संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|अथारण्यार्चिकः| प्रथमा दशतिः अथारण्यार्चिकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः अथारण्यार्चिकः - प्रथमा दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद प्रथमा दशतिः Translation - भाषांतर इन्द्र ज्येष्ठं न आ भर ओजिष्ठं पुपुरि श्रवः ।यद्दिधृक्षेम वज्रहस्त रोदसी ओभे सुशिप्र पप्राः ॥५८६॥इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य ।ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक् ॥५८७॥यस्येदमा रजोयुजस्तुजे जने वनं स्वः ।इन्द्रस्य रन्त्यं बृहत् ॥५८८॥उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।अथादित्य व्रते वयं तवानागसो अदितये स्याम ॥५८९॥त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् ।तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५९०॥इमं वृषणं कृणुतैकमिन्मां ॥५९१॥स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।वरिवोवित्परिस्रव ॥५९२॥एना विश्वान्यर्य आ द्युम्नानि मानुषाणां ।सिषासन्तो वनामहे ॥५९३॥अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम ।यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥५९४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP