संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|प्रथम पटल| लयप्रकरण ५ प्रथम पटल लयप्रकरण १ लयप्रकरण २ लयप्रकरण ३ लयप्रकरण ४ लयप्रकरण ५ प्रथम पटल - लयप्रकरण ५ महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत लयप्रकरण ५ Translation - भाषांतर शब्द: स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।एतत्पंचगुणा पृथ्वी कल्पकै: कल्प्यतेsधुना ॥८१॥चक्षुषा गृह्यते रूपं गन्धो घ्राणेन गृह्यते ॥८२॥रसो रसनया स्पर्शस्त्वचा संगृह्यते परम् ।श्रोत्रेण गृह्यते शब्दो नियतं भाति नान्यथा ॥८३॥चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम् ।अस्ति चेत्कल्पनेयं स्यान्नास्ति चेदस्ति चिन्मयम् ॥८४॥पृथ्वी शीर्णा जले मग्ना जलं मग्नं च तेजसि ।लीनं वायौ तथा तेजो व्योम्नि वातो लयं ययौ ।अविद्यायां महाकाशो लीयते परमे पदे ॥८५॥विक्षेपावरणाशक्तिर्दुरन्ता दु:खरुपिणी ।जडरुपा महामाया रज:सत्त्वतमोगुणा ॥८६॥सा मायावरणाशक्त्यावृता विज्ञानरूपिणी ।दर्शयेज्जगदाकारं तं विक्षेपस्वभावत: ॥८७॥तमोगुणात्मिका विद्या या सा दुर्गा भवेत्स्वयम् ।ईश्वरं तदुपहितं चैतन्यं तद्भूद्ध्रुवम् ॥८८॥सत्त्वाधिका च या विद्या लक्ष्मौ: स्याद्दिव्यरूपिणी ।चैतन्यं तदुपहितं विषुर्भवति नान्यथा ॥८९॥रजोगुणाधिका विद्या ज्ञेया सा वै सरस्वती ।कश्चित्स्वरूपो भवति ब्रह्मा तदुपधारक: ॥९०॥ईशाद्या: सकला देवा दृश्यन्ते परमात्मनि ।शरीरादिजडं सर्व सा विद्या तत्तथा तथा ॥९१॥ एवंरूपेण कल्पन्ते कल्पका विश्वसंभवम् ।तत्त्वातत्त्वं भवंतीह कल्पनान्येन मोदिता ॥९२॥प्रमेयत्वादिरूपेण सर्व वस्तु प्रकाश्यते ।तथैव वस्तु नास्त्येव भासको वर्तक: पर: ॥९३॥स्वरूपत्वेन रूपेण स्वरूपं वस्तु भाष्यते ।विशेषशब्दोपादाने भेदो भवति नान्यथा ॥९४॥एक: सत्तापूरितानन्दरूप: पूर्णो व्यापी वर्तते नास्ति किंचित् ।एतज्ज्ञानं य: करोत्येव नित्यं मुक्त: सस्यान्मृत्युसंसारदु:खात् ॥९५॥यस्यारोपापवादभ्यां यत्र सर्वे लयं गता: ।स एको वर्तते नान्यत् तच्चित्तेनावधार्यते ॥९६॥पितुरन्नमयात्कोषाज्जायते पूर्वकर्मण: ।शरीरं वै जडं दु:खं स्वप्रग्भोगाय सुन्दरम् ॥९७॥मांसास्थिस्नायुमज्जदिनिर्मितं भोगमन्दिरम् ।केवलं दु:खभोगाय नाडीसंततिगुम्फ़ितम् ॥९८॥पारमेष्ठ्यमिदं गात्रं पंचभूतविनिर्मितम् ।ब्रह्माण्डसंज्ञकं दु:खसुखभोगाय कल्पितम् ॥९९॥बिन्दु: शिवो रज: शक्तिरुभयोर्मिलनात् स्वयम् ।स्वप्नभूतानि जायन्ते स्वशक्त्या जडारूपया ॥१००॥तत्पंचीकरणात्स्थूलान्यसंख्यानि चराचरम् ॥१०१॥ब्रह्माण्डस्थानि वस्तूनि यत्र जीवोsस्ति कर्मभि: ।तद्भूतपंचकात्सर्व भोगाय जीवसंज्ञिता ॥१०२॥पूर्वकर्मानुरोधेन करोमि घटनामहम् ।अजड: सर्वभूतान्वै जडस्थित्या भुनक्ति तान् ॥१०३॥जडात्स्वकर्मभिर्बद्धो जीवाख्यो विविधो भवेत् ।भोगायोत्पद्यते कर्म ब्रह्माण्डाख्ये पुन: पुन: ।जीवश्च लीयते भोगावसाने च स्वकर्मण: ॥१०४॥॥ इति श्रीशिवसंहितायां हरगौरीसंवादे लयप्रकरणे प्रथम पटल: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP