संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|अथारण्यार्चिकः| चतुर्थी दशतिः अथारण्यार्चिकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः अथारण्यार्चिकः - चतुर्थी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद चतुर्थी दशतिः Translation - भाषांतर भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि ।स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशेऽदाः ॥६१५॥वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः ।वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥६१६॥सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।स भूमिं सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलं ॥६१७॥त्रिपादूर्ध्व उदैत्पुरुषः पदोऽस्येहाभवत्पुनः ।तथा विष्वङ्व्यक्रामदशनानशने अभि ॥६१८॥पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यं ।पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ॥६१९॥तावानस्य महिमा ततो ज्यायांश्च पूरुषः ।उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥६२०॥ततो विराडजायत विराजो अधि पूरुषः ।स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥६२१॥मन्ये वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनं ।द्यावापृथिवी भवतं स्योने ते नो मुञ्चतमंहसः ॥६२२॥हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरि ।तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः ॥६२३॥यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत ।सत्यस्य ब्रह्मणो वर्चस्तेन मा सं सृजामसि ॥६२४॥सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् ।क्रतुं न नृम्णं स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः ॥६२५॥सहर्षभाः सहवत्सा उदेत विश्वा रूपाणी बिभ्रतीर्द्व्यूद्नीः ।उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त ॥६२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP