संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|प्रथम पटल| लयप्रकरण २ प्रथम पटल लयप्रकरण १ लयप्रकरण २ लयप्रकरण ३ लयप्रकरण ४ लयप्रकरण ५ प्रथम पटल - लयप्रकरण २ महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत लयप्रकरण २ Translation - भाषांतर द्विविध: कर्मकाण्ड: स्यान्निषेधविधिपूर्वक: ।निषिद्धकर्मकरणे पापं भवति निश्चितम् ।विधिना कर्मकरणे पुण्यं भवति निश्चितम् ॥२१॥त्रिविधो विधिकूट: स्यान्नित्यनैमित्यकाम्य्त: ।नित्यsकृते किल्बिषं स्यात्काम्ये नैमित्तिके फ़लम् ॥२२॥द्विविधं तु फ़लं ज्ञेय स्वर्ग नरकमेव च ।स्वर्गे नानाविधं चैव नरके च तथा भवेत् ॥२३॥पुण्यकर्मणि वै स्वर्गो नरकं पापकर्मणि ।कर्मबंधमयी सृष्टिर्नान्यथा भवति ध्रुवम् ॥२४॥जन्तुभिश्चानुभूयन्ते स्वर्गे नानासुखानि च ।नानाविधानि दु:खानि नरके दु:सहानि वै ॥२५॥पापकर्मवशाद्दु:खं पुण्यकर्मवशात्सुखम् ।तस्मात्सुखार्थी विविधं पुण्यं प्रकुरुते ध्रुवम् ॥२६॥पापभोगावसाने तु पुनर्जन्म भवेत्खलु ।पुण्यभोगावसाने तु नान्यथा भवति ध्रुवम् ॥२७॥स्वर्गेsपि दु:खसम्भोग: परस्त्रीदर्शनाद्ध्रुवम् ।ततो दु:खमिदं सर्व भवेन्नास्त्यत्र संशय: ॥२८॥तत्कर्म कल्पकै: प्रोक्तं पुण्यपापमिति द्विधा ।पुण्यपापमयो बन्धो देहिनां भवति क्रमात् ॥२९॥इहामुत्र फ़लद्वेषी सकलं फ़लद्वेषी सकलं कर्म संत्यजेत् ।नित्यनैमित्तिके संग त्यक्त्वा योगे प्रवर्तते ॥३०॥कर्मकाण्डस्य माहात्म्यं ज्ञात्वा योगी त्यजेत्सुधी: ।पुण्यपापद्वयं त्यक्त्वा ज्ञानकाण्डं प्रवर्तते ॥३१॥आत्म वा रे च श्रोतव्यो मंतव्य इति यत् श्रुति: ।सा सेव्या तत्प्रयत्नेन मुक्तिदा हेतुदायिनी ॥३२॥दुरितेषु च पुण्येषु यो धीवृत्तिं प्रचोदयात् ।सोsहं प्रवर्तते मत्तो जगत्सर्व चराचरम् ॥३३॥सर्व च दृश्यते मत्त: सर्व च मयि लीयते ।न तद्भिन्नोsहमस्मिन्नो यद्भिन्नो न तु किंचन ॥३४॥जलपूर्णेष्वसंख्येषु शरावेषु यथा भवेत् ।एकस्य भात्यसंख्यत्वं तद्भेदोsत्र न दृश्यते ॥३५॥उपाधिषु शरावेषु या संख्या वर्तते परा ।सा संख्या भवति यथा रवौ चात्मनि तत्तथा ॥३६॥यथैक: कल्पक: स्वप्ने नानाविश्वतयेष्यते ।जागरेsपि तथाप्येकस्तथैव बहुधा जगत् ॥३७॥सर्प बुद्धिर्यथा रज्जौ शुक्तौ वा रजतभ्रम: ।तद्वदेवभिदं विश्वं विवृतं परमात्मनि ॥३८॥रज्जुज्ञानद्यथा सर्पो मिथ्यारूपो निवर्तते ।आत्मज्ञानात्तथा याति मिथ्याभूत मिदं जगत् ॥३९॥रौप्यभ्रांतिरियं यांति शुक्तिज्ञानाद् यथा खलु ।जगद्भ्रांतिरियं यांति चात्मज्ञानाद्यथा तथा ॥४०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP