संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - चतुर्थप्रपाठकः| सप्तमी दशतिः छन्द आर्चिकः - चतुर्थप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः चतुर्थप्रपाठकः - सप्तमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद सप्तमी दशतिः Translation - भाषांतर प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥३५२॥आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठां ।उग्रं वचो अपावधीः ॥३५३॥आ त्वा रथं यथोतये सुम्नाय वर्तयामसि ।तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिं ॥३५४॥स पूर्व्यो महोनां वेनः क्रतुभिरानजे ।यस्य द्वारा मनुः पिता देवेषु धिय आनजे ॥३५५॥यदी वहन्त्याशवो भ्राजमाना रथेष्वा ।पिबन्तो मदिरं मधु तत्र श्रवांसि कृण्वते ॥३५६॥त्यमु वो अप्रहणं गृणीषे शवसस्पतिं ।इन्द्रं विश्वासाहं नरं शचिष्ठं विश्ववेदसं ॥३५७॥दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।सुरभि नो मुखा करत्प्र न आयूंषि तारिषत् ॥३५८॥पुरां भिन्दुर्युवा कविरमितौजा अजायत ।इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥३५९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP