतिपत्तिर्नाम प्रथमाष्टके चतुर्थोsध्याय: Translation - भाषांतर अयं वाssपीय भगवदुपदेशसुधारसम् ॥श्रुतिद्वारा नातितृप्त: पप्रच्छ स यति: पुन: ॥१॥भगवन्कर्म किं कार्यमुपास्यश्च क ईश्वर: ॥श्रुता हि बहवोsत्रेशा: कर्माणि च तथा पुन: ॥२॥पञ्चविंशतिसंस्काररूपं कर्मोदितं परै: ॥अमृतत्वायाष्टचत्वारिंशत्संस्काररूपकम् ॥३॥व्रतातीर्थार्चनजपतपोदानादिरूपकम् ॥सापेक्षश्ववद्यज्ञादिश्रुतेरिति केचन ॥४॥निर्विघ्नार्थं हरीशाद्या देवा अपि भजन्ति यम् ॥मर्त्यै: स वक्रतुप्डोर्च्य इति गाणेशसंमतम् ॥५॥जगत्स्रष्ट्रादिहेतु: सा वरा श्रुतुक्तदेवता ॥गणानां त्वेति मन्त्रेण स्तुता गृत्समदर्षिणा ॥६॥इत्युक्तं तत्पुराणेsतो गणेशो ब्रह्मणस्पति: ॥महाकविर्ज्येष्ठराज: श्रूयते मन्त्रकृच्च स: ॥७॥मन्त्रं वदत्युक्थ्यमेष प्रनूनं ब्रह्मणस्पति: ॥यस्मिन्निन्द्रादय: सर्वे देवा ओकांसि चक्रिरे ॥८॥स प्रभु: सर्वत: पाता यो रेवान्यो अमीवहा ॥अतोsर्च्योsसौ यश्चतुरो वसुवित्पुष्टिवर्धन: ॥९॥वक्रतुण्डोsपि सुमुख: साधोगन्तापि चोर्ध्वग: ॥येsमुं नर्चन्ति ते विघ्नै: पराभूता भवन्ति हि ॥१०॥ये दूर्वाङ्कुरलाजाद्यै: पूजयन्ति शिवात्मजम् ॥ऐहिकामुष्मिकान्भोगान्भुक्त्वा मुक्तिं व्रजन्ति ते ॥११॥यस्योदयास्तसमये शिवाद्या अपि चाञ्जलिम् ॥बन्धन्ति विश्वसाक्षी स प्रत्यक्ष: श्रुउयते रवि: ॥१२॥यदाधीना कालगतिर्यदधीना: क्रिता: समा: ॥यन्मन्त्रेण द्विजत्वाप्तिर्यन्मन्त्रेण कृतार्थता ॥१३॥लौकिकाsपि व्यवहृतिर्यत्प्रसागात्प्रवर्तते ॥स्मर्यतेsस्माद्विश्वसृष्टि: सवितु: श्रूयतेsपि च ॥१४॥जगतस्तस्थुषश्चात्मा सूर्यस्तं बहुधा जगु: ॥मूर्तामूर्तं जगत्सर्वं प्राणापानात्मक श्रुतम् ॥१५॥प्राण: सूर्योsपरश्चन्द्रस्तयो: सर्वं प्रतिष्ठितम् ॥श्रीसूर्यकिरणावेशाच्चन्द्रस्यापि च चन्द्रता ॥१६॥अतश्चन्द्रो न भिन्नोsस्मात्स सूर्य: सकलात्मक: ॥यं विना जगदान्ध्यं हि स देव: कैर्न पूज्यते ॥१७॥तमोsमुं ग्रसतीत्येष दृष्टवादो न तात्त्विक: ॥तस्माद्भक्तेष्टदो देवो वरोकश्चापराजित: ॥१८॥ईशावास्यमिदं सर्वं चक्षो: सूर्यो अजायत ॥इति श्रुतिरुवाचातो महादेव: परावर: ॥१९॥अष्टमूर्तेरसौ सूर्यो मूर्तित्वे परिकल्पित: ॥नेत्रं त्रिलोचनस्यैकमसौ सूर्यस्तदाश्रित: ॥२०॥यस्य भासा सर्वमिदं विभातीति श्रुतेरिमे ॥तमेव भान्तमीशानमनु भान्ति खगादय: ॥२१॥ईशान: सर्वविद्यानां भूतानां चेति च श्रुते: ॥वेदादीनामप्यधीश: स ब्रह्मा कैर्न पूज्यते ॥२२॥यस्य संहारकाले तु न किंचिदवशिष्यते ॥सृष्टिकाले पुन: सर्वं स एक: सृजति प्रभु: ॥२३॥सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ॥इति श्रुतेर्महादेव: श्रेष्ठोsर्च्य: सकलार्चित: ॥२४॥विश्वं भूतं भवद्भव्यं सर्व रुद्रात्मकं श्रुतम् ॥मृत्युंजयस्तारकोsत: स यज्ञस्य प्रसाधन: ॥२५॥विषमाक्षोsपि समदृक्साशिवोsपि शिव: स च ॥वृषसंस्थोsप्यतिवृषो गुणात्माप्यगुणोsमल: ॥२६॥यदाज्ञामुद्वहन्त्यत्र शिरसा सासुरा: सुरा: ॥अन्नं वातो वर्ष इतीषवो यस्यास्य विश्वपा: ॥२७॥भिषक्तमं त्वां भिषजां श्रृणोमीति श्रुतेरयम् ॥स्वभक्तसंसारमहारोगहर्ताsपि शंकर: ॥२८॥शिवोsपि शक्तियुक्तश्चेत्प्रभु: कार्याय नान्यथा ॥स्वमायया विनेशस्य परस्यानुभवात्मन: ॥२९॥न घटेतार्थ्यसंबन्धस्ततो माया परावरा ॥यस्या: प्रभावं प्रवक्तुं शिवाद्या अप्यलं बलम् ॥३०॥वैष्णवीयं महामाया सुरासुरमुनिस्तुता ॥शय्यां देवमयीं कृत्वा शेतेsसाविति गीयते ॥३१॥सर्वे देवाश्च मुनयो विषमे यां स्तुवन्ति हि ॥सृष्टिस्थितिविनाशानां हेतुरेका सनातनी ॥३२॥विदुषोsपि हठाच्चेतो महामोहाय यच्छति ॥अभक्तानां बन्धहेतुर्भक्तानां मुक्तिदा च सा ॥३३॥सर्वेष्वपि हि भृतेषु चेतनेत्युच्यते तत: ॥स्वात्माराम: शिवोsप्येतां रत्यर्थमनुधावति ॥३४॥माया चतुष्कपर्दाsसौ युवतिर्नित्यनूतना ॥सुपेशाश्च घृतास्याssदौ वस्तेsस्य वयुनान्यपि ॥३५॥भक्ति: श्रद्धा धृतिहीश्रीधीमेधाद्यैश्च सत्सु या ॥तृष्णाsलक्ष्म्यार्तिभीनिद्रातन्द्रारूपैरसत्सु च ॥३६॥क्षणे क्षणे विमुह्यन्ति वशिनोsप्यत्र योगिन: ॥सैषाsनिर्वचनीयार्च्या या ह्मनादिरजा श्रुता ॥३७॥विष्णोर्हास्यमसौ माया तदाधारा जडाsधमा ॥प्रध्वंसोsस्या अनदेश्च विष्णो: पदविलोचनात् ॥३८॥देवानां परमो विष्णुरवमोsग्निरिति श्रुते: ॥अयं विष्णुरजोsनादिरनन्तो विश्वकारण: ॥३९॥सूरयस्तत्पदं श्रेष्ठं सदा पश्यन्ति नेतरे ॥वीर्याणि तस्य कोsप्यत्र न वेदोरुक्रमस्य च ॥४०॥प्रागुत्पाद्य विधिं नाभेर्वेदान्दत्त्वा ततो जगत् ॥उत्पादयत्यसावेव बुद्धिदीपो मुमुक्षुराट् ॥४१॥भीत्याप्यधिकृत अस्मा उद्वहन्ति बलिं सुरा: ॥माययाश्नन्त्यन्यदत्तं सम्राज इव भूमिपा: ॥४२॥यस्य भ्रूभङ्गमात्रेण त्रिलोकी नश्यति क्षणात् ॥इच्छामात्रे पुनर्जाते सेश्वरोत्पद्यते च सा ॥४३॥य आत्मभूततच्छत्रु: स क्रूरो यात्यधोगतिम् ॥दुरत्ययामपि घ्नन्ति मायां यद्रूपचिन्तका: ॥४४॥अर्वाचीना: सुरा: केsपि न विदुर्यं तदुद्भवा: ॥स सर्वज्ञोsपि चात्मानं कात्रुर्यान्नो वेद वेद वा ॥४५॥यस्यैकपादियं माया त्रिपादस्यामृतं दिवि ॥स देवदेवदेवेश: कथं नार्च्यस्त्रिविक्रम: ॥४६॥इतरेsप्यग्निवाय्विन्द्रमुखान्देवान्वदन्ति हि ॥श्रौतीकुर्वन्ति ते स्वस्वपक्षं सर्वेsपि यत्नत: ॥४७॥विरडादिस्थावरान्ता ईश्वरा बहव: श्रुता: ॥एतेषु कतमोsर्च्योsत्र मोक्षसिद्धिप्रदश्च क: ॥४८॥प्रतिमापट्टयन्त्रेषु जलाग्न्यदिषु वा पुन: ॥एतेषु कथमीशानो देव: सांनिध्यमृच्छति ॥४९॥एह्येहीत्यस्य चाह्वानं गच्छेति च विसर्जनम् ॥प्रतिमादौ स भगवान्कथमयाति गच्छति ॥५०॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां ज्ञानकाण्डे प्रथमाष्टके कर्मेश्वरविप्रतिपत्तिर्नाम चतुर्थोsध्याय: ॥४॥इति श्रीदत्तपुराणे कर्मेश्वरविप्रतिपत्तिर्नाम प्रथमाष्टके चतुर्थोsध्याय: ॥१।४॥ N/A References : N/A Last Updated : May 06, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP