संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - पञ्चमप्रपाठकः| चतुर्थी दशतिः छन्द आर्चिकः - पञ्चमप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः पञ्चमप्रपाठकः - चतुर्थी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद चतुर्थी दशतिः Translation - भाषांतर आ ते अग्न इधीमहि द्युमन्तं देवाजरं ।युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥४१९॥आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे ।शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥४२०॥महे नो अद्य बोधयोषो राये दिवित्मती ।यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥४२१॥भद्रं नो अपि वातय मनो दक्षमुत क्रतुं ।अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥४२२॥क्रत्वा महां अनुष्वधं भीम आ वावृते शवः ।श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसं ॥४२३॥स घा तं वृषणं रथमधि तिष्ठाति गोविदं ।यः पात्रं हारियोजनं पूर्णमिन्द्रा चिकेतति योजा न्विन्द्र ते हरी ॥४२४॥अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥४२५॥न तमंहो न दुरितं देवासो अष्ट मर्त्यं ।सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ॥४२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP