संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| प्रथमाष्टक| प्रथमोsध्याय: प्रथमाष्टक प्रथमोsध्याय: द्वितोयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: प्रथमाष्टक -अष्टमोsध्याय: प्रथमाष्टक - प्रथमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती वेदपादस्तुति: Translation - भाषांतर अग्निमीळे परं देवं यज्ञस्य त्वां त्र्यधीश्वरम् ॥स्तोमोsयमग्रियोsर्थ्यस्ते हृदिस्पृगस्तु शंतम: ॥१॥अयं देवाय दूराय गिरां स्वाध्याय सात्वताम् ॥स्तोमोsस्त्वनेन विन्देयं तद्विष्णो: परमं पदम् ॥२॥एता या लौकिका: सन्तु हीना वाचोsपि न: प्रिया: ॥बालस्येव पितुस्ते त्वं स नो मृळ महॉंअसि ॥३॥अयं वां नात्मनोस्तत्त्वमधिगम्यास्ति दुर्मना: ॥हृद्रोगं मम सूर्य त्वं हरिमाणं च नाशय ॥४॥प्रमन्महेस्माsन्विद्धीतिस्तोतारस्ते वयं नम: ॥भगवो देव ते स्तोममारे अस्मे च श्रृण्वते ॥५॥इन्द्रो मदाय यातीह सत्वरं सोमिनो यथा ॥स्तोतॄनेहि तथाsस्मॉंस्ते माध्वीर्गावो भवन्तु न: ॥६॥द्वे विरूपेsत्र मायायास्तेsत्र मग्नोsस्मि पीडित: ॥माभित: संतपत्नीह सपत्नीरिव पर्शव: ॥७॥इदं श्रेष्ठमपि प्राप्य जन्म गन्ताध एव तत् ॥कुरु प्रसादं ज्ञात्वैतत्तेनाहं भूरि चाकन ॥८॥प्रवस्तुज्ञानाज्जहाति निष्कामश्चेन्मृतिं त्वहम् ॥न तादृशोsत: कामादि सर्वं रक्षो निबर्हय ॥९॥सुषुमामूर्धिय: स्तोमैरागच्छैते(?) वयं विभो ॥त्वदंशास्त्वं पतिर्नोsसि देवो देवेषु मेधिर: ॥१०॥वसू रूपं रूपमिह प्रतिरूपोsसि नो पृथक् ॥एतानि भूतानि विदुर्ब्राह्मणा ये मनीषिण: ॥११॥तं नु त्वां किं ब्रुवेsल्पज्ञो भगवन्तं क्षमस्व भो: ॥ओषमागहि मां त्वं चेत्सखा सन्नतिमन्यसे ॥१२॥ता वासना घ्नन्ति यथा वृश्चिकस्यारसं विषम् ॥अतो मां पाहि भूयिष्ठां नमउक्तिं विधेम ते ॥१३॥नि होता सीदसि विभो यस्त्वं यष्टुर्गृहे प्रिय ॥तं त्वाह्वये ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते ॥१४॥सेमामविड्ढि प्रभृतिमीशिषे योsव मानिशम् ॥त्वं विश्वेषां यदीशानो ब्रह्मणा वेषि मे हवम् ॥१५॥मन्द: स्वकोsयं दीनोsज्ञ इति विद्वान्भवान्प्रभु: ॥इन्द्र आशाभ्य: परि मां सर्वाभ्यो अभयं करत् ॥१६॥प्र य आरुपितां भ्रान्तिं त्वत्प्रसादाज्जहाति स: ॥विमुच्यते तद्विप्रास्त्वां जागृवांस: समिन्धते ॥१७॥इच्छन्ति देवा अपि ते प्रसादाय नृजन्म तत् ॥विद्वान्नामानि ते दत्त विश्वाभिर्गीर्भिरीमहे ॥१८॥इन्द्र त्वा भजत: सूरेर्दुलभं किं तरामि तत् ॥भक्त्या क्लेशादि ते नावा गम्भीरॉं उदधीरिव ॥१९॥न ता रोद्धुं धिय: शक्ता योगेनापि तत: सदा ॥त्रातारं धीमहीश त्वां धियो यो न: प्रचोदयात् ॥२०॥वैश्वानराय दत्वाsन्नं विधिलब्धं सदैव ते ॥भवामो भजने सक्ता अस्माकं श्रृणुधी हवम् ॥२१॥एवा त्वामिन्द्र विप्रासो जागृवांसो विपन्यव: ॥स्तुवन्त्येभ्यो हि ते कोsपि न ज्यायॉं अस्ति वृत्रहन् ॥२२॥प्रऋभुभ्यो गृणद्भयस्ते मर्त्येभ्योsप्यमृतत्वमित् ॥दत्तं स्मृत्वा तव मनोरथ आयातु पाजसा ॥२३॥इदमु त्यदिषं श्रेयो यज्जग्ध्वा परितृप्यति ॥साधुस्तद्भजनं तेsस्मे इषं स्तोतृभ्य आभर ॥२४॥त्वामग्ने मायिनं मायां जेतारमपराजितम् ॥हित्वा कं शरणं याम: स नो बोधि श्रुधी हवम् ॥२५॥मही महेशोsज्ञानेन भवानवतु मावृतम् ॥यथा वै सूर्यं स्वर्भानुस्तमसाविध्यदासुर: ॥२६॥प्रयुञ्जती यदात्मानं मनीषा मनसा सह ॥तदैव भवतैकान्तं जानता संगमेमहि ॥२७॥ऋतस्य गोपास्त्वं देहि मह्यं शं युञ्जते धिय: ॥भीताय नाधमानाय ऋषये सप्तवध्रये ॥२८॥त्वं हि पाताsसि नो दत्त परिबाधस्व दुष्कृतम् ॥कामादीन्यस्य बीजानि जहि रक्षांसि सुक्रतो ॥२९॥पिबा सोममिति श्रुत्वा यष्टुर्हूतिं शुभं द्रवत् ॥आयासि पुरुरुप त्वमासु गोषूपपृच्यताम् ॥३०॥इन्द्रं वोतान्यं न पृथड् मन्ये मायाभिरिद्भवान् ॥पुरुरूष इतीक्षे त्वममित्रॉं सुषहान्कृधि ॥३१॥यज्ञा यज्ञाधीश सर्व त्वन्मया अपि तेषु न: ॥जपयज्ञो मतस्तेन समु पूष्णा गमेमहि ॥३२॥स्तुषे नराप्यं तुष्ट: सन्नथो यस्या अयोमुखम् ॥मायां जित्वा भवान्तां मे विश्वाहा शर्म यच्छतु ॥३३॥जुषस्व स्तोममीशैते प्रियास: सन्तु सूरय: ॥वयं स्तोमप्रियानेन यच्छा न: शर्म दीर्घश्रुत् ॥३४॥उग्रो जज्ञे मृत्युरयमदुग्धा इव धेनव: ॥धियो मेsनेनेदृगीश न जातो न जनिष्यते ॥३५॥प्रब्रह्मैहीदमाकर्ण्योर्वारुकमिव बन्धनात् ॥मृत्युंजय प्रमादाख्यान्मृत्योर्मुक्षीय माsमृतात् ॥३६॥यदद्य वर्ष्म तेनैव पश्येम शरद: शतम् ॥स्तोत्राय ते हते मृत्यौ जीवेम शरदे: शतम् ॥३७॥प्रत्युत्तमं महेश त्वां मनामह इहागहि ॥मृळा सुक्षत्र मृळय मा नो दु:शंस ईशत ॥३८॥तिस्रो वाचस्तेsत्र वरां क ईशानं न याचिषत् ॥भक्त्या गृणीमस्त्वां स्त्रोत्रैस्तेभिर्नस्तूयमागहि ॥३९॥दूराद्विहाय सर्वं त्वामृषयो ये च तुष्टुवु: ॥मर्ता अमर्त्यस्य ते तद्भूरि नाम मनामहे ॥४०॥य इन्द्र त्वं यो नमसा स्वध्वरो हीति संस्तुत: ॥इन्द्रो ब्रह्मेन्द्र ऋषिरित्युष ब्रह्माणि न: श्रृणु ॥४१॥वयमु त्वा वरं देवमस्मभ्यं शर्म सप्रथ: ॥मनामहे पृणन्तं तदभित्वामिन्द्र नोनुम: ॥४२॥प्रकृतान्यपि सूक्तानि श्रृण्वन्तं जातवेदसम् ॥त्वां गृणन्ति न के त्वं हि येषामिन्द्रो युवा सुखा ॥४३॥त्वावत: पाहि नो मर्त्यान्यत इन्द्र भयामहे ॥आदिश्य पदभक्तिं ते ततो नो अभयं कृधि ॥४४॥आ त्वा रथं न तुरगै: स्तोत्रैस्त्वा वर्तयामसि ॥स त्वं न इन्द्र मृळय यस्य ते स्वादु सख्यमित् ॥४५॥आ प्रबोधं भवोsबोध: स्वप्नवद्दु:खदोsशुचि: ॥पतितान्दु:खितान्नॄन्न: पाह८इ त्वं श्रृणुधी गिर: ॥४६॥इन्द्राय साम ते गातुं न क्षमो नाम ते गृणे ॥बण्महॉंsअसि सूर्य त्वं सत्रादेव महॉंsअसि ॥४७॥सोम: पुनानोंतारामो मया त्वं नाधिलक्षित: ॥ईक्षे तुच्छान्बहिर्भोगान्योषा जारमिव प्रियम् ॥४८॥प्रण इन्दोरपि स्मेरं रूपं ते दर्शयामलम् ॥नॄन्स्तोतॄन्याह्यहंसो नो जै रक्षांसि सुक्रतो ॥४९॥हि न्वन्ति द्वैतमस्त्यस्माद्भयं विन्दति मामिह ॥यदन्ति दूरके यच्च पवमान वि तज्जहि ॥५०॥धर्ता कारकशक्तीनां सर्वेषां त्वभिहैक इत् ॥यशोsत्रेदं पवित्रं ते विततं ब्रह्मणस्पते ॥५१॥असर्जि भवता विश्वमनित्यमवशं बृहत् ॥त्वं संस्मर ज्ञ शरण वत्सं जातं न धेनव: ॥५२॥पुरोजितीश भो भूमन्तत्र माममृतं कृधि ॥यत्रानन्दाश्च मोदाश्च मुद: प्रमुद आसते ॥५३॥अयं स इति विद्वान्त्सन्यमाय घृतवद्धवि: ॥कुतो जुहोम्यतोsदेवा यमाय जुहुता हवि: ॥५४॥निवर्तध्वमितो देवा भद्रं नो अपि वातय ॥मनो हरे मां पाह्यार्तं पिता पुत्रमिव प्रियम् ॥५५॥प्रमा प्रमाता प्रमेयं त्रिपुटीह न विद्यते ॥रूपं तेsविकृतं सत्वं मधुमन्मे परायणम् ॥५६॥प्रहोतारोsत्रैव मनोन्वाहुवामह इत्यत: ॥गमादि मनसो नास्य यो यज्ञस्य प्रसाधन: ॥५७॥ये यज्ञेनार्चन्त्यनेन सर्वे नन्दन्ति ते त्वया ॥नान्येsतस्त्वत्प्रिया एव विरूपासो दिवस्परि ॥५८॥देवानां नु वशे योsस्य सुमङ्गलीरियं वधू: ॥स्नेहेषु त्वच्च्युतो भोगी पतिर्बन्धेषु बध्यते ॥५९॥विहितं सर्वमित्ते त्वमतो ज्यायांश्च पूरुष: ॥पादोsस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥६०॥हये जाये इति वदन्या सालावृकहृत्समा ॥तन्मयो न स वेदामुमात्मानं तव पूरुष ॥६१॥उभा उपाधितोsत्रैक: पाकेन मनसान्तित: ॥त्वां यदीक्षेत तं माता रेहिळ् स औ रेहिळ मातरम् ॥६२॥तदिदात्मन्हृदि वपु: पश्यन्तस्ते मनीषया ॥मुनयो वातरशना: पिशङ्गा वसतेsमला: ॥६३॥त्यं चिन्मयं बुधा रूपं संजानाना उपासते ॥यो अस्य पारे रजस: स न: पर्षदति द्विष: ॥६४॥इषे त्वोर्जे चौदनेन नित्यहोमेsपि गव्यत: ॥यजन्त्यहं त्वकामस्त्वां श्रेष्ठतमाय कर्मणे ॥६५॥अग्न आयाहीति गातुं त्वाsक्षम: स्तौमि केवलम् ॥निषीद मे हृदि यथा निहोता सत्सि बर्हिषि ॥६६॥शं नो देवी: प्रसादात्ते सन्तु धीवृत्तयोsनिशम् ॥आत्मप्रवाहा: स्वारस्याच्छंयोरभिस्रवन्तु न: ॥६७॥ज्ञातेsस्मिन्पाशमुक्ति: सकलविदिति तत्स्यादनिर्देश्यमेकंसूक्ष्मं चातीन्द्रियं सत्तदयमिति गिरा शाब्दनिर्देश्यमेव ॥वाक्यैस्तत्त्वंविरोधेsपि सति सुमतिभि: सोsयमित्यादिवत्तद् -भागत्यागेन लक्ष्यं वरगुरुकृपया लभ्यमैक्यं हि तज्ज्ञै: ॥६८॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसहस्त्र्यां त्रिकाण्डमण्डितायां संहितांयां वासुदेव्यां प्रथमाष्टके ज्ञानकाण्डे वेदपादस्तुतिर्नाम प्रथमोsध्याय: ॥१॥इति श्रीदत्तपुराणे वेदपादस्तुत्याख्य: प्रथमाष्टके प्रथमोsध्याय: ॥१।१॥ N/A References : N/A Last Updated : May 06, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP