संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शृङ्गारतिलक| प्रथमः परिच्छेदः शृङ्गारतिलक प्रथमः परिच्छेदः द्वितीय परिच्छेदः तृतीय परिच्छेदः शृङ्गारतिलक - प्रथमः परिच्छेदः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpoemकाव्यमहाकाव्यरुद्रभट्टशृङ्गारतिलकसंस्कृत प्रथमः परिच्छेदः Translation - भाषांतर शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरेबीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया ।रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिराद्इत्थं सर्वरसाश्रयः पशुपतिर्भूयात्सतां भूतये ॥१.१॥आख्यातनामरचनाचतुरस्रसन्धिसद्वागलङ्कृतिगुणं सरसं सुवृत्तं ।आसेदुषां अपि दिवं कविपुङ्गवानांतिष्ठत्यखण्डं इह काव्यमयं शरीरं ॥१.२॥काव्ये शुभेऽपि रचिते खलु नो खलेभ्यःकश्चिद्गुणो भवति यद्यपि सम्प्रतीह ।कृपां तथापि सुजनार्थं इदं यतः किंयूकाभयेन परिधानविमोक्षणं स्याथ् ॥१.३॥सानन्दप्रमदाकटाक्षविशिखैर्येषां न भिन्नं मनोयैः संसारसमुद्रपातविधुरेष्वन्येषु पोतयितं ।यैर्निःसीमसरस्वतीविलसितं द्वित्रैः पदैः संहृतंतेषां अप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥१.४॥प्रायो नाट्यं प्रति प्रोक्ता भरताद्यै रसस्थितिः ।यथामति मयाप्येषा काव्यं प्रति निगद्यते ॥१.५॥यामिनीवेन्दुना मुक्ता नारीव रमणं विना ।लक्ष्मीरिव ऋते त्यागान्नो वाणी भाति नीरसा ॥१.६॥सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश्चातुरीस्वे हर्म्ये कुलकन्यकेव लभते जातैर्गुणैर्गौरवं ।दुष्प्रापः स तु कोऽपि कोविदपतिर्यद्वाग्रसग्राहिणांपुण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा ॥१.७॥तस्माद्यत्नेन कर्तव्यं काव्यं रसनिरन्तरं ।अन्यथा शास्त्रविद्गोष्ठ्यां तत्स्यादुद्वेगदायकं ॥१.८॥शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्च नव काव्ये रसाः स्मृताः ॥१.९॥रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥१.१०॥निर्वेदोऽथ तथा ग्लानिः शङ्कासूया मदः श्रमः ।आलस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥१.११॥व्रीडा चपलता हर्ष आवेगो जडता तथा ।गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥१.१२॥सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्था तथोग्रता ।मतिर्व्याधिस्तथोन्मादस्तथा मरणं एव च ॥१.१३॥त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।त्रयस्त्रिंशदिमे भावाः प्रयान्ति च रसस्थितिं ॥१.१४॥स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।वैवर्ण्यं अश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥१.१५॥भावा एवातिसम्पन्नाः प्रयान्ति रसतां अमी ।यथा द्रव्याणि भिन्नानि मधुरादिरसात्मनां ॥१.१६॥सम्भवन्ति यथा वृक्षे पुष्पपत्रफलादयः ।तद्वद्रसेऽपि रुचिरा विशेषा भावरूपिणः ॥१.१७॥प्रायो नैकरसं काव्यं किञ्चिदत्रोपलभ्यते ।बाहुल्येन भवेद्यस्तु स तद्वृत्त्या निगद्यते ॥१.१८॥कैशिक्यारभटी चैव सात्वती भारती तथा ।चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥१.१९॥धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः ।साधीयानेष तत्सिद्ध्यै शृङ्गारो नायको रसः ॥१.२०॥चेष्टा भवति पुंनार्योर्या रत्युत्थातिरिक्तयोः ।संयोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ॥१.२१॥संयुक्त्योश्च संयोगो विप्रलम्भो वियुक्तयोः ।प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा यथा ॥१.२२॥मदनकुञ्जरकुम्भतटोपमेस्तनयुगे परितः स्फुरिताङ्गुलिं ।सकरजक्षतवामं अपि प्रियादयितपाणिं अमन्यत दक्षिणं ॥१.२२॥सन्तप्तः स्म्रसंनिवेशविवशैः श्वासैर्मुहुः पञ्चमोद्गारावर्तिभिरापतद्भिरभितः सिक्तश्च नेत्राम्बुभिः ।एतस्याः प्रियविप्रयोगविधुरस्त्यक्त्वाधरो रागितांसम्प्रत्युद्धतवह्निवारिविषमं मन्ये व्रतं सेवते ॥१.२२॥कान्ते विचित्रसुरतक्रमबद्धरागेसङ्केतकेऽपि मृगशावकलोचनायाः ।तत्कूजितं किं अपि येन तदीयतल्पंनाल्पैः परीतं अनुशब्दितलावकौघैः ॥१.२२॥ (Sकं १११६)किञ्चिद्वक्रितकण्ठकन्दलदलत्पीनस्तनावर्तनव्यायां चितकञ्चुकं मृगदृशस्तस्यास्तदालोकितं ।वाचस्ताश्च विदग्धभावचतुराः स्फारीभवन्मन्मथाहंहो मानस किं स्मरस्यभिमताः सिद्ध्यन्ति पुण्यैः क्रियाः ॥१.२२॥त्यागी कुलीनः कुशलो रतेषुकल्पः कलावित्तरुणो धनाढ्यः ।भव्यः क्षमावान्सुभगोऽभिमानीस्त्रीणां अभीष्टस्त्विह नायकः स्याथ् ॥१.२३॥तस्यानुकूलदक्षिणशठधृष्टा इत्थं अत्र चत्वारः ।भेदाः क्रिययोच्यन्ते तदुदाहृतयश्रमणीयाः ॥१.२४॥अतिरक्ततया नार्या सदा त्यक्तपराङ्गनः ।सीतायां रामवत्सोऽयं अनुकूलः स्मृतो यथा ॥१.२५॥अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलंनो वक्त्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः ।किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतोदृष्टिं निःक्षिपतीति विश्वं इयता मन्यामहे दुःखितं ॥१.२५॥यो गौरवं भयं प्रेम सद्भावं पूर्वयोषिति ।न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥१.२६॥सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रियाभीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितं ।कान्तस्याप्रियकारिणीति भवती तं वक्ति दोषाबिलंकिं स्यादित्थं अहर्निशं सखि मनो दोलायते चिन्तया ॥१.२६॥प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशं ।ज्ञातापराधचेष्टश्च कुटिलोऽसौ शठो यथा ॥१.२७॥सहजतरले आवां तावद्बहुश्रुतिशालिनौपुनरिह युवां सत्यं शिष्टं तदत्र कृतागसि ।प्रणयिनि पुनर्युक्तं रन्तुं न वेति बतावयोर्ध्रुवं उपगते कर्णौ प्रष्टुं कुरङ्गदृशौ दृशौ ॥१.२७॥अपि चकोपात्किञ्चिदुपानतोऽपि रभसादाकृष्य केशेष्वलंनीत्वा मोहनमन्दिरं दयितया हारेण बह्वा दृढं ।भूयो यास्यसि तद्गृहानिति मुहुः कण्ठारुद्धाक्षरंजल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताड्यते ॥१.२७॥ निःशङ्कः कृतदोषोऽपि विलक्षस्तर्जितोऽपि नो ।मिथ्यावाग्दृष्टदोषोऽपि धृष्टोऽसौ कथितो यथा ॥१.२८॥जल्पन्त्याः परुषं रुषा मम बलाच्चुम्बत्यसावाननंमृद्गात्याशु करं करेण बहुशः सन्ताड्यमानोऽपि सन् ।आलीनां पुरतो दधाति शिरसा पादप्रहारांस्ततोनो जाने सखि साम्प्रतं प्रणयिएन्कुप्यामि तस्मै कथं ॥१.२८॥अपि चधिक्त्वां धूर्त गतत्रप प्रणयिनी सैव त्वयाराध्यतांयस्याः पादतलाहतिं तव हृदि व्याख्यात्यसौ यावकः ।इत्युक्तोऽपि न नाम मुञ्चति यदा पादावयं दुर्जनोमिथ्यावादविचक्षणः किं अपरं कुर्यां वयस्ये तदा ॥१.२८॥गूढमन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः ।स्यान्नर्मसचिवस्तस्य कुपितस्स्त्रीप्रसादकः ॥१.२९॥पीठमर्दो विटश्चेति विदूषक इति त्रिधा ।स भवेत्प्रथमस्तत्र नायिकानायकानुगः ॥१.३०॥एकविद्यो विटः प्रोक्तः क्रीडाप्रायो विदूषकः ।स्ववपुर्वेषभाषाभिर्हास्यकारी च नर्मविथ् ॥१.३१॥एषां प्रबन्धविषयो व्यवहारः प्रायशो भवेत्प्रचुरः ।प्रत्येकं उदाहृतस्तथापि काश्चिन्निगद्यन्ते ॥१.३२॥विमुञ्चामुं मानं सफलय वचः साधु सुहृदांमुधा सन्तापेन ग्लपयसि किं अङ्गं स्मरभुवा ।प्रियं पादप्रान्तप्रणतं अधुना मानय भृशंन मुग्धे प्रेत्येतुं प्रभवति गतः कालहरिणः ॥१.३२॥प्रणयिनि भृशं तस्मिन्मानं मनस्विनि मा कृथाःकिं अपरं इतो युक्तायुक्तैर्विना ह्यमुना तव ।अयं अपि भवेत्सम्प्रत्यपि क्षयानलसंनिभःसरसविसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥१.३२॥दूरात्कन्दलितैर्हृदि प्रविततैः कण्ठे लुठद्भिर्हठाद्वक्त्रे सङ्कटनासिकातरलितैर्निर्यद्भिरत्यूष्मभिः ।निःश्वासैः पृथुमन्मथोत्थदवथुर्व्यक्तं तवावेदितो म्थ्यालम्बितसौष्ठवेन किं अतः कोपेन कान्तं प्रति ॥१.३२॥स्वकीया परकीया च सामान्यवनिता तथा ।कलाकलापकुशलास्तिस्रस्तस्येह नायिकाः ॥१.३३॥पौराचाररता साध्वी क्षमार्जवविभूषिता ।मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता ॥१.३४॥मुग्धा नववधूस्तत्र नवयौवनभूषिता ।नवानङ्गरहस्यापि लज्जाप्रायरतिर्यथा ॥१.३५॥गतं कर्णाभ्यर्णे प्रसरति तथाप्यक्षियुगलंकुचौ कुम्भारम्भौ तदपि चिबुकोत्तम्भनरुची ।नितम्बप्राग्भारो गुरुरपि गुरुत्वं मृगयतेकथंचिन्नो तृप्तिस्तरुणिमनि मन्ये मृगदृशः ॥१.३५॥यथा रोमाञ्चोऽयं स्तनभुवि लसत्स्वेदकणिकोयथा दृष्टिस्तिर्यक्पतति सहसा सङ्कुचति च ।तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादितरसंन मध्यस्थं चेतः प्रगुणरमणीयं न च दृढं ॥१.३५॥विरम नाथ विमुञ्च ममाञ्चलंशमय दीपं इयं समया सखी ।इति नवोढवधूवचसा युवामुदं अगादधिकां सुअरतादपि ॥१.३५॥ (Sकं ५०१)सकम्पा चुम्बने वक्त्रं हरत्येषोपगूहिता ।परावृत्य चिरं तल्प आस्ते रन्तुं च वाञ्छति ॥१.३६॥अपहरति यदास्यं चुम्बने श्लिष्यमाणावलति च शयनीये कम्पते च प्रकामं ।वदति च यदलक्ष्यं किञ्चिदुक्तापि भूयोरमयति सुतरां तच्चित्तं अन्तर्नवोढा ॥१.३६॥मुग्धां आवर्जयत्येष मृदूपायेन सान्त्वयन् ।नातिभीतिकरैर्भावाइर्निबन्धैर्बालभीषकैः ॥१.३७॥सरति सरस्तीरादेषा भ्रमद्भ्रमरावलीसुमुखि विमुखी पद्मे मन्ये तवास्यपिपासया ।इति निगदिते किञ्चिद्भीत्या विवर्तितकन्धरावदनकमले भर्त्रा बाला चिरं परिचुम्बिता ॥१.३७॥अन्यां निषेवमाणेऽपि यदि कुप्यति सा प्रिये ।रोदित्यस्याग्रतः स्वल्पं अनुनीता च तुष्यति ॥१.३८॥मन्यौ कृते प्रथमं एव विकारं अन्यंनो जानती नववधू रुदती परं सा ।धूर्तेन लोचनजलं परिमृज्य गाढंसंचुम्ब्य चाधरदले गमिता प्रसादं ॥१.३८॥आरूढयौवना मध्या प्रादुभूतमनोभवा ।प्रगल्भवचना किञ्चिद्विचित्रसुरता यथा ॥१.३९॥तरत्तारं चक्षुः क्षपयति मुनीनां अपि दृशःकुचद्वन्द्वाक्रान्तं हृदयं अहृदः कान्न कुरुते ।गतिर्मन्दीभूता हरति गमनं मन्मथवतामहो तन्व्यास्तुल्यं तरुणिमनि सर्वं विजयते ॥१.३९॥दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्यभाजो गिरःपाणिः कुन्तलमालिकाविरचने त्यक्तान्यकार्यग्रहः ।वक्षः संव्रियते पुनः पुनरिदं भारालसं गम्यते जाता सुभ्रु मनोरमा तव दशा कस्मादकस्मादियं ॥१.३९॥ सुभग कुरवकस्त्वं नो किं आलिङ्गनोक्तिःकिं उ मुखमदिरेच्छुः केसरो नो हृदिस्थः ।त्वयि नियतं अशोके युज्यते पादघातःप्रियं इति परिहासात्पेशलं काचिदूचे ॥१.३९॥कान्ते तथा कथं अपि प्रथितं मृगाक्ष्याचातुर्यं उद्धतमनोभवया रतेषु ।तत्कूजितान्यनुवदद्भिरनेकवारंशिष्यायितं गृहकपोतशतैर्यथास्याः ॥१.३९॥गाढं व्याप्रियते कान्तं इबतीव रतावियं ।विशतीव तदङ्गेषु मुह्यतीव सुखे यथा ॥१.४०॥कृत्वानेकविधां रसेन सुरते केलिं कथञ्चिच्चिरात्प्राप्तान्तः सुखमीलिताक्षियुगला स्विद्यत्कपोलस्थली ।सुप्तेयं किल सुन्दरीति सुभगः स्वैरं तथैवास्वजद्गाढानङ्गविमर्दनिःसहवपुर्निद्रां सहैवागतः ॥१.४०॥सा धीरा वक्ति वक्रोक्त्या प्रियं कोपात्कृतागसं ।मध्या रोदित्युपालम्भैरधीरा परुषं यथा ॥१.४१॥उपेत्य तां दृढपरिरम्भलालसश्चिरादभूः प्रमुपितचारुचन्दनः ।धृताञ्जनः सपदि तदक्षिचुम्बनादिहैव ते प्रिय विदिता कृतार्थता ॥१.४१॥यत्रार्कायितं इन्दुना सरसिजैरङ्गारपुञ्जायितंक्रुद्धायां मयि नाथ ते कदलिकाकाण्डैरलातायितं ।कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विषात्माधुनाधिक्त्वां धूर्त विनिर्यदश्रुरबला मोहं रुदन्ती गता ॥१.४१॥सार्धं मनोरथशतैस्तव धूर्त कान्तासैव स्थिता मनसि कृत्रिमभावरम्या ।अस्माकं अस्ति न हि कश्चिदिहावकाशस्तस्मात्कृतं चरणपातविडम्बनाभिः ॥१.४१॥ लब्धायतिः प्रगल्भा स्यात्समस्तरतिकोविदा ।आक्रान्तनायिका बाढं विराजद्विभ्रमा यथा ॥१.४२॥सेयं परङ्गिनी मृणाललतिकां आदाय यस्याः प्रियोहारं मे कुरुते पयोधरतटे प्रत्यग्रतारारुचं ।बन्धूकं च तदेतदालि विदलद्यत्तेन सीमन्तितंसर्वाशाविजिगीषुपुष्पधनुषो बाणश्रियं धास्यति ॥१.४२॥यत्र स्वेदलवैरलं व्लुलितैर्व्यालुप्यते चन्दनंस्वच्छन्दैर्मणितैश्च यत्र रणितं निह्नूयते नूपुरं ।यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेकाग्रतांसख्यस्तत्सुरतं भणामि रतये शेषा तु लोकस्थितिः ॥१.४२॥स्वामिन्भङ्गुरयालकं सतिलकं भालं विलासिन्कुरुप्राणेश त्रुटितं पयोधरतटे हारं पुनर्योजय ।इत्युक्त्वा सुरतावसानसुखिता सम्पूर्णचद्न्रानना स्पृष्टा तेन तथेति जातपुलका प्राप्ता पुनर्मोहनं ॥१.४२॥ मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनैरलसवलितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितैस्त्रिभुवनजये सा पञ्चेषोः करोति सहायतां ॥१.४२॥ निराकुला रतावेषा द्रवतीव प्रियाङ्गके ।कोऽयं कास्मि रतं किं वा न वेत्ति च रसाद्यथा ॥१.४३॥धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलग्नेऽपि याःप्रागल्भ्यं प्रथयन्ति मोहनविधावालम्ब्य धैर्यं महथ् ।अस्माकं तु तदीयपाणिकमलेऽप्युन्मोचयत्यंशुकंकोऽयं का वयं अत्र किं नु सुरतं नैव स्मृतिर्जायते ॥१.४३॥कृतदोषेऽपि साधीरा तस्मिन्नाद्रियते रुषा ।आकारसंवृतिं चापि कृत्वोदास्ते रतौ यथा ॥१.४४॥यद्वाचः प्रचुरोपचारचतुरा यत्सादरं दूरतःप्रत्युत्थानं इदं स्वहस्तनिहितं यद्भिन्नं अप्यासनं ।उत्पश्यामि यदेवं एव च मुहुर्दृष्टिं सखीसंमुखींतच्छङ्के तव पङ्कजाक्षि बलवान्कोऽप्यप्रसादो मयि ॥१.४४॥यत्पाणिर्न निवारितो निवसनग्रन्थिं स्ॐउद्ग्रन्थयन्भ्रूभेदो न कृतो मनागपि मुहुर्यत्खण्ड्यमानेऽधरे ।यन्निःशङ्कं इवार्पितं वपुरहो पत्युः समालिङ्गनेमानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥१.४४॥मध्या प्रतिभिनत्त्येनं सोल्लुण्ठं साधुभाषितैः ।अधीरा पुरुषैर्हन्ति सन्तर्ज्य दयितं यथा ॥१.४५॥कृतं मिथ्याजल्पैर्विरम विदितं कामुक चिरात्प्रियां तां एवोच्चैरभिसर यदीयैर्नखपदैः ।विलासैश्च प्राप्तं तव हृदि पदं रगबहुलैर्मया किं ते कृत्यं ध्रुवं अकुटिलाचारपरया ॥१.४५॥सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजाभूयो द्रक्ष्यसि तां शठेति दयितं संतर्ज्य संतर्ज्य च ।आलीनां पुर एव निह्नुतिपरः कोपाद्रणन्नूपुरंमानिन्या चरणप्रहारविधिना प्रेयानशोकीकृतः ॥१.४५॥एकाकारा मता मुग्धा पुनर्भूश्च यतोऽनयोः ।अतिसूक्ष्मतया भेदः कविभिर्न प्रदर्शितः ॥१.४६॥मध्या पुनः प्रगल्भा च द्विधा सा परिभिद्यते ।एका ज्येष्ठा कनिष्ठान्या नायकप्रणयं प्रति ॥१.४७॥उपरोधात्तथा स्नेहात्सानुरागोऽपि नायकः ।चेष्टते तां प्रति प्रायः कलासु कुशलो यथा ॥१.४८॥त्वदक्षिणी कुवलयबुद्धिरत्यली रुणध्म्यहं तदिति निमीय लोचने ।ततो भृशं पुलकितगण्डमण्डलांयुवा परां निभृतं अचुम्बदङ्गनां ॥१.४८॥सम्पत्तौ च विपत्तौ च मरणेऽपि न मुञ्चति ।या स्वीया तां प्रति प्रेम जायते पुण्यकारिणः ॥१.४९॥अन्यदीया द्विधा प्रोक्ता कन्योढा चेति ते प्रियेदर्शनाच्छ्रवणाद्वापि कामार्ते भवतो यथा ॥१.५०॥किं अपि ललितैः स्निग्धैः किञ्चित्किं अप्यतिकुञ्चितैःकिं अपि वलितैः कन्दर्पेषून्हसद्भिरिवेक्षणैः ।अभिमतमुखं वीक्षां चक्रे नवाङ्गनया तथाललितकुशलोऽप्यालीलोको यथातिविसिस्मये ॥१.५०॥निशमय्य बहिर्मनोहरं स्वरं ऐक्षिष्ट तथापरा या ।तिलमात्रकं अप्यभून्नहि श्रवेणेन्दीवरलोचनानन्तरं ॥१.५०ब्॥कस्याश्चित्सुभग इति श्रुतश्चिरं यस्तंदृष्ट्वाधिगतरतेर्निर्मीलिताक्ष्याः ।निस्पन्दं वपुरवलोक्य सौविदल्लाःसन्तेपुर्विधुरधियो निशान्तवध्वाः ॥१.५०च्॥कार्श्यजागरतापान्यः करोति श्रुतोऽप्यलं ।तं एव दुर्लभं कान्तं चेतः कस्माद्दिदृक्षसे ॥१.५०द्॥साक्षाच्चित्रे तथा स्वप्ने तस्य स्याद्दर्शनं त्रिधा ।देशे काले च भङ्ग्या च श्रवणं चास्य तद्यथा ॥१.५१॥सत्यं सन्ति गृहे गृहे प्रियतमा येषां भुजालिङ्गनव्यापारोच्छलदच्छमोहनजला जायन्त एणीदृशः ।प्रेयान्कोऽप्यपरोऽयं अत्र सुकृती दृष्टेऽपि यस्मिन्वपुःस्वेदोज्जृम्भणकम्पसाध्वसमुखैः प्राप्नोति काञ्चिद्दृशां ॥१.५१॥ चित्रं चित्रगतोऽप्येष ममालि मदनोपमः ।समुन्मूल्य बलाल्लज्जां उत्कण्ठयति मानसं ॥१.५१॥ मुग्धा स्वप्नसमागते प्रियतमे तत्पाणिसंस्पर्शनाद्रोमाञ्चार्चितया शरीरलतया संसूच्य कोपात्किल ।मा मां वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुःसख्या नो हसिता सचिन्तं असकृत्संशोचिता प्रत्युत ॥१.५१॥स्फारस्फुरत्प्रदीपं सौधं मधु सोत्पलं कलं गीतं ।प्रियसखि सकलं इदं तव सफलं खलु यदि भवेत्सोऽत्र ॥१.५१॥विकसति कैरवनिकरे सरति च सरसीसमीरणो सुतनु ।चम्बत्यम्बरं इन्दौ तव तेन विना रतिः कीदृक् ॥१.५१॥अजननिरस्तु दृशोस्तव कुचयोरभवनिरलं भवतु ।यदि दृश्यते न स युवा निर्भरं आलिङ्ग्यते नो वा ॥१.५१॥द्रष्टुं वक्तुं च नो कन्या रक्ता शक्नोत्यमुं स्फुटं ।पश्यन्तं अभिजल्पन्तं विविक्तेऽपि ह्रिया यथा ॥१.५२॥कामं न पश्यति दिदृक्षत एव भूम्नानोक्तापि जल्पति विवक्षति चादरेण ।लज्जास्मरव्यतिकरेण मनोऽधिनाथे बाला रसान्तरं इदं ललितं बिभर्ति ॥१.५२॥विज्ञातनायिकाचित्ता सखी वदति नायकं ।नायको वा सखीं तस्याः प्रेमाभिव्यक्तये यथा ॥१.५३॥कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयं ।तव कुमुदिनीव वाञ्छति नृचन्द्र बाला करस्पृशं ॥१.५३॥सन्तापयन्ति शिशिरांशुरुचो यदेतेसंमोहयन्ति च विनिद्रसरोजवाताः ।यत्खिद्यते तनुरियं च तदेष दोषःसख्यास्तवैव सुतनु प्रचुरत्रपायाः ॥१.५३॥अपश्यन्तं च सा कान्तं स्फारिताक्षी निरीक्ष्यते ।दूरादालोकयत्येव सखीं स्वजनि निर्भरं ॥१.५४॥निर्निमित्तं हसन्ती च सखीं वदति किंचन ।सव्याजं सुन्दरं किञ्चिद्गात्रं आविष्करोति च ॥१.५५॥सख्यादि स्थापितां मालां काञ्च्यादि रचयेत्पुनः ।चेष्टां च कुरुते रम्यां अङ्गभङ्गैः शुभैर्यथा ॥१.५६॥अभिमुखगते यस्मिन्नेव प्रिये बहुशो वदत्यवनतमुखं तूष्णीं एव स्थितं मृगनेत्रया ।अथ किल वलल्लीलालोकं स एष तथेक्षितःकथं अपि यथा दृष्टा मन्ये कृतं श्रुतिलङ्घनं ॥१.५६॥तिर्यग्वर्तितगात्रयष्टिविषमोद्वृत्तस्तनास्फालनत्रुट्यन्मौक्तिकमालया सपुलकस्वेदोल्लसद्गण्डया ।दूरादेव विलोकयेत्यभिमते तद्वक्त्रदत्तेक्षणंदुर्वारस्मरया तया सहचरी गाढं समालिङ्गिता ॥१.५६॥ अनिमित्तं यद्विहसति निष्कारणं एव यत्सखीं वदति ।दयितं विलोक्य तदियं शंसति तदधीनं आत्मानं ॥१.५६॥प्रादुष्यद्रुजमूलकान्तिललितां उद्यम्य दोर्वल्लरींवल्गत्पीनपयोधरस्थललुलन्मुक्तावलीसुन्दरं ।अङ्गुल्या प्रचलत्कराग्रवलयस्वानोपहूतस्मरंतन्व्याः कुञ्चितलोचनं विजयते तत्कर्णकण्डूयनं ॥१.५६॥स्रहोऽवतंसं रशनां च किञ्चित्प्रियं समालोक्य समासजन्ती ।पुनस्तरां सा सुहृदो ददातिप्रत्यङ्गं आवासं इव स्मरस्य ॥१.५७॥व्याजृम्भणोन्नमितदन्तमयूखजालव्यालम्बिमौक्तिकगुणं रमणे मुदेव ।ऊर्ध्वं मिलद्भुजलतावलयप्रपञ्चसत्तोरणं हृदि विशत्यपरा व्युदासे ॥१.५७॥अन्योढापि करोत्येव सर्वं उद्धतमन्मथा ।दुरवस्था पुनः कान्तं अभियुङ्क्ते स्वयं यथा ॥१.५८॥उल्लङ्घ्याî सखीवचः समुचितां उत्सृज्य लज्जां अलंहित्वा भीतिभरं निरस्य च निजं सौभाग्यगर्वं मनाक् ।आज्ञां केवलं एव मन्मथगुरोरादाय नूनं मयात्वं निःशेषविलासिवर्गगणनाचूडामणे संश्रितः ॥१.॥चक्षुर्मीलति सानन्दं नितम्बः प्रस्रवत्यपि ।वेपते च तनुस्तन्वी तस्यास्तद्दर्शने यथा ॥१.५९॥मीलन्मन्थरचक्षुषा परिपतत्काञ्चीग्रहव्यग्रयागाडानन्ङ्गभरस्रवत्रवनया कम्पोपरुद्धाङ्गया ।सर्वाङ्गं चटुकारकोऽप्यबलया सङ्केतके कौतुकादास्तां रन्तुं अहो निरीक्षितुं अपि प्रेयान्न सम्भावितः ॥१.५९॥नाभियुङ्क्ते स्वयं कन्त्या मुग्धत्वाद्दुःस्थितापि तं ।तदवस्थां तु कान्ताय तत्सखी कथयेद्यथा ॥१.६०॥निःश्वासेषु स्खलति कदलीबीजनं तापसम्पन्नेत्राम्भोभिश्छं इति पतितैः सिच्यते च स्तनान्तः ।तस्याः किञ्चित्सुभग तदभूत्तानवं त्वद्वियोगेयेनाकस्माद्वलयपदवीं अङ्गुलीयं प्रयाति ॥१.६०॥अनन्यशरणा स्वीया धनाहार्या पराङ्गना ।अस्यास्तु केवलं प्रेम तेनैषा रागिणां मता ॥१.६१॥सामान्या वनिता वेश्या सा द्रव्यं परं इच्छति ।निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्यपि ॥१.६२॥तत्स्वरूपं इदं प्रोक्तं कैश्चिद्ब्रूमो वयं पुनः ।वर्णयन्त्यनया युक्त्या तासां अप्यनुरागितां ॥१.६३॥शृङ्गाराभास एतासु न शृङ्गारः कदाचन ।तद्व्यापारोऽथवा तासां स्मरः किं भक्षितो बकैः ॥१.६४ ॥तस्मात्तासां अपि क्वापि रागः स्यात्किं नु सर्वथा ।धनार्थं कृत्रिमैर्भावैर्ग्राम्यं व्यामोहयन्ति ताः ॥१.६५॥लिङ्गी प्रच्छन्नकामश्च नरंमन्यश्च षण्डकः ।सुखप्राप्तधनो मूर्खः पितृवित्तेन गर्वितः ॥१.६६॥इत्यादीन्प्रथमं ग्राम्यान्ज्ञात्वाकृष्य च तद्धनं ।अपूर्वा इव मुञ्चन्ति तानेतास्तापयन्ति च ॥१.६७॥किन्तु तासां कलाकेलि- कुशलानां मनोरमं ।विस्मारितापरस्त्रीकं सुरतं जायते यथा ॥१.६८॥ गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलंसन्दष्टाधरमुक्तसीत्कृतं अतिभ्राम्यद्भ्रुनृत्यत्करं ।चाटुप्रायवचोविचित्रभणितैर्यातै रुतैश्चाङ्कितंवेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतं ॥१.६८॥ईर्ष्या कुलस्त्रीषु न नायकस्य निःशङ्ककेलिर्न पराङ्गनासु ।वेश्यासु चैतद्द्वितयं प्ररूढंसर्वस्वं एतास्तदहो स्मरस्य ॥१.६९ ॥(Sकं ५५६)कुप्यत्पिनाकिनेत्राग्नि- ज्वालाभस्मीकृतः पुरा ।उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥१.७० ॥आनन्दयन्ति युक्त्या तां सेविता घ्नन्ति चान्यथा ।दुर्विज्ञेयाः प्रकृत्यैव तस्माद्वेश्या विषोपमाः ॥१.७१॥स्वाधीनपतिकोत्का च तथा वासकसज्जिका ।सन्धिता विप्रलब्धा च खण्डिता चाभिसारिका ॥१.७२॥प्रोषितप्रेयसी चैवं नायिकाः पूर्वसूचिताः ।ता एवात्र भवन्त्यष्टाववस्थाभिः पुनर्यथा ॥१.७३॥यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति ।विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा ॥१.७४॥लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजंतिलकं अलिके कुर्वन्गण्डादुदस्यति कुन्तलान् ।इति चटुशतैर्वारं वारं वपुः परितः स्पृशन्विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥१.७४॥उत्का भवति सा यस्याः सङ्केतं नागतः प्रियः ।तस्यानागमने हेतुं चिन्तयन्त्याकुला यथा ॥१.७५॥किं रुद्धः प्रियया कयाचिदथवा सख्या तयोद्वेजितःकिं वा कारणगौरवं किं अपि यन्नाद्यागतो वल्लभः ।इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजंदीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥१.७५॥भवेद्वासकसज्जासौ सज्जिताङ्गरतालया ।निशित्यागमनं भर्तुर्द्वारेक्षणपरा यथा ॥१.७६॥दृष्ट्वा दर्पणमण्डले निजमुखं भूषां मनोहारिणींदीपार्चिःकपिशं च मोहनगृहं त्रस्यात्कुरङ्गीदृशा ।एवं नौ सुरतं भविष्यति चिरादद्येति सानन्दयामन्दं कान्तदिदृक्षयातिललितं द्वारे दृगारोपितं ॥१.७६॥निरस्तो मन्युना कान्तो नमन्नपि यया पुनः ।दुःस्थिता तं विना साति- सन्धिताभिमता यथा ॥१.७७॥यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितोयत्सख्या न कृतं वचो जडतया यन्मन्युरेको धृतः ।पापस्यास्य फलं तदेतदधुना यच्चन्दनेन्दुद्युतिप्रालेयाम्बुसमीरपङ्कजविसैर्गात्रं मुहुर्दह्यते ॥१.७७॥प्रेष्य दूतीं स्वयं दत्त्वा सङ्केतं नागतः प्रियः ।यस्यास्तेन विना दुःस्था विप्रलब्धा तु सा यथा ॥१.७८॥यत्सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयंतच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया ।स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैर्लोचनैर्भूमावक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥१.७८॥कुतश्चिन्नागतो यस्या उचिते वासके प्रियः ।तदनागं असन्तप्ता खण्डिता सा मता यथा ॥१.७९॥सोत्कण्ठं रुदितं सकम्पं असकृद्यातं सबाष्पं चिरंचक्षुर्दिक्षु निवेशितं सकरुणं सख्या समं जल्पितं ।नागच्छत्युचितेऽपि वासकविधौ कान्ते समुद्विग्नयातत्तत्किंचिदनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥१.७९॥या निर्लज्जीकृता बाढं मदने मदनेन च ।अभियाति प्रियं साभि- सारिकेति मता यथा ॥१.८०॥नो भीतं तडितो दृशा जलमुचा तद्दर्शनाकाङ्क्षयानो गर्जिर्गणिता भृशं श्रुतिमुखं तद्वाचि संचिन्त्य च ।धारापातसमुद्भवा न च मता पीडा तदालिङ्गनंवाञ्छन्त्या दयिताभिसारणविधौ तन्व्या परं तत्परं ॥१.८०॥कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः ।दत्त्वावधिं भृशार्ता सा प्रोषितप्रेयसी यथा ॥१.८१॥उत्क्षिप्यालकमालिकां विलुलितां आपाण्डुगण्डस्थलाद्विश्लिष्यद्वलयप्रपातभयतः प्रोद्यम्य किञ्चित्करौ ।द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मनामार्गालोकनदत्तदृष्टिरबला तत्कालं आलिङ्ग्यते ॥१.८१॥निःश्वाससन्तापसखीवचोर्तिचिन्ताश्रुपातादियुताः सखेदाः ।वाच्या प्रलब्धागतभर्तृकोत्कातिसन्धिताः खण्डितया सहात्र ॥१.८२॥विचित्रमण्डना हृष्टा भवेत्स्वाधीनभर्तृका ।तथा वासकसज्जापि सा किं त्वागन्तुकप्रिया ॥१.८३॥कुलजान्याङ्गना वेश्या त्रिधा स्यादभिसारिका ।यथैवोक्तास्तथैवान्याः स्वाधीनपतिकादयः ॥१.८४॥कुलजा संवृता त्रस्ता सव्रीडा च द्रुतं व्रजेथ् ।नायकं परनारी च समन्तादनवेक्षिता ॥१.८५॥सखीयुक्ता मदाधिक्यात्स्फारिताक्षी न शङ्किता ।सशब्दाभरणा कामं वेश्या सरति नायकं ॥१.८६॥त्रयोदशविधा स्वीया द्विविधा च पराङ्गना ।एका वेश्या पुनश्चाष्टाववस्थाभेदतोऽत्र ताः ॥१.८७॥पुनश्च तास्त्रिधा सर्वा उत्तमा मध्यमाधमा ।इत्थं शतत्रयं तासां अशीतिश्चतुरुत्तरा ॥१.८८॥दोषानुरूपकोपा या- [अ]नुनीता च प्रसीदति ।रज्यते च भृशं नाथे गुणहार्योत्तमेति सा ॥१.८९॥कान्ते किं कुपितासि कः परजने प्राणेश कोपो भवेत्कोऽयं सुभ्रु परस्त्वं एव दयिते दासोऽस्मि कस्ते परः ।इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया नेत्राम्भःकणिकाङ्किते स्तनतटे तन्व्या समारोपितः ॥१.८९॥दोषे स्वल्पेऽपि या कोपं धत्ते कष्टेन मुञ्चति ।प्रयाति करुणाद्रागं मध्यमा सा मता यथा ॥१.९०॥विस्फारस्फुरिताधरापि विकसद्गण्डस्थलप्रस्खलद्घर्माम्भःकणिकापि भङ्गुरतरभ्रूभेदभूषाप्यलं ।पादान्तःप्रणते प्रिये प्रकटयत्यन्तः प्रसादं प्रियाकेशारमन्रूपुण्डलीषु वलितानुन्मोचयन्ती शनैः ॥१.९०॥या कुप्यति विना दोषं स्निह्यत्यनुनयं विना ।निर्हेतुकप्रवृत्तिश्च चलचित्तापि साधमा ॥१.९१॥यत्राधःकृतकामकार्मुककथो भ्राम्यद्भुवोर्विभ्रमःसद्यः प्रोद्गतचन्द्रकान्तिजयिनी यस्मिन्कपोलच्छविः ।यत्र स्वेदकणावलुप्तमहिमा हारोऽप्युरोजस्थलेकोऽयं मानिनि मत्प्रणामविमुखः प्रत्यग्रमानग्रहः ॥१.९१॥जातिकालवयोवस्था- भावकन्दर्पनायकैः ।इतरा पयसङ्ख्याः स्युर्नोक्ता विस्तरभीतितः ॥१.९२॥इत्यादि सकलं ज्ञात्वा स्वयं चालोक्य तद्विदां ।कवीनां च विशेषोक्त्या ज्ञातव्याः सकला इमाः ॥१.९३॥रोमाञ्चवेपथुस्तम्भ- स्वेदनेत्राम्बुविभ्रमाः ।वाच्याः संयोगशृङ्गारे कविना नायिकाश्रिताः ॥१.९४॥सम्बन्धिमित्रद्विजराजतीक्ष्णवर्णाधिकानां प्रमदा न गम्याः ।व्यङ्गास्तथा प्रव्रजिता विभिन्नमन्त्राश्च धर्मार्थमनोभवज्ञैः ॥१.९५॥अनेन मार्गेण विशेषरम्यंसम्भोगशृङ्गारं इमं वितन्वन् ।भवेत्कविर्भावरसानुरक्तोविदग्धगोष्ठीवनितामनोज्ञैः ॥१.९६॥इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे सम्भोगशृङ्गारो नाम प्रथमः परिच्छेदः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP