उपमालंकारः - लक्षण ७

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इदं चान्यत्तस्मिन्नेव प्रस्तावे चित्रमीमांसाकृद्भिरभ्यधीयत--

“-‘नृणां यं सेवमानानां संसारो‍ऽष्यपवर्गति । तं जगत्यभजन्मर्त्यश्वञ्चा चन्द्रकलाधरम्‍ ॥ ’
अत्र किप्कनोर्लोपे प्रत्येकं वाचकधर्मलोप उभयत्रापि,” तदरमणीय-

मेव । कनो वाचकस्य लोपेऽपि तं चद्न्रकलाधरमभंजन्निति चन्द्रकला-धरभजनराहित्यरूपस्य धर्मस्य चञ्चामर्त्यसाधारणस्योक्तत्वात्कथं ताव-द्धर्मस्य लोप: । न चोपमेयमर्त्यविशेषणतयोपात्तस्य चन्द्रकलाधरभजन-राहित्यस्य सादृश्योपसर्जने चञ्चायामनन्वयान्न साधारण्यमिति वाच्यम्‍ ।

“-‘ यद्भक्तानां सुखमय: संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्वञ्चैवात्महिताकृते: ॥’

इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति”  इति स्वोक्तेरसंगत त्वापत्ते: । इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽप-वर्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम्‍ । उपमेयगतत्वेनोपमानग-सत्वेन बोपात्तस्य धर्मस्य शाब्द उभयान्वयेऽसत्यापि वस्तुत उभयवृत्ति-त्वज्ञानमेव साधारणताया नियामकमिति चेत्‍, चन्द्रकलाधरभजनराहि-त्ये‍ऽपि दीयतामेवमेव दृष्टि: । यदि चोपमेयतावच्छेदकतयैव चन्द्रकला-धरभजनराहित्यं मम विवक्षितम्‍, साधारणधर्मश्च स्वात्महिताऽकरणरूप:

स चात्र लुप्त एवेति शपथेन स्वाभिप्राय: प्रकाश्यते तदा निवारितो‍ऽवं दोष: । तुष्यतु भवान्‍ ।

इदमप्यन्यतैरेव वाचकोपमेयलुप्तायामुदाहरणं निरमीयत--

‘रूपयौवनलावण्यस्पृहरणीयतराकृति: । पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥’

इदं च पद्यमपशब्ददुष्टमवैयाकरणतां कर्तु: प्रकाशयति । तथा हि पुरत इति नगरवाचिन: पुरशब्दात्तसिलि हरिणाक्षीण नगरादित्यर्थस्यासंगते: । नाहि पूर्ववाचक: पुरशब्द: कापि शूयते । पूर्वशब्दात्तु ‘ पूर्वाधरावराणा-मसिपुरधवश्चैषाम्‍ ’ इत्यसौ पुरादेशे च पुर इति भाव्यम्‍, न तु पुरत इति ।

अत एव ‘ अमुं पुर: पश्यसि देवदारुम्‍ ’ इति प्रायुड्‍क्त महाकवि: । एवमेव “ मुखस्य पुरतश्वन्द्रो निष्प्रभ:-इत्यप्रस्तुतप्रशंसा ”
इति द्वितीयप्रकरणारम्भे‍ऽप्यपशब्दितं तै: । तथा चाहुर्वैयाकरणा :--“-‘ पत्या पुरत: परत: ’ ‘ आत्मीयं चरणं दधाति पुरतो निम्रोन्नतायां भुवि ’, ‘ पुरत: सुदती समागंत माम्‍ ’ इत्यादय: सर्वे‍ऽपि व्याकरणाज्ञानमूला अपशब्दा: ’ इति ।
इयं चैवंभेदोपमा वस्त्वलंकाररसरूपाणां प्रधानव्यड्रयानां वस्त्वलं-कारयोर्वाच्ययोश्वोपस्कारकतया पञ्चधा ।

तत्र व्यड्रयवस्तूपस्कारिका यथा-

‘ अविरतपरोपकरणव्यग्रीभवदमलचेतसां महताम्‍ । आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥ ’
अत्र तादृंशि वचनान्यर्थद्वारा सेवमानस्य मनागप्यक्षुभ्यत: परिमाणे परमं सुखं भवतीति प्राधान्येन व्यड्रयस्य वस्तुन उपस्कारिका भेषजोपमा । वयड्रयालंकारोपस्कारिका यथा-

‘ अड्कायमानमलिके मृगनाभिपड्कं पड्केरुहाक्षि वदनं तव वीक्ष्य बिभ्रत्‍ । उल्लासल्लवितकोमलपक्षमूला-श्वञ्चूपुटं चपलयन्ति चकोरपोता: । ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP