संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|तृतीयं बाम्हणं| भाष्यं १ तृतीयं बाम्हणं भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ तृतीयं बाम्हणं - भाष्यं १ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १ Translation - भाषांतर श्रुति :--- द्वया ह प्राजापत्या देवाश्चासुराश्च । तत: कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुईन्तासुरान्यज्ञ उद्नीथेनात्ययामेति ॥१॥भाष्यं :--- द्वया हेत्याद्यस्य क: संबन्ध: । कर्मणं ज्ञानसहितानां परा गति रुक्ता । मृत्य्वात्मभावोऽस्वमेधगत्युक्त्या । अथेदनीं मृत्य्वात्मभावसाधनभूतयो: कर्मज्ञानयोर्यत उद्भवस्तत्प्रकाशनार्थमुद्रीथब्राम्हाणमारभ्यते ॥भाष्यं :--- ननु मृत्य्वात्मभाव: पूर्वत्र ज्ञानकर्मणो; फलमुक्तम । उद्नीथज्ञानकर्मणोस्तु मृत्यवात्मभावातिक्रमणं फलं वक्ष्यति । अतो भिन्नविषियत्वात्फलस्य न पूर्वकर्मज्ञानोद्भवप्रकाशनार्थमिति चेत । नायं दोष: । अग्न्यादित्यात्मभावत्वादुद्नीथफलस्य । पूर्वत्राप्येतदेव फलमुक्तमेतासां देवतानामेको भवतीति । ननु मृत्युमतिक्रान्त इत्यादि विरुद्धम । न । स्वाभाविकपाप्मासङगविषयत्वादतिक्रमणस्य ॥भाष्यं :--- कोऽसौ स्वाभाविक: पाप्मासङगो मृत्यु: । कुतो वा तस्योद्भव: । केन वा तस्यातिक्रमणम । कथं वेत्येतस्यार्थस्य प्रकाशनायाऽऽख्यायिकाऽऽरभ्यते । कथम । द्वया द्विप्रकारा: । हेति पूर्ववृत्तावद्योतको निपात: । वर्तमानप्रजापते: पूर्वजन्मनि यदवृत्तं तदेव द्योतयति हशब्देन । प्राजापत्या: प्रजापतेर्वृत्तजन्मावस्थस्यापत्यानि प्राजापत्या: । के ते । देवाश्चासुराश्च । तस्यैव प्रजापते: प्राणा वागादय: । कथं पुनस्तेषां देवासुरत्वम ॥भाष्यं :--- उच्यते । शास्त्रजनितज्ञानकर्मभाविता द्योतनाद्देवा भवन्ति । त एव स्वाभाविकप्रत्यक्षानुमानजनितद्दष्टप्रयोजनकर्मज्ञानभाविता असुरा: ॥भाष्यं :--- स्वेष्वेवासुषु रमणात्सुरेभ्यो वा देवेभ्योऽन्यत्वात । यस्माच्च द्दष्टप्रजोजनज्ञनकर्मभाविता असुरा: ।त अतस्तस्मात्कानीयसा: कनीयांस एव कानीयसा: स्वार्थेऽणि वृद्धि: कनीयांसोऽल्पा एव देवा: । ज्यायसा असुरा ज्यायां सोऽसुरा: । स्वभाविकी हि कर्मज्ञानप्रवृत्तिर्महत्तरा प्राणानां शास्त्रजनिताया: कर्मज‘झानप्रवृत्ते: । द्दष्टप्रयोजनत्वात । अत एव कनियस्त्वं देवानां शास्त्रजनितप्रवृत्तेरल्पत्वात । अत्यन्तयत्नसाध्या हि सा ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP