संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| प्रथमाष्टक| पञ्चमोsध्याय: प्रथमाष्टक प्रथमोsध्याय: द्वितोयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: प्रथमाष्टक -अष्टमोsध्याय: पञ्चमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथेश्वरोपासनाक्य: प्रथमाष्टके पञ्चमोsध्याय: Translation - भाषांतर प्रमन्महेsनुगह्णातु भवानित्यर्थित: प्रभु: ॥प्रत्युवाचाप्यशेषज्ञ आत्मतत्त्वप्रसिद्धये ॥१॥यथा कालत्रये नास्ति गुणे सर्पस्तथाप्यहे: ॥गुण एवास्त्यधिष्ठानं तथाsहं जगत: खलु ॥२॥रूपं रूपं बभूवायं प्रतिरूप: स्वमायया ॥उपमासूर्यकेत्यादि यं सूत्रकृदवर्णयत् ॥३॥एकं सद्विप्रा बहुधा वदन्तीति श्रुति: पुन: ॥इन्द्रो मायाभि: पुरुरूपश्चेति प्राह सोsस्म्यहम् ॥४॥सृष्ट्वोर्णनाभिवदिदं तदनुप्रविशाम्यहम् ॥स एव मायया भ्रान्तो जीव: संसरतीह हि ॥५॥तत्संसारार्तिनाशार्थं धर्मसेतून्बिभर्म्यहम् ॥भूतेश्वरोsव्ययात्मापि निर्मलोsजोपि सन्नहम् ॥६॥धर्मग्लान्योदितेsधर्मे तन्निवृत्त्यै सतामपि ॥गुप्त्यै स्वप्रकृतिं स्थित्वा संभवाम्यात्ममायया ॥७॥विरजो विशदोsशोको विशुद्ध: सर्वकारण: ॥अव्यक्तोsहमचिन्त्योsहमनन्तोsहं शिवोsमल: ॥८॥आदिमध्यान्तहीनोsहं विभु: साक्षी तम:पर: ॥परमात्माहमेवेयं माया ब्रह्मादयोsमरा: ॥९॥भूतं भव्यं भवच्चापि मत्तोsन्यन्नेह किंचन ॥पूज्योsस्म्युत्तमदेहस्थ: पूजकोsधमदेहग: ॥१०॥कार्यकारणताप्प्ज्यपूजकत्वादि मायया ॥मयीदं तात्त्विकं नैव केवलानुभवात्मनि ॥११॥निर्मलोsजोsप्यसङ्गोsयं मायया परिमोहित: ॥स्वयंप्रकाशो भूमाsपि देहाद्यास्थाय तन्मय: ॥१२॥स्वात्मन्यनात्मधर्मान्स्वज्ञानावृत्त्या वहत्यत: ॥कर्तृत्वादि बिभर्तीच्छत्यत्र भोगान्परत्र च ॥१३॥जागरे परितृप्तोsयं स्वप्नं तद्वासनार्दित: ॥स्वापे तमोsभिभूतश्च प्रलये वासनामय: ॥१४॥कदाचिद्दैवयोगेन व्यतिरिक्तं पुरत्रयात् ॥अखण्डं सच्चिदानन्दमात्मानं तमस: परम् ॥१५॥अहंकारादिदेहान्तसाक्षिणं संस्मरत्ययम् ॥परित्यक्ताखिलानथों भूमा स्वस्थो भवेत्तत: ॥!६॥एवं मायावशादेतौ बन्धमोक्षावतात्त्विकौ ॥बन्धोsपि कल्पितो बद्धदशायां भाति सत्यवत् ॥१७॥विज्ञानेनैव तन्नाशश्चित्तस्थैर्याच्च तद्भवेत् ॥तदप्युपासनायोगात्सोsपि सत्कर्मभिर्भवेत् ॥१८॥कर्मावश्यकमत्रैव ग्राह्यं काम्यादि नैव च ॥पुन: पातश्रुतेश्चित्तशुद्धयभावाच्च नेतरत् ॥१९॥होमावुभौ पार्वणेष्टी पञ्चयज्ञा यथाविधि ॥चातुर्मास्यं चाग्रयणं दैव पित्र्यं च कर्म यत् ॥२०॥पोष्याणां पोषणं जातेष्ट्यादि नैमित्तकं तथा ॥स्नानसंध्यावन्दनाढ्य आचरेत् गृहवान्द्विज: ॥२१॥स्वव्रताचरणागन्तुसाधनं च वनी पुन: ॥वर्णी तु गुर्वग्निसेवावेदाभ्यासादिकं स्वकम् ॥२२॥शौचं भिक्षां जपं दण्डी नित्यमेकान्तसेवनम् ॥पातिव्रत्यं चिरण्टी तु भर्तृचित्तानुसारिणी ॥२३॥विधवा पालयेच्छीलं ब्रह्मचर्यं व्यवस्थिता ॥सर्वाश्रमाधिकारस्य ब्राह्मणस्य शमादिकम् ॥२४॥त्र्याश्रमाधिकृतस्योक्तं शौर्यादि क्षत्रियस्य च ॥कृष्यादि द्व्याश्रमविश: कर्मान्यस्य तु सेवनम् ॥२५॥कार्यं वर्णै: स्वकर्मैवं स्ववर्णाश्रमचोदितम् ॥केवलं सत्त्वशुद्धयर्थमीशप्रीत्यै महाव्रतै: ॥२६॥यस्याग्निहोत्रादि लुप्त विधिहीनमथापि वा ॥आसप्तमांस्तस्य लोकन्हिनस्तीतीरितं यत: ॥२७॥कर्मवैगुण्यादिदोषे लोपादौ विधिवच्च तत् ॥प्रायश्चित्तं चरेद्विद्वान्यथावन्नान्यथा शुचि: ॥२८॥प्रायो विनष्टि: संधानं चित्तिर्विध्यपराधके ॥प्रोक्ता विनष्टिसंधानं प्रायश्चित्तिरितीह हि ॥२९॥कर्मप्लवो दृढो यस्तन्मन्यते श्रेय उत्तम: ॥पर्येति स पुनर्मृत्युमित्युक्तिं संस्मरेद्बुध: ॥३०॥अग्निहोत्रादि हृच्छुद्धिद्वारा मुक्त्यै प्रचोदितम् ॥शमादीन्साधयेद्विद्वांस्तदनुष्ठानपूर्वकम् ॥तत: संन्यस्य शमवान्भवेन्नैष्कर्म्यसिद्धिभाक् ॥३२॥उपात्तसाधनो भक्त्या समासादितशुद्धधी: ॥देवो भूत्वा यजेद्देवं प्रत्यग्ज्योतिपरास्थितम् ॥३३॥सकामाय गणेशाद्या: पृथग्दृष्टया च भाविता: ॥ददात्यशाश्वतान्कामान्संसरन्त: क्षुदादिना ॥३४॥अर्चकस्य तपोयोगादर्चनस्यातिशायनात् ॥आभिरूप्याच्च बिम्बानां सान्निध्यं कल्पयन्ति ते ॥३५॥मच्चिदंशयुतास्ते तु फलदा: स्वाधिकारत: ॥त आयान्ति९ परिच्छिन्ना गच्छन्ति च तथा पुन: ॥३६॥गतिस्थित्यासनस्वप्नवर्जितोsहं न तादृश: ॥आत्माsजु: सर्वसंसारधर्मकर्मविवार्जित: ॥३७॥प्रपञ्चोपशम: शान्त: शिवोsद्वैतोsजरोsमर: ॥सर्वं संन्यस्य नि:सङ्गैरुपास्योsहं महार्थद: ॥३८॥विमुखाय क्रिया प्रोक्ताsचरायेश्वरपूजनम् ॥मुमुक्षवे केवलं मदुपास्तिस्तूत्तमोत्तमा ॥३९॥अनुष्ठानप्रकारोsस्या: श्रवणादिविधानत: ॥बाह्योपचारैरन्यस्या: क्रियाया: कारकादिभि: ॥४०॥किंचित्पक्ककषायाणां हठयोगादियोजना ॥तदभावेsपि परया मद्भक्त्या सद्गतिर्नृणाम् ॥४१॥एवं कर्माणि चोपास्ति: संक्षेपेण प्रदर्शिता ॥निर्गुणोपास्तित: सर्वान्कामानप्त्वाsमृतो भवेत् ॥४२॥मय्यासक्तमना नित्ययुक्तो मां य उपास्त इत् ॥श्रद्धावान्सोsपि मामेति पुनरावर्तते न स: ॥४३॥स्थूलाक्षराल्लिपिज्ञानं शिशोरिव परात्मन: ॥गुरूक्तार्चाकल्पनया हृत्स्थैर्याद्बोध उद्भवेत् ॥४४॥सतोम्ब्वाद्येsपि बिम्बस्य प्रतीतिर्न मलान्विते ॥तथात्मनो न मलिने प्रतीति: सा तु निर्मले ॥४५॥अतो मद्भजनात्कामक्रोधाद्यन्तर्मलक्षति: ॥मत्प्रसादात्ततश्चान्तस्तमोनाशस्ततोsमृतम् ॥४६॥प्रतिष्ठां विन्दते योsस्मिन्सोsभयो योन्तरं मयि ॥करोति तस्य भी: पूर्वे देवा अपि भयं ययु: ॥४७॥तस्मात्त्यक्त्वाखिलान्धर्मान्मामेहि शरणं यते ॥मत्प्रसादाद्विशुद्धोsतो मोक्ष्यसे शान्तिमृच्छसि ॥४८॥स्वस्त्यस्तु ते मदुक्तेस्त्वं सारमाधत्स्व शोधितम् ॥मद्भक्तेष्वपि योगोsयं प्रकाश्यो यत्नतस्त्वया ॥४९॥इत्युक्त्वा भगवान्दत्तो लीलया द्राक् तिरोदधे ॥स यति: कृतकृत्योsभूत्तदुक्त्यर्थविलोचनात् ॥५०॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां प्रथमाष्टके ज्ञानकाण्डे कर्मतत्त्वं ईश्वरोपासनं सद्गुरुप्रसादो नाम पञ्चमोsध्याय: ॥५॥इति श्रीदत्तपुराणे ईश्वरोपासनाख्य: प्रथमाष्टके पञ्चमोध्याय: ॥५॥ N/A References : N/A Last Updated : May 06, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP