संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य| हंसदूत काव्य आश्चर्यरासप्रबन्धः ऐश्वर्य कादम्बिनी दशावतारचरित्रम् हर्षचरितम् काव्यालंकारः किरातार्जुनीयम् नारायणीय रामचरितमहाकाव्य रावणवध नवसाहसाङ्कचरितम् शिशुपालवधम् शृङ्गारतिलक प्रास्तविकविलासः शान्तविलासः अजामिलमोक्षप्रबन्धः अमरुशतक ऊद्धवसन्देश कलिविडम्बना मुग्धोपदेश राधाकुण्डोत्पत्तिवर्णनम् हंसदूत हंसदूत ऱुप गोस्वमिन्कृत हंसदूत Tags : epicpoemकाव्यमहाकाव्यसंस्कृतहंसदूत हंसदूत Translation - भाषांतर दुकूलं बिभ्राणो दलितहरितालद्युतिभरंजवापुष्पश्रेणीरुचिरुचिरपादाम्बुजतलः ।तमालश्यामाङ्गो दवहसितलीलाञ्चितमुखःपरानन्दाभोगः स्फुरतु हृदि मे को.अपि पुरुषः ॥१॥यदा यातो गोपीहृदयमदनो नन्दसदनान्मुकुन्दो गान्दिन्यास्तनयमनुविन्दन्मधुपुरीं ।तदामान्क्षीच्चिन्तासरिति घनघूर्णापरिचयैर्अगाधायां बाधामयपयसि राधा विरहिणी ॥२॥कदाचित्खेदाग्निं विघटयितुमन्तर्गतमसौसहालीभिर्लेभे तरलितमना यामुनतटीं ।चिरादस्याश्चित्तं परिचितकुटीरकलनाद्अवस्था तस्तार स्फुटमथ सुषुप्तेः प्रियसखी ॥३॥तदा निष्पन्दाङ्गी कलितनलिनीपल्लवकुलैःपरीणाहात्प्रेमनामकुशलशताशङ्किहृदयैः ।दृगम्भोगम्भीरीकृतमिहिरपुत्रीलहरीभिःविलीना धुलीनामुपरि परिवव्रे परिजनैः ॥४॥ततस्तां न्यस्ताङ्गीमुरसि ललितायाः कमलिनीपलाशैः कालिन्दीसलिलशिशिरैर्वीजिततनुं ।परावृतश्वासाङ्कुरचलितकण्ठिं कलयतांसखीसन्दोहानां प्रमदभरशाली ध्वनिरभूत् ॥५॥निधायाङ्के पङ्केरुहदलविटङ्कस्य ललिताततो राधां नीराहरणसरणौ न्यस्तचरणा ।मिलन्तं कालिन्दीपुलिनभुवि खेलाञ्चितगतिंददर्शाग्रे कंचिन्मधुरविरुतं श्वेतगरुतं ॥६॥तदालोकस्तोकोच्छ्वसितहृदया सादरमसौप्रणामं शंसन्ती लघु लघु समासाद्य सविधं ।धृतोत्कण्ठा सद्यो हरिसदसि सन्देशहरणेवरं दूतं मेने तमतिललितं हन्त ललिता ॥७॥अमर्षात्प्रेमेर्ष्यां सपदि दधती कंसमथनेप्रवृत्ता हंसाय स्वमभिलषितं शंसितुमसौ ।न तस्या दोषो.अयं यदिह विहगं प्रार्थितवतीन कस्मिन्विश्रम्भं दिशति हरिभक्तिप्रणयिता ॥८॥पवित्रेषु प्रायो विरचयसि तोयेषु वसतिंप्रमोदं नालीके वहसि विशदात्मा स्वयमसि ।ततो.अहं दुःखार्ता शरणमबला त्वां गतवतीन याच्ञा सत्पक्षे व्रजति हि कदाचिद्विफलतां ॥९॥चिरं विस्मृत्यास्मान्विरहदहनज्वालविकलाःकलावान्सानन्दं वसति मुखरायां मधुरिपुः ।तदेतं सन्देशं स्वमनसि स्वमाधाय निखिलंभवान्क्षिप्रं तस्य शरणपदवीं सङ्गमयतु ॥१०॥निरस्तप्रत्यूहं भवतु भवतो वर्त्मनि शिवंसमुत्तिष्ठ क्षिप्रं मनसि मुदमाधाय सदरं ।अधस्ताद्धावन्तो लघु लघु समुत्ताननयनैर्भवन्तं वीक्षन्तां कुतुकतरला गोपशिशवः ॥११॥स वैदग्धीसिन्धुः कठिनमतिना दानपतिनायया निन्ये तूर्णं पशुपयुवतीजीवनपतिः ।तया गन्तव्या ते निखिलजगदेकप्रथितयापदव्या भव्यानां तिलक किल दाशार्हनगरी ॥१२॥गलद्बाष्पासारप्लुतधवलगण्डा मृगदृशोविदूयन्ते यत्र प्रमदमदनावेशविवशाः ।त्वया विज्ञातव्या हरिचरणसङ्गप्रणयिनोध्रुवं सा चक्राङ्कीरतिसख शताङ्गस्य पदवी ॥१३॥पिबन्जम्बूश्यामं मिहिरदुहितुर्वारि मधुरंमृणालीर्भुञ्जानो हिमकरकणाक्ॐअलरुचः ।क्षणं हृष्टस्तिष्ठन्निविडविटपे शाखिनि सखेसुखेन प्रस्थानं रचयतु भवान्वृष्णिनगरे ॥१४॥बलादाक्रन्दन्ती रतपथिकमक्रूरमिलितंविदूरादाभीरीततिरनुययौ येन रमणं ।तमादौ पन्थानं रचय चरितार्था भवतु तेविराजन्ती सर्वोपरि परमहंसस्थितिरियं ॥१५॥अकस्मादस्माकं हरिरपहरन्नंशुकचयंयमारूढो गूढप्रणयलहरीं कन्दलयितुं ।तवाश्रान्तस्यान्तःस्थगितरविबिम्बः किसलयैःकदम्बः कादम्ब त्वरितमवलम्बः स भविता ॥१६॥किरन्ती लावण्यं दिशि दिशि शिखण्डस्तवकिनीदधाना साधीयः कनकविमलज्योतिवसनं ।तमालश्यामाङ्गी सरलमुरलीचुम्बितमुखी जगौ चित्रं यत्र प्रकटपरमानन्दलहरी ॥१७॥तया भूयः क्रीडारभसविकसद्वल्लववधूर्वपुर्वल्ली भ्रश्यन्मृगमदकणश्यामलिकया ।विधातव्यो हल्लीसकदलितमल्ललतिकयासमन्तादुल्लासस्तव मनसि रासस्थलिकया ॥१८॥तदन्ते वासन्तीविरचितमनङ्गोत्सवकला-चतुःशालं शौरेः स्फुरति न दृशौ तत्र विकिरेः ।तदालोकोद्भेदिप्रमदभवविस्मारितगति-क्रिये जाते तावत्त्वयि बत हता गोपवनिता ॥१९॥मम स्यादर्थानां क्षतिरिह विलम्बाद्यदपि तेविलोकेथाः सर्वं तदपि हरिकेलिस्थलमिदं ।तवेयं व्यर्था भवतु शुचिता कः स हि सखेगुणो यश्चाणूरद्विषि मतिनिवेशाय न भवेत् ॥२०॥सकृद्वंशीनादश्रवणमिलिताभीर्वनितारहःक्रीडासाक्षी प्रतिपदलतासद्मसुभगः ।स धेनूनां बन्धुर्मधुमथनखट्टायितशिलःकरिष्यत्यानन्दं सपदि तव गोवर्धनगिरिः ॥२१॥तमेवाद्रिं चक्राङ्कितकरपरिष्वङ्गिरसिकंमहीचक्रे शङ्केमहि शिखरिणां शेखरतया ।अरातिं ज्ञातीनां ननु हरिहरं यः परिभवन्यथार्थं स्वं नाम व्यधित गोवर्धन इति ॥२२॥तमालस्यालोकाद्गिरि-परिसरे सन्ति चपलाःपुलिन्द्यो गोविन्द-स्मरण-रभसोत्तप्त-वपुषः ।शनैस्तासां तापं क्षणं अपनयन्यास्यति भवान्अवश्यं कालिन्दी-सलिल-शिशिरैः पक्ष-पवनैः ॥२३॥तदन्ते श्रीकान्तस्मरणसमरघाटीपुलकिताकदम्बानां वाटी रसिकपरिपाटी स्फुरयति ।त्वमासीनस्तस्यां न यदि परितो नन्दसि ततोबभूव व्यर्था ते घनरसनिवासव्यसनिता ॥२४॥शरन्मेघश्रेणीप्रतिभटमरिष्टासुरशिरश्चिरं शुष्कं वृन्दावनपरिसरे द्रक्ष्यति भवान् ।यदारोढुं दूरान्मिलति किल कैलासशिखरि-भ्रमाक्रान्तस्वान्तो गिरिशसुहृदः किङ्करगणः ॥२५॥रुवन्याहि स्वैरं चरमदशया चुम्बितरुचोनितम्बिन्यो वृन्दावनभुवि सखे सन्ति बहवः ।परावर्तिष्यन्ते तुलितमुरजिन्नूपुररवात्तवाध्वानात्तासां बहिरपि गताः क्षिप्रमसवः ॥२६॥त्वमासीनः शाखान्तरमिलितचण्डत्विषि सुखंदधीथा भाण्डीरे क्षणमपि घनश्यामलरुचौ ।ततो हंसं बिभ्रन्निखिलनभसश्चित्रमिषयास वर्धिष्णुं विष्णुं कलितदरचक्रं तुलयिता ॥२७॥त्वमष्टाभिर्नेत्रैर्विगलदमलप्रेमसलिलैर्मुहुः सिक्तस्तम्बां चतुर चतुरास्यस्थितिभुवं ।जिहीथाः विख्यातां स्फुतमिह भवद्बान्धवरथंप्रविष्टं मंस्यन्ते विधिमटविदेव्यस्त्वयि गते ॥२८॥उदञ्चन्नेत्राम्भःप्रसरलहरीपिच्छिलपथ-स्खलत्पादन्यासप्रणिहितविलम्बाकुलधियः ।हरौ यस्मिन्मग्ने त्वरितयमुनाकुलगमन-स्पृहाक्षिप्ता गोप्यो ययुरनुपदं कामपि दशां ॥२९॥मुहुर्लस्यक्रीडाप्रमदमिलदाहोपुरुषिकाविकाशेन भ्रष्टैः फणिमणिकुलैर्धूमलरुचौ ।पुरस्तस्मिन्नीपद्रुमकुसुमकिञ्जल्कसुरभौत्वया पुण्ये पेयं मधुरमुदकं कालियह्रदे ॥३०॥तृणावर्तारातेर्विरहदवसन्तापिततनोःसदाभीरीवृन्दप्रणयबहुमानोन्नतिविदः ।विधातव्यो नव्यस्तवकभरसंवर्धितशुचस्त्वया वृन्दादेव्याः परमविनयाद्वन्दनविधिः ॥३१॥इति क्रान्त्वा केकाकृतविरुतमेकादशवनंघनीभूतं चुतैर्व्रज मधुवनं द्वादशमिदं ।पुरी यस्मिन्नास्ते यदुकुलभुवां निर्मययशो-भराणां धाराभिर्वलितधरित्रीपरिसरा ॥३२॥निकेतैराकीर्णा गिरिशगिरिडिम्भप्रतिभटैर्अवष्टम्भस्तम्भावलिविलसितैः पुष्पितवना ।निविष्टा कालिन्दीतटभुवि तवाधासाति सखेसमस्तादानन्दं मधुरजलवृन्दा मधुपुरी ॥३३॥वृषः शम्भोर्यस्यां दशति नवमेकत्र यवसंविरिञ्चेरन्यस्मिन्गिलति कलहंसो विसलतां ।क्वचित्क्रोञ्चारातेः कवलयति केकी विषधरं विलीढे शल्लक्या वलरिपुकरी पल्लवमितः ॥३४॥अरोधिष्ठाः कायान्न हि विचलितां प्रच्छदपटींविमुक्तामज्ञासीः पथि पथि न मुक्तावलिमपि ।अयि श्रीगोविन्दस्मरणमदिरामत्तहृदयेसतीति ख्यातिस्ते हसति कुलटानां कुलमिदं ॥३५॥असव्यं बिभ्राणा पदमधूतलाक्षारसमसौप्रयाताहं मुग्धे विरम मम वेशैः किमधुना ।अमन्दादाशङ्के सखि पुरपुरन्ध्रिकलकलाद्अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते ॥३६॥अयं लीलापाङ्गस्नपितपुरवीथीपरिसरोनवाशोकोत्तंसश्चलति पुरतः कंसविजयी ।किमस्मानेतस्मिन्मणिभवनपृष्ठाद्विनुदतीत्वमेका स्तब्धाक्षी स्थगयसि गवाक्षावलिमपि ॥३७॥मुहुः शून्यां दृष्टिं वहसि ध्यायसि सदाशृणोषि प्रत्यक्षं नवपरिजनविज्ञापनशतं ।ततः शङ्के पङ्केरुहमुखि ययौ श्यामलरुचिःस यूनो मूर्तं सम्भव नयनवीथीपथिकतां ॥३८॥विलज्जं मा रोदीरिह सखि पुनर्यास्यति हरि-स्तवापङ्गक्रीडानिविडपरिचर्याग्रहिलतां ।इति स्वैरं यस्यां पथि पथि मुरारेरभिनव-प्रवेशे नारीणां रतिरभसजल्पा ववृधिरे ॥३९॥सखे साक्षाद्दामोदरवदनचन्द्रावकलन-स्फुरत्प्रेमानन्दप्रकरलहरीचुम्बितधियः ।मुहुरत्राभीरीसमुदयशिरोन्यस्तविपद-स्तवाक्ष्णोरानन्दं विदधीत पुरा पौरवनिताः ॥४०॥अथ भ्रामं भ्रामं क्रमघटनया सङ्कटतरान्निवासान्वृष्णीनामनुसर पुरीमधवसितं ।मुरारातेर्यत्र स्थगितगगणाभिर्विजयतेपताभिः सन्तापितभुवनमन्तःपुरवरं ॥४१॥यदुत्सङ्गे तुङ्गस्फटिकरचिताः सन्ति परितोमरालामाणिक्यप्रकरघटितत्रौटिचरणाः ।सुहृद्बुद्ध्या हंसाः कलितमधुरस्याम्बुजभुवःसमर्यादं येषां सपदि परिचर्यां विदधीत ॥४२॥चिरान्मृग्यन्तीनां पशुपरमणीनामपि कुलैर्अलब्धं कालिन्दीपुलिनविपिने {लीनमण्डितः} ।सदा लोकोल्लासिस्मितपरिचितास्यं सहचरिस्फुरन्तं वीक्षिष्ये पुनरपि किमग्रे मुरभिदं ॥४३॥विषादं मा कार्षीद्रुतिमवितत्थव्याहृतिरसौसमागन्ता राधे धृतनवशिखण्डस्तव सखा ।इति ब्रूते यस्यां शुकमिथुनमिन्द्रानुजकृतेयदाभीरिवृन्दैरुपधृतमभूदुद्धवकरे ॥४४॥घनश्यामा भ्राम्यत्युपरि हरिहर्मस्य शिखिभिःकृतस्तोत्रा मुग्धैरगुरुरचिता धूमलतिका ।तदालोकाद्धीर स्फुरति तव चेन्मानसरुचिर्जितं तर्हि स्वैरं जलसहनिवासप्रियतया ॥४५॥ततो मध्ये कक्षं प्रति नवगवाक्षस्तवकिनंचलन्मुक्तालम्बस्फुरितममलस्तम्भनिवहं ।भवान्द्रष्टा हेमोल्लिखितदशमस्कन्धचरितो-ल्लसद्भित्तिप्रान्तं मुरविजयिनः केलिनिलयं ॥४६॥अलिन्दे यस्यास्ते मरकतमयी यष्टिरमलाशयालुर्यां रात्रौ मदकलकलापी कलयति ।निराटङ्कस्त्स्याः शिखरमधिरुह्य श्रमनुदंप्रतीक्षेथा भ्रातर्वरमवसरं यादवपतेः ॥४७॥निविष्टः पलाङ्के मृदुलतरतुलीधवलितेत्रिलोकलक्ष्मीणां ककुदि दरसातीकृततनूः ।अमन्दं पूर्णेन्दुप्रतिममुपधानं प्रमुदितोनिधायाग्रे तस्मिन्नुपहितकफोनिद्वयभरं ॥४८॥उदञ्चत्कालिन्दीसलिलसुभगं भावुकरुचिःकपोलान्तः प्रेक्ष्यन्मणिमकरमुद्रामधुरिमा ।वसानः कौशेयं जितकनकलक्ष्मी परिमलंमुकुन्दस्ते साक्षात्प्रमदसुधया सेक्ष्यति दृशोः ॥४९॥विकद्रुः पौराणीरखिलकुलवृद्धो यदुपतेर्अदूरादासीनो मधुरभनितीर्गास्यति सदा ।पुरस्तादाभीरीगणभयदनामा स कठिनोमणिस्तम्भालम्बी कुरुकुलकथां सङ्कलयिता ॥५०॥शिनीनामुत्तंसः कलितकृतवर्माप्युभयतःप्रणेष्यते बालव्यजनयुगलान्दोलनविधिं ।स जानुभ्यामष्टापदभुवनमवष्टभ्य भवितागुरोः शिष्यो नूनं पदकमलसंवाहनरतः ॥५१॥विहङ्गेन्द्रो युग्मीकृतकरसरोजो भुवि पुरःकृतासङ्गो भावी प्रजविनि निर्देशे.अर्पितमनाः ।छदद्वन्द्वे यस्य ध्वनति मथुरावासिबटवोव्यदस्यन्ते सामस्वरजनितमन्योन्यकलहं ॥५२॥न निर्वक्तुं दामोदरपदकनिष्ठाङ्गुलिनख-द्युतीनां लावण्यं भवति चतुरास्यो.अपि चतुरः ।तथापि स्त्रीप्रज्ञासुलभतरलत्वादहमसौप्रवृत्ता तन्मूर्तिस्तवरतिमहासाहसवशे ॥५३॥विराजन्ते यस्यव्रजशिशुकुलस्तेयविकल-स्वयम्भूचूडाग्रैर्लुलितशिखराः पादनखराः ।क्षणं यानालोक्य प्रकटपरमानन्दविवशःस देवर्षिर्मुक्तानपि तनुभृतः शोचति भृशं ॥५४॥सरोजानां व्यूहः श्रियमभिलषन्यस्य पदयो-र्ययौ रागाढ्यानां विधुरमुदवासव्रतविधिं ।हिमं वन्दे नीचैरनुचितविधानव्यसनिनांयदेषां प्राणान्तं दमनमनुवर्षं प्रणयति ॥५५॥रुचीनमुल्लासैर्मरकतमयस्थूलकदली-कदम्बाहंकारं कवलयति यस्योरुयुगलं ।यदालानस्तम्भद्यूउतिमवललम्बे कलवतांमदादुद्दामानां पशुपरमणीचित्तकरिणीं ॥५६॥सखे यस्याभीरीनयनसफरीजीवनविधौनिदानं गाम्भीर्यप्रसरकलिता नाभिसरसी ।यतः कल्पस्यादौ सजलजनकोत्पत्तिवडभी-गभीरान्तः कक्षाधृतभुवनमम्भोरुहमभूत् ॥५७॥द्युतिं धत्ते यस्य त्रिवलिलतिकासङ्कटतरंसखे दामश्रेणीक्षपणरचनाभिज्ञमुदरं ।यशोदा यस्यान्तः सुरनरभुजङ्गैः परिवृतंमुखद्वारा वारद्वयमवलुलोके त्रिभुवनं ॥५८॥उरौ यस्य स्फारं स्फुरति वनमालावलयितंवितन्वानं तन्वीजनमनसि सद्यो मनसिजं ।मरीचीभिर्यस्मिन्रविनिवहतुल्यो.अपि वहतेसदा खद्योताभां भुवनमधुरः कौस्तुभमणिः ॥५९॥समन्तादुन्मीलद्वलभिदुपलस्तम्भयुगल-प्रभाजैत्रं केशिद्विजदलितकेयूरललितं ।मदक्लाम्यद्गोपीपटलहटकण्ठग्रहपरंभुजद्वन्द्व,ं यस्य स्फुटसुरभिगन्धं विजयते ॥६०॥जिहीते साम्राज्यं जगति नवलावण्यलहरीपरीपाकस्यान्तर्मुदितमदनावेशमधुरं ।नटद्भ्रूवल्लीकं स्मितनवसुधाकेलिसदनंस्फुरन्मुक्तापङ्क्तिप्रतिमरदनं यस्य वदनं ॥६१॥किमेभिर्व्याहारैः कलय कथयामि स्फुटमहंसखे निःसन्देहं परिचयपदं केवलमिदं ।परानन्दो यस्मिन्नयनपदवीभ्राजि भविता त्वया विज्ञातव्या मधुररव सो.अयं मधुरिपुः ॥६२॥विलोकेथाः कृष्णः मदकलमरालीरतिकला-विमुग्ध व्यामुग्धं यदि पुरवधूविभ्रमभरैः ।तदा नास्मान्ग्राम्याः प्रवणपदवीं तस्य गमयेःसुधापूर्णं चेतः कथमपि न तक्रं मृगयते ॥६३॥यदा वृन्दारण्यस्मरणलहरीहेतुरमणंपिकानां वेवेष्टि प्रतिहरितमुच्चैः कुहुरुतं ।वहन्ते वा वाताः स्फुरति गिरिमल्लीपरिमला-स्तदैवास्माकीनां गिरमुपहरेथा मुरभिदि ॥६४॥पुरातिष्ठन्गोष्ठान्निखिलरमणीभ्यः प्रियतयाभवान्यस्यां गोपीरमण विदधे गौरवभरं ।सखी तस्या विज्ञापयति ललिता धीरललितप्रणम्य श्रीपादाम्बुजकनकपीठीपरिसरे ॥६५॥प्रयत्नादाबाल्यं नवकमलिनीपल्लवकुलै-स्त्वया भूयो यस्याः कृतमहह संवर्धनमभूत् ।चिरादूधोभारं स्फुरणपरमाक्रान्तजघनाबभूव प्रष्ठौही मुरमथन सेयं कपलिका ॥६६॥समीपे नीपानां त्रिचतुरदला हन्त गमितात्वया या माकन्दप्रियसहचरीभावनियतिं ।इयं सा वासन्ती गलदमलमाध्वीकपटली-मिषादग्रे गोपीरमण रुदती रोदयती नः ॥६७॥प्रसूतो देवक्या मधुमथन यः को.अपि पुरुषःस यातो गोपालाभ्युदयपरमानन्दवसतिं ।धृतो यो गान्धिन्या कठिनजठरे सम्प्रति ततःसमन्तादेवास्तं शिव शिव गता गोकुलकथा ॥६८॥अरिष्टेनोद्धताः पशुपसुदृशो याति विपदंतृणावर्ताक्रान्तो रचयति भयं चत्वरचयः ।अमी व्य्ॐईभूता व्रजवसतिभूमी परिसरावहन्ते सन्तापं मुरहर विदूरं त्वयि गते ॥६९॥त्वया नागन्तव्यं कथमपि हरे गोष्ठमधुनालता श्रेणी वृन्दावनभुवि यतो.अभूद्विषमयी ।प्रसूनानां गन्धं मधुमथन तदा वातनिहितंभजन्सद्यो मूर्च्छां वहति निवहो गोपसुदृशां ॥७०॥कथं सङ्गो.अस्माभिः सह समुचितः सम्प्रति हरे-रयं ग्राम्या नार्यस्त्वमसि नृपकन्यार्चितपदः ।गतः कालो यस्मिन्पशुपरमणीसङ्गमकृतेभवान्व्यग्रस्तस्थौ तमसि गृहवाटिविटपिनि ॥७१॥वयं त्यक्ताः स्वामिन्यदि तव किं दूषणमिदंनिसर्गः श्यामानामयमतितरां दुष्परिहरः ।कुहूकण्ठैरण्डावधि सह निवासात्परिचिताविसृज्यन्ते सद्यः कलितनवपक्षैर्वलिभुजः ॥७२॥अयं पूर्वो रङ्गः किल परिचितो यस्य तरसारसादाख्यातव्यं परिकलय तन्नाटकमिदं ।मया प्रष्टव्यो.असि प्रथममिति वृन्दावनपतेकिमाहा राधेति स्मरसि हतकं वर्णयुगलं ॥७३॥अये कुञ्जद्रोणीकुहरगृहमेधिन्किमधुनापरोक्षं वक्ष्यन्ते पशुपरमणीदुर्नियतयः ।प्रवीणा गोपीनां तव चरणपद्मे.अपि यदियंययौ राधा साधारणसमुचितप्रश्नपदवीं ॥७४॥त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदंन तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपां ।अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलैर्दरालोकं शोकास्पदमिव कथं नेष्यति सखी ॥७५॥तरङ्गैः कुर्वाणा शमनभगिनीलाघवमसौनदीं कांचिद्गोष्ठे नयनजलपूरैरजनयत् ।इतीवास्या द्वेषादभिमतदशाप्रार्थनमयींमुरारे विज्ञप्तिं निशमयति मानी न शमनः ॥७६॥कृताकृष्टिक्रीडं किमपि तव रूपं मम सखीसकृद्दृष्ट्वा दूरादहितहितबोधोज्झितमतिः ।हता सेयं प्रेमानलमनु विशन्ती सरभसंपतङ्गीवात्मानं मुरहर मुहुर्दाहितवती ॥७७॥मया वाच्यः किं वा त्वमिह निजदोषात्परमसौययौ मन्दा वृन्दावनकुसुमबन्धो विधुरतां ।यदर्थं दुःखाग्निर्विकृशति तमद्यापि हृदयान्न यस्माद्दुर्मेधा लवमपि भवन्तं दवयति ॥७८॥त्रिवक्राहो धन्या हृदयमिव ते स्वं पुरमसौसमासाद्य स्वैरं यदिह विलसन्ती निवसति ।ध्रुवं पुण्यभ्रंशादजनि सरलेयं मम सखीप्रवेशस्तत्राभूत्क्षणमपि यदस्या न सुलभः ॥७९॥किमाविष्टा भूतैः सपदि यदि वाक्रूरफणिनाक्षतापस्मारेण च्युतमतिरकस्मात्किमपतत् ।इति व्यग्रैरस्यां गुरुभिरभितः कीचकरव-श्रवादस्पन्दायां मुरहर विकल्पा विदधिरे ॥८०॥नवीनेयं सम्प्रत्यकुशलपरीपाकलहरी-निरीणर्ति स्वैरं मम सहचरीचित्तकुहरे ।जगन्नेत्रश्रेणीमधुरमथुरायां निवसत-श्चिरादार्ता वार्तामपि तव यदेषा न लभते ॥८१॥जनान्सिद्धादशान्नमति भजते मान्त्रिकगणान्विधत्ते शुश्रूषामधिकविनयेनौषधविदां ।त्वदीक्षादीक्षायै परिचरति भक्त्या गिरिसुतांमनीषा हि व्यग्रा किमपि शुभहेतुं न मनुते ॥८२॥पशूनां पातारं भुजगरिपुपुत्रप्रणयिनंस्मरोद्वर्धिक्रीडं निविडघनसारद्युतिहरं ।सदाभ्यर्णे नन्दीश्वरगिरिभुवो रङ्गरसिकंभवन्तं कंसारे भजति भवदाप्त्यै मम सखी ॥८३॥भवन्तं सन्तप्ता विदलिततमालाङ्कुररसै-र्विलिख्य भ्रूभङ्गीकृतमदनकोदण्डकदनं ।निधासयन्ती कण्ठे तव निजभुजावल्लरीमसौ धरन्यामुन्मीलज्जाडिमनिविडाङ्गी विलुठति ॥८४॥कदाचिन्मूढेयं निविडभवदीयस्मृतिमदा-दमन्दादात्मानं कलयति भवन्तं मम सखी ।तथास्या राधाया विरहदहनाकल्पितधियोमुरारे दुःसाध्या क्षणमपि न बाधा विरमति ॥८५॥त्वया सन्तापानामुपरि परिमुक्तातिरभसा-दिदानीमापेदे तदपि तव चेष्टां प्रियसखी ।यदेषा कंसारे भिदुरहृदयं त्वामवयतिसतीनां मूर्धन्या भिदुरहृदयाभूदनुदिनं ॥८६॥समक्षं सर्वेषां विहरसि मदाधिप्रणयिनाम्इति श्रुत्वा नूनं गुरुतरसमाधिं कलयति ।सदा कंसाराते भजसि यमिनां नेत्रपदवीम्इति व्यक्तं सज्जीभवति यममालोचितुमपि ॥८७॥मुरारे कालिन्दीसलिलदलदिन्दीवररुचेमुकुन्द श्रीवृन्दावनमदन वृन्दारकमणे ।व्रजानन्दिन्नन्दीश्वरदयित नन्दात्मज हरेसदेति क्रन्दन्ती परिजनशुचं कन्दलयति ॥८८॥समन्तादुत्तप्तस्तव विरहदावाग्निशिखरयाकृतोद्वेगः पञ्चाशुगमृगयुवेध व्यतिकरैः ।तनूभूतं सद्यस्तनुवनमिदं हास्यति हरेहठादद्य श्वो वा मम सहचरीप्राणहरिणः ॥८९॥पयोराशिस्फीतत्विषि हिमकरोत्तंसमधुरेदधाने दृग्भङ्ग्या स्मरविजयिरूपं मम सखी ।हरे दत्तस्वान्ता भवति तदिमां किं प्रभवतिस्मरो हन्तुं किन्तु व्यथयति भवानेव कुतुकी ॥९०॥विजानीमे भावं पशुपरमणीनां यदुमणेन जानीमः कस्मात्तदपि तव माया रचयति ।समन्तादध्यात्मं यदिह पवनव्याधेरलप-द्बलादस्यास्तेन व्यसनकुलमेव द्विगुणितं ॥९१॥गुरोरन्तेवासी स भजति यदूनां सचिवतांसखीयं कालिन्दी किल भवति कालस्य भगिनी ।भवेदन्यः को वा नरपतिपुरे मत्परिचितोदशामस्याः शंसन्यदुतिलक यस्त्वामनुनयेत् ॥९२॥विशीर्णाङ्गीमन्तर्व्रणविलुठनादुत्कलिकयापरीतां भूयस्या सततमुपरागव्यतिकरां ।परिध्वस्तामोदां विरमितसमस्तालिकुतुकांविधो पादस्पर्शादपि सुखय राधाकुमुदिनीं ॥९३॥विपत्तिभ्यः प्राणान्कथमपि भवत्सङ्गमसुख-स्पृहाधीना शौरे मम सहचरी रक्षितवती ।अतिक्रान्ते सम्प्रत्यवधिदिवसे जीवनविधौहताशा निःशङ्कं वितरति दृशौ चुतमुकुले ॥९४॥प्रतीकारारम्भश्लथमतिभिरुद्यत्परिणते-र्विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः ।अमुञ्चन्ती सङ्गं कुवलयदृशः केवलमसौकलादद्य प्राणानवति भवाशासहचरी ॥९५॥अये रासक्रीडारसिक मम सख्यां नवनवापुरा बद्धा येन प्रणयलहरी हन्त गहना ।स चेन्मुक्तापेक्षस्त्वमपि धिगिमां तुलशकलंयदेतस्या नासानिहितमिदमद्यापि चलति ॥९६॥मुकुन्द भ्रान्ताक्षी किमपि यदसंकल्पितशतंविधत्ते तद्वक्तुं जगति मनुजः कः प्रभवति ।कदाचित्कल्याणी विलपति य उत्कण्ठितमति-स्तदाख्यामि स्वामिन्गमय मकरोत्तंसपदवीं ॥९७॥अभूत्को.अपि प्रेमा मयि मुररिपोर्यः सखि पुरापरां कर्मापेक्षामपि तदवलम्बान्न गणयेत् ।तथेदानीं हा धिक्समजनि तटस्थः स्फुटमहंभजे लज्जां येन क्षणमपि पुनर्जीवितुमपि ॥९८॥गरीयान्मे प्रेमा त्वयि परमिति स्नेहलघुतान जीविष्यामीति प्रणयगरिमख्यापनविधिः ।कथं नायासीति स्मरणपरिपाटीप्रकटनंहरौ सन्देशाय प्रियसखि न मे वागवसरः ॥९९॥अमी कुञ्जः पूर्वं न मम दधिरे कामपि मुदंद्रुमालीयं चेतः सखि न कतिशो नन्दितवती ।इदानीं पश्यैते युगपदपतापं विदधतेप्रभो मुक्तोपेक्षे भजति न हि को वा विमुखतां ॥१००॥कदा प्रेमोन्मीलन्मदनमदिराक्षी समुदयात्बलादाकर्षन्तं मधुरमुरलीकाकलिकया ।मुहुर्भ्राम्यच्चिल्लीचुलुकितकुलस्त्रीव्रतमहंविलोकेयं लीलामदमिलदपाङ्गी मुरभिदं ॥१०१॥ययौ कालः कल्याण्यधिकलितकेली परिमलांविलासार्थी यस्मिन्नचलकुहरे लीनवपुषं ।स मां धृत्वा धूर्तः कृतकपटरोषां सखि हठा-दकार्षीदाकर्षन्नुरसि शशिलेखाशतवृतां ॥१०२॥राणद्भृङ्गश्रेणीसुहृदि शरदारम्भमधुरेवनान्ते चान्द्रीभिः किरणलहरीभिर्धवलिते ।कदा प्रेमोद्दण्डस्मरकलहवैतण्डिकमहंकरिष्ये गोविन्दं निविडभुजबन्धप्रणयिनं ॥१०३॥मनो मे हा कष्टं ज्वलति किमहं हन्त करवैन पारं नावारं किमपि कलयाम्यस्य जलधेः ।इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मां{पतामृष्ये} यस्माद्धृतिकणिकयापे क्षणिकया ॥१०४॥प्रयातो मां हित्वा यदि कठिनचूडामणिरसौपर्यातु स्वच्छन्दं मम समयधर्मः किल गतिः ।इदं सोढुं का वा प्रभवति यतः स्वप्नकपटा-दिहायातो वृन्दावनभुवि कलान्मां रमयति ॥१०५॥अनौचित्यं तस्य व्यथयति मनो हन्त मथुरांत्वमासाद्य स्वैरं चपलहृदयं वारय हरिं ।सखि स्वप्नारम्भे पुनरपि यथा विभ्रम मदा-दिहायातो धूर्तः क्षपयति न मे किङ्किनिगुणं ॥१०६॥अयि स्वप्नो दूरे विरमतु समक्षं शृणु हठा-दविश्वस्ता मा भूरिह सखि मनोविभ्रमधिया ।वयस्यस्ते गोवर्धनविपिनमासाद्य कुतुका-दकाण्डे यद्भूयः स्मरकलहपाण्डित्यमतनोत् ॥१०७॥अमर्षाद्धावन्तीं गहनकुहरे सूचितपथांतुलाकोटिक्वानैश्चकितपदपातद्विगुणितैः ।विधीर्षन्मां हर्षोत्तरलनयनान्तः स कुतुकीन वंशीमज्ञासीद्भुवि करसरोजाद्विगलितां ॥१०८॥अशक्तां गन्तव्ये कलितनवचेलाञ्चलतयालतालीभिः पुष्पस्मितशवलिताभिर्विरुदतीं ।परीहासारम्भी प्रियसखि स मां लम्बितमुखींप्रपेदे चुम्बाय स्फुरदधरबिम्बस्तव सखा ॥१०९॥ततो.अहं धम्मिल्ले स्थगितमुरलीका सखि शनै-रलीकामर्षेण भ्रमदविरलभ्रूरुदचलं ।कचाकृष्टिक्रीडाक्रमपरिचिते चौर्यचरितेहरिर्लब्धोपाधिः प्रसभमनयन्मां गिरिदरीं ॥११०॥कदाचिद्वासन्तीकुहरभुवि धृष्टः सरभसंहसन्पृष्ठालम्बी स्थगयति कराभ्यां मम दृशौ ।दिधीर्षौ जातेर्ष्यं मयि सखि तदीयाङ्गुलिशिखांन जाने कुत्रायं व्रजति कितवानां किल गुरुः ॥१११॥अतीतेयं वार्ता विरमतु पुरः पश्य सरलेवयस्यस्ते सो.अयं स्मितमधुरिमोन्मृष्टवदनः ।भुजस्तम्भोल्लासादभिमतपरीरम्भरभसःस्मरक्रीडासिन्धुः क्षिपति मयि बन्धुककुसुमं ॥११२॥तदुत्तिष्ठ व्रीडावति निविडमुक्तालतिकयावधानेमं धूर्तं सखि मधुपुरीं याति न यथा ।इति प्रेमोन्मीलद्भवदनुभवारूढजडिमासखीनामाक्रन्दं न किल कतिशः कन्दलयति ॥११३॥अहो कष्ट्.अं बाल्यादहमिह सखीं दुष्टहृदयामुहुर्मानग्रन्थिं सहजसरलां ग्राहितवती ।तदारम्भाद्गोपीगणरतिगुरो निर्भरमसौन लेभे लुब्धापि त्वदमलभुजस्तम्भरभसं ॥११४॥अलिन्दे कालिन्दीकमलसुरभौ कुञ्जवसते-र्वसन्तीं वासन्तीनवपरिमलोद्गारिचिकुरां ।त्वदुत्सङ्गे निद्रासुखमुकुलिताक्षीं पुनरिमांकदाहं सेविष्ये किशलयकलापव्यजनिनी ॥११५॥धृतानन्दांवृन्दावनपरिसरे शारदनिशा-विलासोल्लासेन ग्लपितकवरीफुल्लकुसुमां ।तव स्कन्धोपान्ते विनिहितभुजावल्लरिमहंकदा कुञ्जे लीना रहसि विहसिष्यामि सुमुखीं ॥११६॥विदूरादाहर्तुं कुसुममुपयामि त्वमधुनापुरस्तीरे तीरे कलय तुलसीपल्लवमिदं ।इति व्याजादेनां विदितभवदीयस्थितिरहंकदा कुञ्जे गोपीरमण गमयिष्यामि समये ॥११७॥इति श्रीकंसारेः पदकमलयोर्गोकुलकथांनिवेद्य प्रत्येकं भज परिजनेषु प्रणयितां ।निजाङ्के कादम्बीसहचर वहन्मण्डनतयान यानुच्चैः प्रेमप्रवणमनुजग्राह भगवान् ॥११८॥मिलद्भङ्गीं हंसीरमण वनमालां प्रथमतोमुदा क्षेमं पृच्छन्निदमुपहरेथा मम वचः ।चिरं कंसारातेरुरसि सहवासप्रणयिनींकिमेनामेनाक्षीं गुणवति विसस्मार भवती ॥११९॥इदं किं वा हन्त स्मरसि रसिके खण्डनरुषापरीताङ्गी गोवर्धनगिरिनितम्बे मम सखी ।भिया सम्भ्रान्ताक्षं यदिह विचकर्ष त्वयि बला-द्गृहीत्वा विभ्रश्यन्नवशिखिशिखं गोकुलपतिं ॥१२०॥ततः सम्भाषेथाः श्रुतिमकरमुद्रामिति मुदाभवत्यां कर्तव्यः किमिति कुशलप्रश्नजडिमा ।रुचिस्मेरा या त्वं रचयसि सदा चुम्बनकलाम्अपाङ्गेन स्पृष्टा सखि मुररिपोर्गण्डमुकुरे ॥१२१॥निवासस्ते देवि श्रवणलतिकायामिति धियाप्रयत्नात्त्वामेव प्रणयहृदया यामि शरणं ।परोक्षं वृष्णीनां निभृतनिभृतं कर्णकुहरेहरेः काकून्मिश्रां कथय सखि राधाविधुरतां ॥१२२॥परीरम्भं प्रेम्णा मम सविनयं कौस्तुभमणौब्रुवाणः कुर्वीथाः पतगवर विज्ञापनमिदं ।अगाधा राधायामपि तव सखे विस्मृतिरभूत्कथं वा कल्याणं वहति तरले हि प्रणयिता ॥१२३॥मुहुः कूजत्काञ्चीमणिवलयमञ्जीरमुरली-रवालम्बो भ्राम्यद्युवतीकुलगीतैः सुरमणे ।स किं साक्षाद्भावी पुनरपि हरेस्ताण्डवरसै-रमन्दः कालिन्दीपुलिनभुवि तौर्यात्रिकभरः ॥१२४॥नवीनस्त्वं कम्बो पशुपरमणीभिः परिचयंन धत्से राधायाः गुणगरिमगन्धो.अपि न कृती ।तथापि त्वां याचे हृदयनिहितं दोहदमहंवहन्ते हि क्लान्ते प्रणयमवदातप्रकृतयः ॥१२५॥गृहीत्वा गोविन्दं जलधिहृदयानन्दन सखेसुखेन श्रीवृन्दावनपरिसरे नन्दतु भवान् ।कथं वा ते गोष्ठं भवतु दयितं हन्त बलवान्यदेतस्मिन्वेणोर्जयति चिरसौभाग्यमहिमा ॥१२६॥इति प्रेमोद्गारप्रवणमनुनीय क्रमवशांपरीवारान्भ्रातर्निशमयति चाणूरमथने ।पुनः कोपोद्भिन्नप्रणयचटुलं तस्य निकटेकथामाचक्षीथाः दशभिरवतारैर्विलसितां ॥१२७॥ग्रहीतुं त्वां प्रेमामिषपरिवृतं चित्तवडिशंमहामीन क्षिप्रं नाधित रसपूरे मम सखी ।विवेकाख्यं छित्त्वा गुणमथ तदग्रासि भवताहताशेयं किं वा शिव शिव विधातुं प्रभवति ॥१२८॥वराकीयं दृष्ट्वा सुभगवपुषो विभ्रमभरंतवाभ्यर्णं भेजे परमकुतुकोल्लासितमतिः ।तिरोधाय स्वाङ्गं प्रकटयसि यत्त्वं कठिनतांतदेतत्किं न स्यात्तव कमठमूर्तेः समुचितं ॥१२९॥सदा कंसारते स्फुरति चिरमद्यापि भवतः स्फुटं क्रोडाकारे वपुषि निविडप्रेमलहरी ।यतः सा सैरन्ध्री मलयरुहपङ्कप्रणयिनीत्वया क्रोडीचक्रे परमरभसादात्मदयिता ॥१३०॥चिरादन्तर्भूता नरहरिमयी मूर्तिरभित-स्तदीयो व्यापारस्तव तु न ययौ विस्मृतिपथं ।विनीतप्रह्लादस्त्वमिह परमक्रूरचरितेप्रसक्तो यद्भूयः परहृदयभेदं जनयसि ॥१३१॥यदात्मानं दर्पादगणितगुरुर्वामन मुदामनोराज्येनाढ्यं त्वयि वलितया कल्पितवती ।प्रपेदे तस्येदं फलमुचितमेव प्रियसखीविदूरे यत्क्षिप्ता प्रणयमयपाशे निगडिता ॥१३२॥इयं नाथ क्रूरा भृगुपतनमकङ्क्षति ततोयदस्यां कठिनां तव समुचितं तद्भृगुपते ।असौ ते दुर्बोधा कृतिरिह भवद्विस्मृतिपथंयतो जातः साक्षाद्गुरुरपि स नन्दीश्वरपतिः ॥१३३॥निरानन्दा गावश्चिरमुपसृता दूषणकुलैःखरायन्ते सद्यो रघुतिलक गोवर्धनतटीः ।विराधत्वं घोषो व्रजति भवदीयप्रवसना-दिदानीं मारीचः स्फुटमिह नरीणर्ति परितः ॥१३४॥प्रसन्नः कालो.अयं पुनरुदयितुं रासभजनै-र्विलासिन्नद्यापि स्फुटमनपराधा वयमपि ।वितन्वानः कान्तिं वपुषि शरदाकाशवलितांकृतो न त्वं सीरध्वज भजसि वृन्दावनमिदं ॥१३५॥न रागं सर्वज्ञ क्वचिदपि विधत्ते रतिपतिंमुहुर्द्वेष्टि द्रोहं कलयति बलादिष्टविधये ।चिरं ध्यानासक्ता निवसति सदा सौगतरति-स्तथाप्यस्यां हंहो सदयहृदय त्वं न दयसे ॥१३६॥परिक्लेशम्लेच्छान्समदमधुपाली मधुरयानिकृन्तत्रोन्तप्रणयकलिकाखड्गलतया ।त्वमासीनः कल्किन्निह चतुरगोपाहितरतिःसदेशं कुर्वीथाः प्रतिमुदितवीराधिकमिदं ॥१३७॥इति प्रेमोद्घाटसम्पुटितवचो भङ्गिरखिलंत्वमावेद्य क्लिद्यन्मुखपरिसरो लोचनजलैः ।ततो गोविन्दस्य प्रतिवचनमाध्वीकपदपी-मुपासीनो दृग्भ्यां क्षणमवधीथाः खगपते ॥१३८॥प्रणेतव्यो दृष्टेरनुभवपथं नन्दतनयोविधेयो गोपीनां भुवनमहितानामुपकृतिः ।इयं यामैर्गम्या चतुर मथुरापि त्रिचतुरै-रिति द्वैधं नान्तः कलय कलहंसीकुलपते ॥१३९॥अपूर्वा यस्यान्तर्विलसति मुदा सारलरुचि-र्विवेक्तुं शक्येते सपदि मिलिते येन पयसी ।कथं कारं युक्तो भवतु भवतस्तस्य कृतिनाविलम्बः कादम्बीरमण मथुरासङ्गमविधौ ॥१४०॥प्रपन्नः प्रेमाणं प्रभवति सदा भागवतभाक्पराचीनो जन्मावधिभवरसाद्भक्तिमधुरः ।चिरं को.अपि श्रीमान्जयति विदितः शाकरतयाधुरीणो धीराणामधिधरणि वैयासकिरिव ॥१४१॥रसानामाधारैरपरिचितदोषः सहृदयै-र्मुरारातेः क्रीडानिविडघटनारूपमहितः ।प्रबन्धो.अयं बन्धोरखिलजगतां तस्य सरसांप्रभोरन्तः सान्द्रां प्रमदलहरीं पल्लवयतु ॥१४२॥ N/A References :हंसदूत Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP