संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|उपमालंकारः| लक्षण १६ उपमालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २३ उपमालंकारः - लक्षण १६ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १६ Translation - भाषांतर यथा वा-‘ ज्योत्स्नाभमञ्जुहसिता सकलकलाकान्तकान्तवदनश्री: । राकेव रम्यरूपा राघवरमणी विराजते नितराम् ॥ ’अत्र सर्वेषामुपमानानां शब्दैरेवाभिधानात्समस्तवस्तुविषया, अड्रो-पमाभिनिष्पाद्यमानत्वाच्च साड्रा भवति ।एकदेशविवर्तिनी सावयवा यथा--‘ मकरप्रतिमैर्महाभटै: कविभी रत्नसमै: समन्वित: ’कविताऽभृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि कारणम् ॥ ’अत्रोत्तरार्धे उपमितसमास एव, विशेषणसमासवेद्यस्य तादात्म्यस्यप्रकृतेऽनुपयोगात् । राज्ञो जलधेरुपमा शब्देनानभिहिताप्यड्रोपमा-भिराक्षिप्ता प्रतीयते, इत्येकदेशविवर्तनादेकदेशविवर्तिनी ।केवलश्लिष्टपरम्परिता यथा-‘ नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रिय: । सुरालये खलु क्षीबा देवा इव विरेजिरे ॥ ’अत्र श्लेषोपस्थापितेन सुमेरुणा मदिरागारस्योपमा क्षीबानां देवोपमाया उपाय इति श्लिष्टपरम्परिता, अन्योन्योपायतारूपस्यैव परम्परितत्वस्येह परिभाषणात् । मालारूपताविरहाच्च केवला ।मालारूपश्लिष्टपरम्परिता यथा-‘ महीभृतां खलु गणे रत्नसानुरिव स्थित: । त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ॥ ’अत्र श्लेषोपस्थापिताभ्यां पर्वतशुक्राभ्यां राजकाव्ययोरुपमे मेरुवृषप-र्वभ्यां राज्ञ उपमयोरुपाय: । नन्वत्र पर्वतानामिव राज्ञां शुक्र इव कवित्वे इत्येवंरूपा उपमा कथं प्रत्येतुं शक्या । उपमानोपमेयशब्दयो: पार्थ-क्याभावादिति चेत्, श्लेषे ह्येकशब्दोपात्तत्वेन रूपेणाभेदाव्यवसानस्येव तेनैव साधर्म्येण सादृश्याध्यवसानस्यापि सुवचत्वात्, तस्यैव च प्रकृते प्रयोज्योपमानुकूलत्वात् ।केवलशुद्धपरम्परिता यथा-‘ राजा युधिष्ठिरो नाम्रा सर्वधर्मसमाश्रय: । द्रुमाणामिव लोकानां मधुमास इवाभवत् ॥’मालारूपशुद्धपरम्परिता यथा--‘ मृगतं हरयन्मध्ये वृक्षतां च पटीरयन् । ऋक्षतां सर्वभूपानां त्वमिन्दवसि भूतले ॥ ’उपमानयो: परस्परमुपमेययोश्चानुकूल्ये उपमयोरेषोपायता निरूपिता । प्रातिकूल्ये उपायता यथा-‘ राजा दुर्योधनो नाम्रा सर्वसत्त्वभयंकर: । दीपानामिव साधूनां झञ्झावात इवाभवत् ॥’अत्रोपमानयोर्दीपझञ्झावातयोरन्योन्यमुपमेययोश्व साधुदुर्योधनयो:प्रातिकूल्येऽप्युपमयो: परस्परमानुकूल्यादुपायतैव । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP