तृतीयं बाम्हणं - भाष्यं ८

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- यथा पुराकल्पेन वर्णित: पूर्वयजमानोऽतिक्रान्म्तकालिक एतामेवाऽऽख्यायिकारूपाम श्रुतिं द्दष्टवा तेनैव क्रमेण वागादिदेवता: परीक्ष्य ताश्चापोहयासङगपाप्मास्पददोषवत्त्वेनादोषास्पदं मुख्यं प्राणमात्मत्वेनोपगम्य वागाद्याध्यात्मिकपिण्डमात्रपरिच्छिन्नात्माभिमानं हित्वा वैराजपिण्डाभिमानं वागाद्यग्न्याद्यात्मविषयं वर्तमानप्रजापतित्वं शास्त्रप्रकाशितं प्रतिपन्नस्तथैवायं यजमानस्तेनैव विधिना भवति प्रजापतिस्वरूपेणाऽऽत्मना परा चास्य प्रजापतित्वप्रतिपक्षभूत: पाप्मा द्विषन्भ्रातृव्यो भवति ॥

भाष्यं :---  यतोऽद्वेष्टापि भवति कश्चिद्भातृव्यो भरतादितुल्यो यस्त्विन्द्रियविषयासङगजनित: पाप्मा भ्रातृव्यो द्वेष्टा च । पारमार्थिकत्मस्वरूपतिरस्कारणहेतुत्वात । स च पराबवति विशीर्यते लोष्टवत्प्राणपरिष्वङगात । कस्यैतत्फलमित्याह । य एवं वेद । यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते पूर्वयजमानवदित्यर्थ: ॥

भाष्यं :---  यथा पुराकल्पेन वर्णित: पूर्वयजमानोऽतिक्रान्तकालिक एतामेवाऽऽख्यायिकारूपां श्रुतिं द्दष्टवा तेनैव क्रमेण वागादिदेवता: परीक्ष्य ताश्चापोहयासङ्गपाप्मास्पददोषवत्त्वेनादोषास्पदं मुख्यं प्राणमात्मत्वेनोपगम्य वागाद्याध्यात्मिकपिण्डमात्रपरिच्छिन्नात्माभिमानं हित्वा वैराजपिण्डाभिमानं वागाद्यग्न्यात्मविषयं वर्तमानप्रजापतित्वं शास्त्रप्रकाशितं प्रतिपन्नस्तथैवायं यजामानस्तेनैव विधिना भवति प्रजापतिस्वरूपेणाऽऽत्मना परा चास्य प्रजाप्रतित्वप्रतिपक्षभूत: पाप्मा द्विषन्भ्रातृव्यो भवति ॥

भाष्यं :--- यतोऽद्वेष्टापि भवति कश्चिद्भातृव्यो भरतादितुल्यो यस्त्विन्द्रियविषयासङगजनित: पाप्मा भ्रातृव्यो द्वेष्टा च । पारमार्थिकात्मस्वरूपतिरस्करणहेतुत्वात । सच परभवति विशीर्यते लोष्टवत्प्राणपरिष्वङगात । कस्यैतत्फलमित्याह । य एवं वेद । यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते पूर्वयजमानवदित्यर्थ: ॥

श्रुति :---  ते होचु: क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य आङगिरसोऽङगाना हि रस: ॥८॥

भाष्यं :--- फलमुपसंहृअत्याधुनाऽऽख्यायिकारुपमेवाऽऽश्रित्याऽऽह । क अस्माच्च हेतोर्वागादीन्मुक्त्वा मुख्य एव प्राण आत्मत्वेनाऽऽश्रयितव्य इति तदुपपत्तिनिरुफणाय यस्मादयं वागादीनां पिण्डादीनां च साधारण आत्मेत्येतमर्थमाख्यायिकया दर्शयन्त्याह श्रुति: ॥

भाष्यं :--- ते प्रजापतिप्राणा मुख्येन प्राणेन परिप्रापितदेवस्वरूपा होचुरुक्तवन्त: फलावस्था: । किमित्याह । क्व न्विति वितर्के क्व नु कस्मिन्नु सोऽभूत । क: । यो नोऽस्मानित्थमेवमसक्त सञ्जितवान्देवभावमात्मत्वेनोपगमितवान ।
स्मरन्ति हि लोके केनचिदुपकृता उपकारिणम । लोकवदेव स्मरन्तो विचारय माणा: कार्यकरणसंघात आत्मन्येवोपलब्धवन्त: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP