संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - पञ्चमप्रपाठकः| प्रथमा दशतिः छन्द आर्चिकः - पञ्चमप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः पञ्चमप्रपाठकः - प्रथमा दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद प्रथमा दशतिः Translation - भाषांतर गृणे तदिन्द्र ते शव उपमां देवतातये ।यद्धंसि वृत्रमोजसा शचीपते ॥३९१॥यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् ।अयं स सोम इन्द्र ते सुतः पिब ॥३९२॥एन्द्र नो गधि प्रिय सत्राजिदगोह्य ।गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥३९३॥य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।येना हंसि न्या३त्रिणं तमीमहे ॥३९४॥तुचे तुनाय तत्सु नो द्राधीय आयुर्जीवसे ।आदित्यासः समहसः कृणोतन ॥३९५॥वेत्था हि निरृतीनां वज्रहस्त परिवृजं ।अहरहः शुन्ध्युः परिपदामिव ॥३९६॥अपामीवामप स्त्रिधमप सेधत दुर्मतिं ।आदित्यासो युयोतना नो अंहसः ॥३९७॥पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।सोतुर्बाहुभ्यां सुयतो नार्वा ॥३९८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP