संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - चतुर्थप्रपाठकः| दशमी दशतिः छन्द आर्चिकः - चतुर्थप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः चतुर्थप्रपाठकः - दशमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद दशमी दशतिः Translation - भाषांतर इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यं ।विदे वृधस्य दक्षस्य महां हि षः ॥३८१॥तमु अभि प्र गायत पुरुहूतं पुरुष्टुतं ।इन्द्रं गीर्भिस्तविषमा विवासत ॥३८२॥तं ते मदं गृणीमसि वृषणं पृक्षु सासहिं ।उ लोककृत्नुमद्रिवो हरिश्रियं ॥३८३॥यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥३८४॥एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः ।एवा हि वीरस्तवते सदावृधः ॥३८५॥एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।प्र राधांसि चोदयते महित्वना ॥३८६॥एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरं ।कृष्टीर्यो विश्वा अभ्यस्त्येक इथ् ॥३८७॥इन्द्राय साम गायत विप्राय बृहते बृहत् ।ब्रह्मकृते विपश्चिते पनस्यवे ॥३८८॥य एक इद्विदयते वसु मर्ताय दाशुषे ।ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥३८९॥सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।स्तुष ऊ षु वो नृतमाय धृष्णवे ॥३९०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP