आश्विनमास: - कोजागरव्रताङ्गलक्ष्मीन्द्रपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ कोजागरव्रताङ्गलक्ष्मीन्द्रपूजाविधि: ॥

पौर्णमासी रात्रिव्यापिनी ग्राह्या । तस्यां उपोषणं कृत्वा सायंसन्ध्यावन्दनोत्तरं भूमिं गोमयेनोपलिप्य, रङ्गवल्लीभिरलङकृते पीठोपरि कलशं संस्थाप्य, अभित: यथाशक्ति घृतदीपान वा प्रज्वाल्य, उपरि मण्डपिकां विधाय कलशस्थपूर्णपात्रोपरि अष्टदलं विलिख्य मृन्मयादिप्रतिमायां नारिकेलफलादौ वा ऐरावतस्थितलक्ष्मीं इन्द्रं च आवाह्य पूजां कुर्यात् । आचम्य, देशकालौ स्मृत्वा, मम दीर्घायुरारोग्यपुत्रपौत्रादिसमृद्धिगजाश्वादिराज्यसम्पदाद्यवाप्तिद्वारा श्रीलक्ष्मीन्द्रदेवताप्रीत्यर्थं कोजागरव्रताङ्गभृतं श्रीसूक्तेन पुराणोक्तमन्त्रैश्च यथामिलितषोडशोपचारद्रव्यै: लक्ष्मीन्द्रपूजनं करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजनं आसनविधिं रुलशशङ्खघण्टापूजनं च करिष्ये । गणानां त्वा० गणपतिं सम्पूज्य वक्रतुण्डेति प्रार्थयेत् । आसनविध्यादिसम्भारप्रोक्षणान्तं कृत्वा ऐरावतस्थितलक्ष्मीन्द्रौ ध्यायेत् । चतुर्भुजां महालक्ष्मीं गजपृष्ठगतां शुभाम् । दण्डाक्षसूत्रवरदां तथैवाभयपाणिनीम् ॥ पद्मासनां पद्महस्तां पद्मां पद्मदलैर्युताम् । दिग्गजै: सेव्यमानां च काञ्चनै: कलशोत्तमै: ॥ अभित: सिच्यमानां च श्वेतच्छत्रविराजिताम् । सर्वालङ्कारसंयुक्तां महालक्ष्मीं विचिन्तये ॥ ऐरावतसमारूढं सहस्राक्षं शचीयुतम् । त्रैलोक्याधिपतिं देवं ध्यायामि सुरनायकम् ॥ श्रीलक्ष्मीन्द्राभ्यां नम: लक्ष्मीन्द्रौ ध्यायामि ॥ हिरण्यव० । आवाहयामि देवि त्वामाहूतासुरकिन्नरै: । मदीयभवने देवि भव सन्निहिताधुना ॥ आवाहनं० ॥ तांमआव० । नानारत्नप्रभज्योतिप्रभासितदिगन्तरे । रत्नासनं गृहाणेदं लक्ष्मि दिव्याम्बरान्वितम् ॥ आसनं० ॥ अश्वपूर्वां० । पद्मासनसमासीने पदप्तपत्रायतेक्षणें । गन्धपुष्पाक्षतोपेतं पाद्यार्थं गृह्यतां जलम् ॥ पाद्यं० ॥ कांसोस्मितां० । अनर्ध्यं रन्तविमलैर्हेमकल्पैर्विभूषितै: । अर्ध्यं गन्धादिसंयुक्तं गृहाण हरिवल्लभे ॥ अर्ध्यं० ॥ चंद्रांप्रभा० । आराधितासि देवि त्वं सुरकिन्नरमानवै: । आराधयामि भक्त्या त्वं गृहाणाचमनीयकम् ॥ आचमनीयं० ॥ शर्करा दधिमध्वाज्यै: पूजार्थं चाहृतं मया । मधुपर्कं गृहाणेदं वरदे भक्तवत्सले ॥ मधुपर्कं स० ॥ आचमनीयं० ॥ सरत्नहेमकलशैरानीतै: परमादरात् । पञ्चामृतैरतिप्रीत्या स्नानं कुरु हरिप्रिये ॥ आप्यायप्त्व० ॥ दधिक्रा० ॥ घृतंमिमि० ॥ मधुवाता० ॥ स्वादु: पवस्व० ॥ इति मन्त्रै: पञ्चामृतस्नानं स० ॥ नारिङ्गसहकारादिनानारत्नपदाम्बुभि: । नारिकेलोदकै:  स्नानं मन्दिरे कुरु साम्प्रतम् ॥ नारिकेलोदकस्नानं स० ॥ पञ्चरत्नोदकै: स्वच्छं गङ्गाया: सुमनोहरै: । रत्नाकरस्प तनये कुरु स्नानं हरिप्रिये ॥ रत्नोदकस्नानं स० ॥ सुवर्णवर्णे हेदेवि भक्तदारिद्यृनाशिनि । स्वर्णोदकेन स्नषनं कुरु नारायणि स्वयम् ॥ स्वर्णोदकस्नानं० ॥ आदित्यव० । कर्पूरपाटलोशीरकस्तूर्यादिसुवासितै: । गङ्गोदकै: कुरु स्नानं पुण्डरीकाक्षवल्लभे ॥ कर्पूरादिसुगन्धस्नानं० ॥ तुलसीशतपत्रादिपाटलाचम्पकैरपि । सरोजवासितैर्नीरै: स्नानं पद्मालये कुरु ॥ पुष्पोदकस्नानं० ॥ कनिक्रदज्ज० । अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम् । प्रयत्नेनार्जितम शुद्धं स्नानार्थं प्रतिगृ० ॥ अभ्यङ्गस्नानं स० ॥ हरिद्राया: कृतं चू० अङ्गोद्वर्तनकं स० ॥ नानातीर्थादाहृ० उष्णोदकस्नानं स० । पञ्चोपचारपूजां कृत्वा श्रीसूक्तेन देवीसूक्तने चाभिषेक: ॥ उपैतुमां० । दुकूलवाससी वीते देवगन्धर्वसेविते । पीतवासयुगं मातरिन्दिरे प्रतिगृ० ॥ वस्त्रं० । विमलं वसनं लक्ष्मि कञ्चुकीसहितं शुभे । उपवस्त्रं मयाऽऽनीतं गृहाण परमेश्वरि ॥ कञ्चुकीं स० । रत्नकुण्डलकेयूरकाञ्चीमौक्तिकहारकै: । स्वर्णकङ्कणकेयूरै: पूजयामि मुदाऽऽहृतै: ॥ अलङ्कारान् स० ॥ शुद्धं कार्पासरचितं काञ्चनं सुमनोहरम् । यज्ञोपवीतं वरद दीयमानं गृहाण मे ॥ इन्द्राय नम: यज्ञोपवीतं स० ॥ कण्ठसूत्रं ताडपत्रं हरिद्रां कुङ्कुमाञ्जनम् । सिन्दूरादि प्रदास्यामि सौभाग्यं देहि मेऽव्ययम् ॥ सौभाग्यद्रव्यं० ॥ गन्धद्वारां० ॥ कर्पूरकुङ्कुमयुतमष्टगन्धं मनोहरम् । अङ्गीकुरु जगद्धात्रि देवि सौभाग्यदायिनि ॥ चन्दनं० ॥ मुक्ताफलस्वच्छतरानक्षतान् सुरपूजिते । गृहाण वरदे लक्ष्मि जगन्प्तातर्नमोऽस्तु ते ॥ अक्षतान्० ॥ मनस:काम० ॥ मल्लिकामालतीजातीचम्पकायूथकानि च । माल्यानि गृह्यतां भक्त्या सरोजेन्दिरमन्दिरे ॥ पुष्पाणि स० ॥

॥ अथाङ्गपूजा ॥

१. चञ्चलायै नम: पादौ पूजयामि ।
२. विपुलायै० गुल्फौ पू० ।
३. देव्यै नम: जङ्घे पू० ।
४. चपलायै० जानुनी पू० ।
५. कमलवासिन्यै० कटी पू० ।
६. क्षान्त्यै नम: नार्भि पू० ।
७. लक्ष्म्यै नम: हृदयं पू० ।
८. मदनमात्रे नम: स्तनौ पू० ।
९. ललितायै नम: भुजौ पू० ।
१०. उत्कण्ठिन्यै नम: कण्ठं पू० ।
११. महामायायै० मुखं पू० ।
१२. श्रियै नम:शिर: पूज० ।
१३. श्रीमहालक्ष्म्यै० सर्वाङ्गं पू० ।

कर्दमेन० । गुग्गुलागरुकर्पूरदशाङ्ग: सुमनोहर: । गृह्यतां परया भक्त्या धूपोऽयं गरुडध्वजे ॥ धूपमा० ॥ आप सृ० । मार्तण्डमण्डलाखण्डप्रभाभास्वरविग्रहे । गृहाण दीपं कमले सर्वान् कामान् प्रयच्छ मे ॥ दीपं द० ॥ आर्द्रांपुष्क० । नैवेद्यं षड्रसोपेतं पायसापूपसंयुतम् । दधिदुग्धाज्यसंयुक्तं गृहाण त्वं हरिप्रिये ॥ नैवेद्यं० ॥ मध्येपानीयं० । उत्तरापो० । मुखप्र० । हस्त० । करोद्व० । नारिकेलं च नारिङ्गं कदलीमातुलिङ्गकम् । ऋतुदेशोद्धवं पदमे गृहाण फलमुत्तमम् ॥ फलं स० ॥ पातालतलसम्भूतं वदनाम्भोजभूह्षणम् । पूगीफलादिसंयुक्तं ताम्बूलं प्रतिगृ० ॥ ताम्बूलं० ॥ अनर्ध्यरत्नमाणिक्यमुक्ताफलयुतां बहु । अनेकहेममुद्रां च दक्षिणां स्वीकुरुष्व मे ॥ दक्षिणां स० ॥ हरिन्मणिगणाबद्धदण्डं शशिकरप्रभम् । सुवर्णछत्रं शोभाढयं गृहाण पर० ॥ छत्रं० ॥ सुवर्णवेणुसंयुक्तं चमर्या: केशसंयुतम् ॥ चामरं कल्पितं भक्त्या गृहाण० ॥ चामरं० ॥ नृत्पगीतवाद्यादिराजोपचारान्० ॥ श्रियेजात:० ॥ मङ्गलार्त्तिं करिष्यामि दीपमालाभिरिन्दिरे । विलोकयामि सद्भक्त्या साभ्राज्यपददायिके ॥ आर्तिक्यदीपं स० ॥ आर्द्रांयष्क० । नमस्ते सर्वलोकेशि नमो भक्तजनप्रिये । जनार्दनप्रिये गृह्ण प्रदक्षिणपरिक्रमम् ॥ प्रदक्षिणां० ॥ तांमआव० । नमस्तेऽस्तु महालक्ष्मि नमस्तेऽस्तु हरिप्रिये । नमो भक्तप्रिये नित्यं वरदे कमलालये ॥ नमस्कारान्० ॥ य:शुचि:प्र० । पुष्पाञ्जलिं गृहाणेमं मन्दिरे कमलालये । सम्यक् पूजाफलं देहि गोविन्दगृहिणि स्वयम् ॥ पुष्पाञ्जलिं० ॥ सरसिजनिलये सरोजहस्ते धवलतरांशुभगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्मम् ॥ ऐरावतसमारूढ शचीनाथ सुरेश्वर । त्रैलोक्याधीश मधवन् मह्यं भृतिप्रदो भव ॥ प्रार्थयामि । चन्द्रायार्ध्यदानविधि: । चन्द्रं सम्पूज्य, नीराज्य, अर्ध्यपात्रे गन्धाक्षतोदकफलहिरण्यं निधाय अर्ध्यं दद्यात् । तत्र मन्त्र:-नमस्तेऽस्तु निशानाथ लक्ष्मीभ्रातर्नमोऽस्तु ते । व्रतसम्पूर्णताहेतोर्गृहाणार्ध्यं विधो मम ॥ चन्द्रमसे नम: इदमर्ध्यं समर्पयामि ॥ आवाहनं न० । कृतस्य लक्ष्मीन्द्रपूजासाङ्गतासिध्यर्थं तस्तम्पू० ब्राह्मणान् सुवासिनीश्च भोजयिष्ये । नानानामगोत्रान् ब्राह्मणान् गन्धादिभि: पूजयिष्ये । तेभ्यश्च भूयसीं दक्षिणां दातुमहमुत्सृजे । यस्प स्मृ० । अनेन मया कृतेन पूजनेन श्रीलक्ष्मीन्द्रौ प्रीयेताम् ॥ तत: नारिकेलोदकं प्राश्य, ब्राह्मणान् पय: पाययित्वा, स्वयं च पीत्वा, अक्षै:दीव्यन् रात्रौ निशीथपर्यन्तं जागरणं कुर्यांत् ॥ इति कोजागरव्रताङ्गलक्ष्मीन्द्रपूजाविधि: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP