संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|षष्ठप्रपाठकः| तृतीयोऽर्द्धः षष्ठप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः तृतीयोऽर्द्धः षष्ठप्रपाठकः - तृतीयोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद तृतीयोऽर्द्धः Translation - भाषांतर पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।अयक्ष्मा बृहतीरिषः ॥१४३५॥तया पवस्व धारया यया गाव इहागमन् ।जन्यास उप नो गृहं ॥१४३६॥घृतं पवस्व धारया यज्ञेषु देववीतमः ।अस्मभ्यं वृष्टिमा पव ॥१४३७॥स न ऊर्जे व्या३व्ययं पवित्रं धाव धारया ।देवासः शृणवन्हि कं ॥१४३८॥पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् ।प्रत्नवद्रोचयन्रुचः ॥१४३९॥प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥१४४०॥एमेनं प्रत्येतन सोमेभिः सोमपातमं ।अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ॥१४४१॥यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ॥१४४२॥अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतं ।कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत्॥१४४३॥बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे ।सोमाय गाथमर्चत ॥१४४४॥हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन ।मधावा धावता मधु ॥१४४५॥नमसेदुप सीदत दध्नेदभि श्रीणीतन ।इन्दुमिन्द्रे दधातन ॥१४४६॥अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।देवेभ्यो अनुकामकृत्॥१४४७॥इन्द्राय सोम पातवे मदाय परि षिच्यसे ।मनश्चिन्मनसस्पतिः ॥१४४८॥पवमान सुवीर्यं रयिं सोम रिरीहि नः ।इन्दविन्द्रेण नो युजा ॥१४४९॥उद्धेदभि श्रुतामघं वृषमं नर्यापसं ।अस्तारमेषि सूर्य ॥१४५०॥नव यो नवतिं पुरो बिभेद बाह्वोजसा ।अहिं च वृत्रहावधीत्॥१४५१॥स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।उरुधारेव दोहते ॥१४५२॥विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतं ।वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥१४५३॥विभ्राड्बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितं ।अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥१४५४॥इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतं ॥१४५५॥इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि ॥१४५६॥मा नो अज्ञाता वृजना दुराध्यो३ माशिवासोऽव क्रमुः ।त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥१४५७॥अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।विश्वा च नो जरित्ऱीन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥१४५८॥प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कं ।उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥१४५९॥जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः ।सरस्वन्तं हवामहे ॥१४६०॥उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।सरस्वती स्तोम्या भूत्॥१४६१॥तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।धियो यो नः प्रचोदयात्॥१४६२॥सोमानां स्वरणं कृणुहि ब्रह्मणस्पते ।कक्षीवन्तं य औशिजः ॥१४६३॥अग्न आयूंषि पवसे आ सुवोर्जं इषं च नः ।आरे बाधस्व दुच्छुनां ॥१४६४॥ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य ।महि वा क्षत्रं देवेषु ॥१४६५॥ऋतमृतेन सपन्तेषिरं दक्षमाशाते ।अद्रुहा देवौ वर्धेते ॥१४६६॥वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः ।बृहन्तं गर्त्तमाशाते ॥१४६७॥युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।रोचन्ते रोचना दिवि ॥१४६८॥युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृवाहसा ॥१४६९॥केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।समुषद्भिरजायथाः ॥१४७०॥अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि ।त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमं ॥१४७१॥स ईं रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि ।आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥१४७२॥शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥१४७३॥त्वमग्ने यज्ञानां होता विश्वेषां हितः ।देवेभिर्मानुषे जने ॥१४७४॥स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः ।आ देवान्वक्षि यक्षि च ॥१४७५॥वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा ।अग्ने यज्ञेषु सुक्रतो ॥१४७६॥होता देवो अमर्त्यः पुरस्तादेति मायया ।विदथानि प्रचोदयन्॥१४७७॥वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।विप्रो यज्ञस्य साधनः ॥१४७८॥धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।दक्षस्य पितरं तना ॥१४७९॥आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियं ।रसा दधीत वृषभं ॥१४८०॥ते जानत स्वमोक्या३ं सं वत्सासो न मातृभिः ।मिथो नसन्त जामिभिः ॥१४८१॥उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।इन्द्रे अग्ना नमः स्वः ॥१४८२॥तदिदास भुवनेषु ज्येष्टं यतो जज्ञा उग्रस्त्वेषनृम्णः ।सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥१४८३॥वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥१४८४॥त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥१४८५॥त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशं ।स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रं ॥१४८६॥साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रं ॥१४८७॥अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रं ॥१४८८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP