संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य| प्रास्तविकविलासः काव्य आश्चर्यरासप्रबन्धः ऐश्वर्य कादम्बिनी दशावतारचरित्रम् हर्षचरितम् काव्यालंकारः किरातार्जुनीयम् नारायणीय रामचरितमहाकाव्य रावणवध नवसाहसाङ्कचरितम् शिशुपालवधम् शृङ्गारतिलक प्रास्तविकविलासः शान्तविलासः अजामिलमोक्षप्रबन्धः अमरुशतक ऊद्धवसन्देश कलिविडम्बना मुग्धोपदेश राधाकुण्डोत्पत्तिवर्णनम् हंसदूत प्रास्तविकविलासः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.प्रास्तविकविलासः काव्याचे कवी आहेत,जगन्नाथपण्डित. Tags : epicjagannathapoemकाव्यजगन्नाथमहाकाव्यसंस्कृत प्रास्तविकविलासः Translation - भाषांतर दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनःकरिण्यः करुण्यास्पदमसमशीलाः खलु मृगाः ।इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयंनखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ॥१॥पुरा सरसि मानसे विकचसरसालिस्खल-त्परागसुरभिकृते पयसि यस्य यातं वयः ।स पल्वलजलेऽधुना मिलदनेकभेकाकुलेमरालकुलनायकः कथय रे कथं वर्तताम् ॥२॥तृष्णालोललविलोचने कलयति प्राचीं चकोरीगणेमौनं मुञ्चति किं च कैरवकुले कामे धनुर्धुन्वति ।मौने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुनाधातः किन्नु विधौ विधातुमुचितो धाराधराडम्बरः ॥३॥अयि दल्दरविन्द स्यन्दमानं मरन्दंतव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गः ।दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन्परिमलमयमन्यो बान्धवो गन्धवाहः ॥४॥समुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः ।मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ॥५॥तावत्कोकिल विरसान्यापय दिवसान् वनान्तरे निवसन् ।यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥६॥नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदाऽपि कृथाः ।अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ॥७॥कमलिनिन मलिनीकरोषि चेतःकिमिति बकैरवहेलितानभिज्ञैः ।परिणतमकरन्दमार्मिकास्तेजगति भवन्तु चिरायुषो मिलिन्दाः ॥८॥येनामन्दमरन्दे दलदरविन्दे दिनान्यनायिषत ।कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् ॥९॥अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते ।उद्गिरतो यद्गर्लं फणिनः पुष्णासि परिमलोद्गारैः ॥१०॥पाटीर तव पटीयान् कः परिपाटीमिमासुरीकर्तुम् ।यत्पिषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम् ॥११॥नीरक्षीरविवेके हंसालस्यं त्वमेव तनुशे चेत् ।विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति ॥१२॥उपरि करवालधाराकाराः क्रूरा भुजङ्गमपुङ्गवात् ।अन्तः साक्षाद्द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥१३॥स्वच्छन्दं दलदरविन्द ते मरन्दंविन्दन्तो विदधतु गुञ्जितं मिलिन्दाः ।आमोदानतह हरिदन्तराणि नेतुंनैवान्यो जगति समीरणात्प्रवीणः ॥१४॥याते मय्य चिरान्निदाधमिहिरज्वालाशतैः शुष्कतांगन्ता कं प्रति प्रान्थसंततिरसौ संतापमालाकुला ।एवं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते ।धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥१५॥आपेदिरेऽम्बरपथं परितः पतङ्गाभृङ्गा रसालमुकुलानि समाश्रयन्ति ।संकोचमञ्चति सर्स्त्वयि दीनदीनोमीनो नु हन्त कतमां गतिमभ्युपैतु ॥१६॥मधुप इव मारुतेऽस्मिन्मा सौरभलोभमम्बुजिनिन संस्थाः ।लोकानामेव मुदे महितोऽप्यात्माऽमुनार्थितां नीतः ॥१७॥गुञ्जति मञ्जु मिलिन्दे मा मालति मौनमुपयासीः ।शिरसा वदन्यगुरवः सादरमेनं वहन्ति सुरतरवः ॥१८॥यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः ।तानपि वहसि पटीरज किं कथयामस्त्वदीयमौन्नत्यम् ॥१९॥अपनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुरुमे ।पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद् भ्रमर धन्योऽसि ॥२०॥तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्रायाः ।शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम् ॥२१॥पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृत्तं च खलु शूकैःउपसर्पेम भवन्तं बर्बुर वद कस्य लोभेन ॥२२॥एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः ।साजात्यशङ्कयामी न त्वां निघ्नन्ति निर्दयाः काकाः ॥२३॥तरुकुलसुषमापहरां जनयन्तीं जगति जीवजातार्तिम् ।केन गुणेन भवानीतात हिमानीमिनां वहसि ॥२४॥कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः ।अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥२५॥अमरतरुकुसुमसौरभसेवनसंपूरनकलकामस्य ।पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥२६॥पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे ।माकन्द न पप्रपेदे मधुपेन तवोपमा जगति ॥२७॥तोयैरल्पैरपि करुणया भीमभानौ निदाधेमालाकार व्यरचि भवता या तरोरस्य पुष्टिः ।सा किं शक्या जनयितुमिह प्रावृषेण्येन वारांधारासारानपि विकिरता विश्वतो वारिदेन ॥२८॥आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसावात्याभिः परुषीकृता दश दिशश्चण्डातपो दुःसहः ।एवं धन्वनि चम्पकस्य सकले संहारहेतावपित्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥२९॥न यत्र स्थेमानं दधुरतिव्हयभ्रान्तनयनागलद्दानोद्रेजभ्रमदलिकदम्बाः करटिनः ।लिठन्मुक्ताभारे भवति परलोकं गतवतेहरेरद्य द्वारे शिवशिव शिवानां कलकललः ॥३०॥दधानः प्रेमाणं तरुषु समभावेन विपुलांन मालाकारोऽसावकृत करुणां बालबकुले ।अयं तु द्रागुद्यत्कुस्सुमनिकराणां परिमलै-र्दिगन्तानातेने मधुपकुलझ्ङ्कारभरितान् ॥३१॥मूलं स्थूलमतीव बन्धनदृढं शाखाः शतं मांसलावासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।एकः किन्तु मनागयं जनयति स्वान्ते ममाधिश्चिरंज्वलालीवलयीवभवन्नकरुणो दावानलो घस्मरः ॥३२॥ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपिउ यश्चातक-स्त्वां ध्यायन् घनवासरान् कथमपि द्राखीयसो नीतवान् ।दैवाल्लोचनगोचरेण भवता तस्मिन्निदामी यदिस्वीचक्ते करकानिपातनकृपा तत्कं प्रति ब्रूमहे ॥३३॥दवदहनजटालज्वालजालाहतानांपरिगलितलतानां म्लायतां भूरुहाणाम् ।अयि हलधर शैलश्रेणिशृङ्गेषु तोयंवितरसि वहु कोऽयं श्रीमदस्तावकीनः ॥३४॥शृण्वन् पुरः परुषगर्जितमस्य हन्तरे पान्थ विह्वलमना न मनागपि स्याः ।विश्वार्तिवारणसमर्पितजीवनोऽयंनाकर्णितः किमु सखे भवतामम्बुवाहः ॥३५॥सौरभ्यं भुवनत्रयेऽपि विदितम सैत्यं तु लोकोत्तरंकीर्तिः किं च दिगङ्गनाङ्गणगता किं त्वेतदेकं शृणु ।सर्वानेव गुणानियं निगिरति श्रीखण्डा ते सुन्दरान्उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥३६॥नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः ।तथापि हरते तापं लोकानामुन्नतो घनः ॥३७॥समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसनंनिवासः पद्मायाः सुरहृदयहारी परिमलः ।गुणैरेतैरन्यैरपि च ललितस्याम्बुज तवद्विजोत्तंसे हंसे यदि रतिरतीवोन्न्तिरियम् ॥३८॥साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमानीरे नीरचरैः समं स भगवान्निद्राति नारायणः ।एवं निन्दान्यथवा स्तवानि कथय क्षीरार्णव त्वामहम् ॥३९॥किं खलु रत्नैरेतैः किंम पुनरभ्रायितेन वपुषा ते ।सलिलमपि यन्न तावकमर्णव वदनं प्रयाति तृषितानाम् ॥४०॥इयत्यां संपत्तावपि च सलिलानां त्वमधुनान तृष्णामार्तानां हरसि यदि कासार सहसा ।निदाधे चण्डांशौ किरति परितोऽङ्गारनिकरा-न्कृशीभृतः केषामहह परिहर्तासि खलु ताम् ॥४१॥अयि रोषमुरीकरोषि नो चे-त्किमपि त्वं वारिधे वदामः ।जलधेन तवार्थिना विमुक्ता-न्यपि तोयानि महान्न हा जहासि ॥४२॥न वारयामो भवतीं विशन्तीं वर्षानदि स्रोतसि जह्नुजायाः ।न युक्तमेतत्तु पुरो यदस्यास्तङ्गभङ्गान६ प्रकटीकरोषि ॥४३॥पौलोमीपतिकानने विलसतां गीर्वाणभूमिरुहांयेनाघ्रातसमुज्झितानि कुसुमान्याजघ्निरे ।तस्मिन्नद्य मधुव्रते विधिवशान्माद्वीकमाकाङ्क्षतित्वं चेदञ्चसि लोभमम्बुज तदा त्वां प्रति ब्रूमहे ॥४४॥भुक्ता मृणालपटली भ्वता निपीता-न्यबूनि यत्र नलिनानि निषेवितानि ।रे राजहंस वद तस्य सरोवरस्यकृत्येन केन भवितासि कृतोपकारः ॥४५॥प्रारंभे कुसुमाकरस्य परितो यसोल्लसन्मञ्जरी-पुञ्जे मञ्जुगुञ्जितानि रचयंस्तानातनोरुत्सवान् ।तस्मिन्नथ रसालशाखिनि दशां दैवात्कृशामञ्चतित्वं चेन्मुञ्चसि चञ्चरीक विनयं बूगस्त्वदन्योऽस्ति कः ॥४६॥एणीगणेषु गुरुग्र्वनिमीलिताक्षःकिं कृष्णसार खलु खेलसि कानएऽस्मिन् ।सीमामिमां कलय भिन्नकरीन्द्रकुम्भ-मुक्तामयीं हरिविहारवसुंधरायाः ॥४७॥जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।करिणामरिणा हरिणा हरिणाली हन्यतां न कथम् ॥४८॥येन भिन्नकरिकुम्भविस्खलन्मौक्तिकावलिभिरञ्चिता मही ।अद्य तेन हरिणान्तिके कथं कथ्यतां नु हरिणा पराक्रमः ॥४९॥स्थितिं नो रे दद्याः क्षण्मपि मदान्धेक्षण सखेगजश्रेणीनाथ त्वमिह जटिलायां वनभुवि ।असौ कुम्भिभ्रान्त्या खरनखरविद्रावितमहा-गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥५०॥गिरिगह्वरेषु गुरुगर्वगुम्फितःगजराजपोत न कदापि संचरे ।यदि बुध्यते हरिशिशुः स्तनंधयःभविता करुणुपरिशेषिता मही ॥५१॥निसर्गादारामे तरुकुलसमारोपसुकृतीकृती मालाकारः बकुलमपि कुत्रापि निदधे ।इदं कः जानीते यदयमिह कोणान्तरगतःजगज्जालं कर्ता कुसुमभरसोरभ्यभरितम् ॥५२॥यस्मिन् खेलति सर्वतः परिचलत्कल्लोलकोलाहलै-र्मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे ।सोऽयं तुङ्गतिमिङ्गिलास्यकललीकारक्रियाकोविदःक्रीडे क्रीडतु कस्य केलिकलहत्यक्तार्णवः राघवः ॥५३॥लूनं मत्तगजै; कियत्कियदपि ्च्छिन्नं तुषारार्दितःशिष्तं ग्रीष्मजभीष्मभानुकिरणौर्भस्मीकृतं काननम् ।एषा कोणगता मुहुः परिमलरामोदयन्ती दिशोहा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥५४॥स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्भुतंपौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।स्त्यं नन्दन किं त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यतेत्वत्तः खान्डवरङ्गताण्डवतटो दूरेऽस्तु वैश्वानरः ॥५५॥स्वस्वव्यापृतिमग्न्मानसतया मत्तो निवृत्ते जनेचञ्चूकोटिविपाटिताररपुटो यास्याम्यहं पञ्जरात् ।एवं कीरवरे मनोरथमयं पीयूषमास्वादय-त्यन्तः संप्रविवेश वारणकराकाअरः फणिग्रामणीः ॥५६॥रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुला-मेतामम्बुधिकामिनीं व्यवसिताः संगाहितुं वा कथम् ।अत्रैवोच्छलदब्म्बुनिर्भरमहावर्तैः समावर्तितोयद्ग्रावेव रसातलं पुनरसौ यातो गजग्रामणीः ॥५७॥पिव स्तन्यं पोत त्वमिह मददन्तावलधियादृगन्तानादत्से किमिति हृदयतापं परिहर-न्नयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥५८॥धीरध्वनिबिरलं ते नीरद मे मासिको गर्भः ।उन्मदवाअरणाम्बुदध्या मध्येजठरं समुच्छलति ॥५९॥वेतण्डकण्डूतिपांडित्यपरिपन्थिना ।हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥६०॥नीरान्निर्मलतो जनिर्मधुरता रमामुखस्पर्धिनीवासो यस्य हरेः करे परिमलो गीर्वाणचेतोहरः ।सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुहत्वं चेत्प्रीतिमुरीकरोषि मधुपे तत्त्वां किमाचक्ष्महे ॥६१॥लीलामुकुलितनयनं किं सुखशयनं समातनुषे ।परिणामविषमहरिणा करिनायक वर्धते वैरम् ॥६२॥विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः ।याताश्चेन्न पराञ्चति द्विरदानां रदा इव ॥६३॥औदार्यं भुवनत्रयेऽपि विदितं स्म्भूतिरम्भोनिधे-र्षासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराःस्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥६४॥एको विश्वसतां हराम्यपघृण प्राणानहं प्राणिना-मित्येवं परिचिन्त्य मात्ममन्सि व्याधानुतापं कृथाः ।भूपानं भवनेषु किं च विमलक्षेत्रेषु गूढाशयाःसाअधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षा नराः ॥६५॥विश्वास्य मधुरवचनैः साधून्ये वञ्चयन्ति नम्रतमाः ।तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥६६॥अन्या जगद्धितमयी मनसः प्रवृत्ति-रन्यैष कापि रचना वचनात्रलीनाम् ।लोकोत्तरा च कृतिराकृतिरार्तहृद्याविद्यावतां सकलमेव गिरां दवीयः ॥६७॥आपद्गतः खलुः महाशयचक्रवर्तीविस्तारयत्यकृतपूर्वमुदारभावम् ।कालागुरुर्दहनमध्यगतः समन्ता-ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥६८॥विश्वाभ्रामगुणगौरवगुम्फितानांरोषोऽपि निर्मलधियां रमणीय एव ।लोकंपृणैः परिमलैः परिपूरितस्यकाश्मीरजस्य कटुतापि नितान्तरम्या ॥६९॥लीलालुण्ठितशारदापुरमहासंपन्नराणां ।विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत्पामराः ।अद्यश्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाःसिंहान्बां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः ॥७०॥गीर्भिर्गुरुणां परुषाक्षराभि-स्तिरस्कृता यान्ति नरा महत्त्वम् ।अलब्धशाणोत्कषणा नृपाणांन जातु मौलौ मणयौ वसन्ति ॥७१॥वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः ।विधुरपि भ्जतेतरां कलङ्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥७२॥सत्पुरुषः खलु हिताचरणैरमन्द-मानन्दयत्यखिललोकमनुक्त एव ।आराधितः कथय केन करैरुदारै-रिन्दुर्विकासयति कैरविणीकुलानि ॥७३॥परार्थव्यासङ्गादुपजहदतह स्वार्थपरता-मभेदैकत्वं यो वहति गुणभूतषु सततम् ।स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमासमर्थो यौ नित्यं स जयतितरां कोऽपि पुरुषः ॥७४॥वंशभुवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः ।न नि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥७५॥अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥७६॥उप्कारमेव तनुते विपद्गतः सद्गुणो नितराम् ।मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥७७॥वनान्ते खेलन्ती शशकशिशुमालोक्य चकिताभुजप्रान्तं भर्तुर्भजति भयहर्तुः सपदि या ।अहो सेयं सीता दशवदननीता हलरदैःपरीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥७८॥पुरो गीर्वाणानां निजभुजबलाहोपुरुशिका-महो कारंकारं पुरभिदि शरं संमुखयतः ।स्मरस्य स्वर्बालानयनसुममालार्चनपदंवपुः सद्यो भालानलभसितजालास्पदमभूत् ॥७९॥किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिःकिं शास्त्रं श्रवणेन यस्य गलति द्वैतन्दकारोदयः ।किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखेकः शत्रुर्वद खेददानकुशलो दुर्वासनासंचयः ॥८१॥निष्णातोऽपि च वेदान्ते सधुत्वं नैति दुर्जनः ।चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ॥८२॥नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् ।शाखिनोऽन्ये विराजन्ते खण्डयन्ते चन्दनद्रुमाः ॥८३॥परोपस्र्पणानन्तचिन्तानलशिखाशतैः ।अचुम्बितान्तःकरणाः सधु जीवन्ति पादपाः ॥८४॥शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः ।विवराणि मुद्रयन् द्रादूर्णायुरिव सज्जनो जयति ॥८५॥खलः सज्जनकार्पासरक्षणैकहुताशनः ।परदुःखाग्निशमनमारुतः केन वर्ण्यताम् ॥८६॥परगुह्यगुप्तिनिपुणं गुणमयमखिलैः समीरितं नितराम् ।ललिताम्बर्मिव सज्जनमाकह्व इव दूषयन्ति खलाः ॥८७॥यशः सौरभ्यलशुनः शान्तिशैत्यहुताशनः ।कारुण्यकुसुमाकाशः खलः सज्जनदुःखदः ॥८८॥धत्ते भरं कुसुमपत्रफलावलीनांध्र्मव्यथं वहति शीतभवां रुजं च ।यो देहमर्पयति चन्यसुखस्य हेतो-स्तस्मै वदान्यफुरवे तरवे नमोऽस्तु ॥८९॥हालाहलं खलु पिपासतु कौतुकेनकालानलं परिचुचुम्बिषति प्रकामम् ।व्यालाधिपं च यतते परिरब्धुमद्धायो दुर्जनं वशयितुं तनुते मनीषाम् ॥९०॥दीनानामिह परिहाय शुष्कसस्या-न्यौदार्यं प्रकटयतो महीधरेषु ।औन्नत्यं परममवाप्य दुर्मदस्यज्ञातोऽयं जलधर तावको विवेकः ॥९१॥गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् ।तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥९२॥व्योमनि बीजाकुरुते चित्रः निर्माति सुन्दरं पवने ।रचयति रेखाः सलिले यस्तु खले चरति सत्कारम् ॥९३॥हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः ।लेढि जिघ्रति संक्षिप्य करोत्युन्नतमासनम् ॥९४॥मलिनेऽपि रागपूर्णां विकसितवदनामनल्पल्जल्पेऽपि ।त्वयि चपलेऽपि सरसां भ्रमर कथं सरोजिनीं त्यजसि ॥९५॥स्वार्थं धननि धनिकात्प्रतिगृह्णतो य-दास्यं भजेन्मलिनतां किमिदं विचित्रम् ।गृह्णन् परार्थमपि वारिनिधेः पयोऽपिमेघोऽपि सकलोऽपि च कालिमानम् ॥९६॥जनकः सानुविशेषो जातिः काष्टं भुजङ्गमैः सङ्गः ।स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥९७॥कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसिस्वात्मूअस्करणाय चेन्मम वचः पथ्यं समाकर्णय ।ये भाषा हृदयं हरन्ति नितरां शोभातरैः संभृता-स्तैरेवास्य कलेः कलेवरपुषो दैनन्दिनं वर्तनम् ॥९८॥धूमयिता दश दिशां दलितारविन्दादेहं दहन्ति धना इव गन्धवाहाः ।त्वाअमन्तरेण मृदुताभ्रदलाम्रमञ्जु-गुञ्जन्मधुव्रत मधो किल कोकिलस्य ॥९९॥भिन्ना महागिरिशिलाः करजाग्रजाग्र-दुद्दामशौर्यनिकरैः करटिभ्रमेण ।दैवे पराचि करिणामरिणा तथापिकुत्रापि नापि खलु हा पिशितस्य लेशः ॥१००॥गर्जितमाकर्ण्य मनागङ्के मातुर्निशार्धजातोऽपि ।हरिशिशुरुत्पतितुं द्रागङ्गन्याकुञ्च्य लीयते निभृतम् ॥१०१॥॥इति श्रिमन्जगन्नाथपण्डितकृतः प्रास्ताविकविलासः संपूर्णः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP