संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| प्रथमाष्टक| षष्ठोsध्याय: प्रथमाष्टक प्रथमोsध्याय: द्वितोयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: प्रथमाष्टक -अष्टमोsध्याय: प्रथमाष्टक - षष्ठोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथ शाण्डिल्याथर्वसंवादो नाम प्रथमाष्टके षष्ठोsध्याय: Translation - भाषांतर ॐ इन्द्रोsमदाय गुर्वीशवेदान्तभजने स्थित: ॥स्वर्गेsद्यापीतरेषां तु कथा का दभ्रवेदिनां ॥१॥आजीवितं त्रय: सेव्या वेदान्तो गुरुरीश्वर: ॥पूर्वं ज्ञानाप्तये पश्चात्कृतघ्नत्वनिवृत्तये ॥२॥महानुशासनं चेत्थं मनस्यानीय तत्त्रयम ॥सिध्द्येदनेनेति मत्वा सन्माहात्म्यं यतिर्जगौ ॥३॥सृष्ट्वेदं माययास्यान्तर्बहि:स्थोsभवदत्रिज: ॥गूढ: साक्षी ज्ञानगम्य: सोsव्यात्सचित्सुखात्मक: ॥४॥लीलात्मना योsत्रिगृहेsवतीर्णो दत्ताख्य उन्मत्तपिशाचवद्य: ॥बालो युवा क्कापि जरन् जटाभृत्क्कचिदृषिर्व्यक्तपरीक्षितश्च ॥५॥त्यागी सुभोगी क्वचिदस्ति सङ्गी योगी सुवासा: क्वचिदस्ति नग्न: ॥तुष्ट: कृश: पुष्ट इह क्वचिद्योदण्डी च भिक्षु: क्वचिदस्ति वर्णी ॥६॥गृही वनी वर्णविरुद्धचेष्ट: क्वचिच्च वर्णाश्रमधर्मयुक्त: ॥इत्यादयो यस्य विचित्र वेष्टा देवर्षिहृद्वागयनं व्यतीता: ॥७॥यो भक्तरक्षाक्षण एव यस्य वै सेवा स्मृतिर्भोज्यनिवेदनं धिया ॥पूजाफलं योsर्प्यतीह दुर्लभं भक्तस्मृतौ सन्निधिकृत्क्षणे क्षणे ॥८॥यस्यास्ति माहुरे निद्रा निवास: सह्यपर्वते ॥भागीरथ्यां सदा स्नानं ध्यानं गन्धर्वपत्तने ॥९॥कुरुक्षेत्र चाचमनं धूतपापेश्वरे तथा ॥विभूतिधारणं संध्या करहाटे श्रिय: पुरे ॥१०॥भिक्षा विठ्ठलपुर्यस्य सुगन्धिद्रव्यधरणम् ॥भुक्ति: सारपुरे सायंसंध्या पश्चिमसागरे ॥११॥स एष भगवान्दत्त: सदा वसतु मे हृदि ॥हृद्धीन्द्रियादिव्यापारे सदा तत्स्मृतिरस्तु मे ॥१२॥विजय तेsज यते जयते यतेरिह तमो हतमोहतमो नम: ॥हृदि कदाय पदाय सदा यदा तदुदयो नदयो न वियोनय: ॥१३॥उदयतेsनयतेर्न यतेर्यदामनसि कामनिकामगतिस्तदा ॥पदुदयो हृदयोकसि ते सितेभवति योवति योगिवराsवरान् ॥१४॥भवति भावभवोवभवो यदाभवति कामनिकामहतिस्तदा ॥भवति मानवमानवदुत्तमेभवतिरोधिरतो विरतोत्तमे ॥१५॥तव सतां वसतां मनसाsनसा प्रपदयो: पदयो रजसाञ्जसा ॥सुसहित: स हितस्तव तावता यदवतारवता जनतावता ॥१६॥कृतफलं तु विहाय विहायसा समभजं भजतामज तामसात् ॥मिलति तारकमत्र कमत्रसत्पदरजो भ्रमहारि महारिसत् ॥१७॥तदजरामत कोशविलक्षणं सहज धीगुणवेत्तृ कलक्षणम् ॥भुवनहेत्वघहृत्त्रिपुराधिकं तव न जातु पदं कुपुराधिकम् ॥१८॥विविधभेदपरं सम दृश्यते विविधवेदपरं कमदृश्य ते ॥पदमिदं सदु चिद्धनमुद्धियाsसदनिदं प्रजहात्यघनुद्धि या ॥१९॥अज नमोsजनमोहनमोह न: प्रिय नियोजन तेन यतेन ते ॥य इह वेदनिवेदनि वेद वेत्त्यजपदं जपदन्तपदं पदम् ॥२०॥एवं स्तुत्वा निजप्रज्ञापरिणामावधीश्वरम् ॥माहात्म्यं वक्तुमाजह्वे श्रीदत्तस्य तदीरित: ॥२१॥अथ शाण्डिल्यनामासीद्ब्रह्मर्पिर्वै महामुनि: ॥वेदवेदाङ्गशास्त्रज्ञ स्वाश्रमोचितकर्मकृत् ॥२२॥भक्त्या परमयोपास्तश्रीदत्तपदयङ्कूज: ॥सज्ञानगर्भवैराग्योपरत्याढ्योsपि दैवत: ॥२३॥विद्यामलभमानोsसौ चतुर्वेदेषु तर्कत: ॥भूत्वा भिन्नमति: स्मृत्वा गुरुद्वारा श्रुतीरिताम् ॥२४॥विद्याप्राप्तिमथर्वाणमुपसन्नो महामतिम् ॥सोsभिवाद्याह भगवन्ब्रह्मविधामधीहि मे ॥२५॥वरं निगूढां सत्सेव्या श्रेयोsवाप्स्याम्यहं यया ॥शास्ति स्निग्धं विनीतं हि श्रीगुरुर्गुह्यमप्युत ॥२६॥इति शिष्येण सोsथर्वा संपुष्ट: प्राह सोम्य ताम् ॥श्रद्धाभक्तिध्यानयोगादवेहि त्यागपूर्वकम् ॥२७॥त्रिकालं बाधराहित्यं जगद्धाधैकसाक्षिकम् ॥सत्यत्वमस्य विज्ञेयं ब्रह्मणोsविक्रियस्य हि ॥२८॥विदिताविदितान्यत्वं त्रिपुटीपरिवर्जितम् ॥स्वयंप्रकाशरूपं तज्ज्ञानलक्ष्मास्य केवलम् ॥२९॥देशत: कालवस्तुभ्यां परिच्छेदो यतोsस्य नो ॥विभोरेकस्य चानन्तलक्ष्म सर्वात्मकस्य च ॥३०॥सत्यं ज्ञानमनन्तं चेत्युक्तं तद्ब्रह्मलक्षणम् ॥इदमेकं चाद्वितीयं यत्सदा भेदवर्जितम् ॥३१॥तच्छब्दलक्ष्येsस्मिन्नोतं प्रोतं चैतत्तादाश्रयम् ॥यस्मिञ्ज्ञाते सर्वमिदं विज्ञातं भवति ध्रुवम् ॥३२॥अस्याभिन्ननिमित्तोपादानत्वं चैक्यसिद्धये ॥प्रकृत्यधिष्ठात्रैक्यं च प्रतिज्ञातमनेन हि ॥३३॥अन्यथा सर्वविज्ञानमेकविज्ञानत: कथम् ॥सूत्रे प्रतिज्ञादृष्टान्तानुपरोधादितीरितम् ॥३४॥सच्चिदानन्दैकरसं परं ब्रह्मामृतं तु तत् ॥आत्मशक्तिप्रधान: सन्सर्वज्ञो निखिलेश्वर: ॥३५॥देव: सर्वान्तरात्मैको भूतावासो निगूढक: ॥योगैकगम्यो यो विश्वं सृजत्यवति हन्ति च ॥३६॥अन्तर्यामी च मायावी स तु तच्छाब्दवाचक: ॥योsस्मत्प्रत्ययशब्दाभ्यालम्ब: कामादिदूषक: ॥३७॥तव्द्योमवत्सर्वगतमद्वितीयं निरञ्जनम् ॥सन्मात्रं निष्कलं शान्तमप्रमेयमजं शिवम् ॥३८॥अयं त्वंपदवाच्योsन्त:करणच्छिन्नबोधक: ॥देहेन्द्रियमन:प्राणाहंकारेभ्यो विलक्षण: ॥३९॥साक्षी विशुद्ध: कूटस्थ: प्रत्यक्त्वंपदलक्ष्यक: ॥धीदीपो निर्विकारो धीवृत्तिव्याप्योsपि केवल: ॥४०॥प्रत्यक्परोक्षादिवैरं तयोर्हित्वा चिदात्मताम् ॥गृहीत्वा लक्षितां शुद्धां भूमैक्यज्ञानतो भवेत् ॥४१॥वाग्धीनिवृत्त्यानाप्त्या च फलव्याप्तिर्निवारिता ॥एवमात्मस्थमात्मानं योगेन श्रवणादिना ॥४२॥जानात्यैक्यं स मुक्त: सन्कृतकृत्यो भवेद्ध्रुवम् ॥आत्मविज्ञानेन सोम्य शोकस्यान्तं गमिष्यसि ॥४३॥इदं श्रद्धत्स्व माशोची: शोकस्यान्तं गमिष्यसि ॥अत्र योगं प्रवक्ष्यामि येनात्माssशु प्रसीदति ॥४४॥योग: स्यात्प्रत्यगात्मैक्यमष्टावङ्गानि तस्य तु ॥देहेन्द्रियादौ विरक्तिर्यमो मिथ्यात्ववीक्षणात् ॥४५॥स्वात्मतत्त्वेsनुरक्तिर्नियम: सत्यत्वनिश्चयात् ॥बाह्याथादौंसीन्यतोsन्तर्दृष्टिस्थापनमासनम् ॥४६॥पूरश्चिदन्वयादानं कुम्भकस्तत्स्थिरीकृति: ॥रेचको मायिकत्याग: प्राणायामस्त्रिधोदित: ॥४७॥प्रत्याहारो गोस्वभावदृष्ट्यार्थासक्त्यभावदृक् ॥धारणा स्वात्मनिष्ठा स्याद्वीतदुर्भावनं दृढा ॥४८॥ध्यानं ब्रह्माहमस्मीति दृक्प्रवाहोsन्यवर्जनात् ॥देहात्मवत्परात्मत्वदृक् समाधिर्हि सुस्थिरा ॥४९॥परिपक्वकषायाणां योगोsयं शीघ्रमुक्तिद: ॥किंचित्पक्वकषायाणां योगोsयं शीघ्रमुक्तिद: ॥५०॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां प्रथमाष्टके ज्ञानकाण्डे शाण्डिल्याथर्वसंवादे सम्यगात्मयाथात्म्यो नाम षष्ठोsध्याय: ॥६॥श्रीदत्त:॥इति श्रीदत्तपुराणे सम्यगात्मयाथात्म्यो नाम प्रथमाष्टके षष्ठोsध्याय: ॥१।६॥ N/A References : N/A Last Updated : May 06, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP