संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - पञ्चमप्रपाठकः| तृतीया दशतिः छन्द आर्चिकः - पञ्चमप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः पञ्चमप्रपाठकः - तृतीया दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद तृतीया दशतिः Translation - भाषांतर स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः ।या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यं ॥४०९॥इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनं ।शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यं ॥४१०॥इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥४११॥इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यं ।यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यं ॥४१२॥प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते ।इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यं ॥४१३॥यदुदीरत आजयो धृष्णवे धीयते धनं ।युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ॥४१४॥अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥४१५॥उपो षु शृणुही गिरो मघवन्मातथा इव ।कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ॥४१६॥चन्द्रमा अप्स्वा३न्तरा सुपर्णो धावते दिवि ।न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥४१७॥प्रति प्रियतमं रथं वृषणं वसुवाहनं ।स्तोता वामश्विनावृशि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवं ॥४१८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP