संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|प्रथम पटल| लयप्रकरण १ प्रथम पटल लयप्रकरण १ लयप्रकरण २ लयप्रकरण ३ लयप्रकरण ४ लयप्रकरण ५ प्रथम पटल - लयप्रकरण १ महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत लयप्रकरण १ Translation - भाषांतर एकं ज्ञानं नित्यमाद्यन्तशून्यं नान्यत् किंचिद्वर्तते वस्तु सत्यम् ।यद्भेदोस्मिन्द्रियोपाधिना वै ज्ञानस्यायं भासते नान्यथैव ॥१॥अथ भक्तानुरक्तोsहं वक्ष्ये योगानुशासनम् ।ईश्वर: सर्वभूतानामात्ममुक्ति:प्रदायक: ॥२॥त्यक्त्वा विवादशीलानां मतं दुर्ज्ञानहेतुकम् ॥३॥सत्यं केचित् प्रशंसन्ति तप: शौच तथापरे ।क्षमां केचित् प्रशंसन्ति तथैव सममार्ज्जवम् ॥४॥केचिद्दानं प्रशंसन्ती पितृकर्म तथापरे ।केचित् कर्म प्रशंसन्ति केचित् वैराग्यमुत्तमम् ॥५॥केचिद् गृहस्थकर्माणि प्रशंसन्ति विचक्षणा: ।अग्निहोत्रादिक कर्म तथा केचित्परं विदु: ॥६॥मंत्रयोगं प्रशंसन्ति केचित्तेर्थानुसेवनम् ।एवं बहूनुपायांन्तु प्रवदन्ति विमुक्तये ॥७॥एवं व्यवसिता लोके कृत्याकृत्यविदो जना: ।व्यामोहमेव गच्छन्ति विमुक्ता: पापकर्मभि: ॥८॥एतन्मतावलंबी यो लब्ध्वा दुरितपुण्यके ।भ्रमतीत्यवश: सोsत्र जन्ममृत्युपरम्पराम् ॥९॥अन्यैर्मतिमतां श्रेष्ठैर्गुप्तालोकनतप्तरै: ।आत्मानो बहव: प्रोक्ता नित्या: सर्वगतास्तथा ॥१०॥यद्यत्प्रत्यक्षविषयं तदन्यन्नास्ति चक्षते ।कुत: स्वर्गादय: सन्तोत्यन्ये निश्चितमानसा: ॥११॥ज्ञानप्रवाह इत्यन्ये शून्यं केचित्परं विदु: ।द्वावेव तत्त्वं मन्यन्तेsपरे प्रकृतिपुरुषौ ॥१२॥अत्यन्तभिन्नमतय: परमार्थपराङमुखा: ।एवमन्ये तु संचिन्त्य यथामति यथाश्रुतम् ॥१३॥निरेश्वरमिदं प्राहु: सेश्वरं च तथापरे ।वदन्ति विविधैर्भेदै: सयुक्त्या स्थितिकातरा: ॥१४॥एते चान्ये च मुनय: संज्ञाभेदा: पृथग्विधा: ।शास्त्रेषु कथिता ह्येते लोकव्यामोहकारका: ॥१५॥एतद्विवादशीलानां मतं वक्तुं न शक्यते ।भ्रमन्त्यस्मिन् जना: सर्वे मुक्तिमार्गबहिष्कृता: ॥१६॥आलोक्य सर्वशास्त्राणि विचार्य च पुन: पुन: ।इदमेकं सुनिष्पन्नं योगशास्त्रं परं मतम् ॥१७॥यस्मिन् ज्ञाते सर्वमिदं ज्ञातं भवति निश्चितम् ।तस्मिन् परिश्रम: कार्य: किमन्यच्छास्त्र भाषितम् ॥१८॥योगशास्त्रमिदं गोप्यमस्माभि: परिभाषितम् ।सुभक्ताय प्रदातव्यं त्रैलोक्ये च महात्मने ॥१९॥कर्मकाण्डं ज्ञानकाण्डमिति वेदो द्विधा मत: ।भवति द्विविधो भेदो ज्ञानकाण्डास्य कर्मण: ॥२०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP