संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|षष्ठप्रपाठकः| द्वितीयोऽर्द्धः षष्ठप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः तृतीयोऽर्द्धः षष्ठप्रपाठकः - द्वितीयोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद द्वितीयोऽर्द्धः Translation - भाषांतर उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।आरे अस्मे च शृण्वते ॥१३७९॥यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु ।अरक्षद्दाशुषे गयं ॥१३८०॥स नो वेदो अमात्यमग्नी रक्षतु शन्तमः ।उतास्मान्पात्वंहसः ॥१३८१॥उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।धनञ्जयो रणेरणे ॥१३८२॥अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः ।अरं वहन्त्याशवः ॥१३८३॥अच्छा नो याह्या वहाभि प्रयांसि वीतये ।आ देवान्त्सोमपीतये ॥१३८४॥उदग्ने भारत द्युमदजस्रेण दविद्युतत् ।शोचा वि भाह्यजर ॥१३८५॥प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः ।अप श्वानमराधसं हता मखं न भृगवः ॥१३८६॥आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।सरज्जारो न योषणां वरो न योनिमासदं ॥१३८७॥स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी ।हरिः पवित्रे अव्यत वेधा न योनिमासदं ॥१३८८॥अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।युधेदापित्वमिच्छसे ॥१३८९॥न की रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥१३९०॥आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥१३९१॥आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥१३९२॥पिबा त्वा३स्य गिर्वणः सुतस्य पूर्वपा इव ।परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥१३९३॥आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरं ।वनप्रक्षमुदप्रुतं ॥१३९४॥सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने ।ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत्॥१३९५॥अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया ।समिद्धः शुक्र आहुतः ॥१३९६॥गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे ।सीदन्नृतस्य योनिमा ॥१३९७॥ब्रह्म प्रजावदा भर जातवेदो विचर्षणे ।अग्ने यद्दीदयद्दिवि ॥१३९८॥अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसं ।सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥१३९९॥भद्रा वस्त्रा समन्याऽऽ३ वसानो महान्कविर्निवचनानि शंसन् ।आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥१४००॥समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥१४०१॥एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु ॥१४०२॥इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य ॥१४०३॥इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥१४०४॥अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः ।देवस्य द्रविणस्यवः ॥१४०५॥अग्निर्जुषत नो गिरो होता यो मानुषेष्वा ।स यक्षद्दैव्यं जनं ॥१४०६॥त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।त्वया यज्ञं वि तन्वते ॥१४०७॥अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशंत वाणीः ।वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ॥१४०८॥शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि ।तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून्॥१४०९॥उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी ।अपः सिषासन्नुषसः स्वा३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान्॥१४१०॥त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः ।त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥१४११॥तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे ।महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन्॥१४१२॥यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यं ।अस्य यज्ञस्य सुक्रतुं ॥१४१३॥अपां नपातं सुभगं सुदीदितिमग्निमु श्रेष्ठशोचिषं ।स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥१४१४॥यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।स यन्ता शश्वतीरिषः ॥१४१५॥न किरस्य सहन्त्य पर्येता कयस्य चित् ।वाजो अस्ति श्रवाय्यः ॥१४१६॥स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।विप्रेभिरस्तु सनिता ॥१४१७॥साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥१४१८॥सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥१४१९॥उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः ।मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥१४२०॥पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः ॥१४२१॥भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥१४२२॥त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि ।चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥१४२३॥स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥१४२४॥ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥१४२५॥अभि वायुं वीत्यर्षा गृणानो३ऽभि मित्रावरुणा पूयमानः ।अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुं ॥१४२६॥अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥१४२७॥अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥१४२८॥यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवं ॥१४२९॥तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वं ॥१४३०॥आमासु पक्वमैरय आ सूर्यं रोहयो दिवि ।घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत्॥१४३१॥मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥१४३२॥आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।सहावां इन्द्र सानसिः पृतनषाडमर्त्यः ॥१४३३॥त्वं हि शूरः सनिता चोदयो मनुषो रथं ।सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥१४३४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP