संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|अथारण्यार्चिकः| पञ्चमी दशतिः अथारण्यार्चिकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः अथारण्यार्चिकः - पञ्चमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद पञ्चमी दशतिः Translation - भाषांतर अग्न आयूंषि पवस आसुवोर्जमिषं च नः ।आरे बाधस्व दुच्छुनां ॥६२७॥विभ्राङ्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतं ।वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥६२८॥चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥६२९॥आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।पितरं च प्रयन्त्स्वः ॥६३०॥अन्तश्चरति रोचनास्य प्राणादपानती ।व्यख्यन्महिषो दिवं ॥६३१॥त्रिंषद्धाम वि राजति वाक्पतङ्गाय धीयते ।प्रति वस्तोरह द्युभिः ॥६३२॥अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।सूराय विश्वचक्षसे ॥६३३॥अदृश्रन्नस्य केतवो वि रश्मयो जनां अनु ।भ्राजन्तो अग्नयो यथा ॥६३४॥तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।विश्वमाभासि रोचनं ॥६३५॥प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् ।प्रत्यङ्विश्वं स्वर्दृशे ॥६३६॥येना पावक चक्षसा भुरण्यन्तं जनां अनु ।त्वं वरुण पश्यसि ॥६३७॥उद्द्यामेषि रजः पृथ्वहा मिमानो अक्तुभिः ।पश्यञ्जन्मानि सूर्य ॥६३८॥अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः ।ताभिर्याति स्वयुक्तिभिः ॥६३९॥सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।शोचिष्केशं विचक्षण ॥६४०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP