आश्विनमास: - कूष्माण्डबलिदानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ शुल्कनवम्यां कूष्माण्डबलिदानविधि: ॥

नवम्यां प्रात: देव्या नित्यपूजां विधाय, आचम्य देशकालौ सङ्कीर्त्य, मया कृतस्य शारददुर्गानवरात्रोत्सवकर्मण: साङ्गतासिध्यर्थं तत्सम्पूर्णफलावाप्तये श्रीमहाकालीमहालक्ष्मीमहासरस्वतीश्रीकुलदेवतातृप्त्यर्थं कूष्माण्डबलिप्रदानं करिष्ये । कूष्माण्डं देव्यग्रे निधाय, गन्धपुष्पाक्षतै: सम्पूज्य प्रार्थयेत्-कूष्माण्डो बलिरूपेण मम भाग्यादवस्थित: । प्रणमामि तत: सर्वरूपिणं बलिरूपिणम् ॥१॥
चण्डिकाप्रीतिदानेन दातुरापद्विनाशनम् । चामुण्डाबलिरूपाय बले तुभ्यं नमोऽस्तु ते ॥ यज्ञार्थं बलय: सृष्टा: स्वयमेव स्वयंभुवा । अतस्त्वां घातयाम्यद्य तस्माद्यज्ञे बधोऽवध: ॥ इत्यनेन कूष्माण्डं घातयेत् । पूजामन्त्रमुच्चार्य, जयंतीमं० । श्रीम श्रीकुलदेवतायै साङ्गायै सपरिवारायै सायुधायै सशक्तिकायै इमं कूष्माण्डबलिं समर्पयामि । भोश्रीम०श्रीकुलदेवते इमं बलिं गृहाण मम सकुटुम्बस्य सपरिवारस्य आयुष्कर्त्री शान्तिकर्त्री पुष्टिकर्त्री तुष्टिकर्त्री निर्विघ्नकर्त्री आरोग्यकर्त्री सर्वारिष्टनिरसनकर्त्री वरदा भव । अनेन बलिदानेन श्रीम०श्रीकुलदेवता प्रीयताम् । हस्तौ पादौ प्रक्षाल्य आचम्य, शांतापृथिवी० । इत्यनेन बहिरुदकं सिञ्चेत् ॥

अद्य० महाकाली० प्रीत्यर्थं सप्तशतीपाठकर्त्रे ब्राह्मणाय दक्षिणाप्रदानं करिष्ये । तदङगत्वेन ब्राह्मणपूजनं करिष्ये । गन्धा: पान्यु० । स्वस्त्यस्तु, दीर्ध० । इदं सुवर्णनिष्कयभूतं द्रव्यं सप्तशतीपाठकर्त्रे अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रति०, प्रति० । अनेन दक्षिणाप्रदानाख्येन कर्मणा श्रीमहा०प्रीयताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP