साङ्ख्यकारिका - कारिका १६-३०

साङ्ख्यकारिका ग्रंथ ईश्वरकृष्ण यांनी लिहीलेला असून अतिशय चिंतन करण्याजोगा आहे.


कारणमस्त्यव्यक्तम्, प्रवर्तते त्रिगुणतः समुदयाच्च।
परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥१६॥


संघातपरार्थत्वात् त्रिगुणादिविपर्यायादधिष्ठानात्।
पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥१७॥


जननमरणकरणानां प्रतिनियमाद्युगपत्प्रवृत्तेश्च।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्याच्चैव ॥१८॥


तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य।
कैवल्यम्माध्यस्थं दृष्टृत्वमकर्तृभावश्च ॥२०॥


पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।
पङ्ग्वन्धदुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥


प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥२२॥


अध्यवसायो बुद्धि धर्मो ज्ञानं विराग एश्वर्यम्।
सात्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥२३॥


अभिमानोऽहङ्कारः, तस्माद्विविधः प्रवर्तते सर्गः।
एकादशकश्च गणस्तन्मात्रपञ्चकश्चैव ॥२४॥


सात्विकएकादशकः प्रवर्ततेवैकृतादहङ्कारात्।
भूतादेश्तन्मात्रः स तामसः, तैजसादुभयम् ॥२५॥


बुद्धीन्द्रियणि चक्षुः श्रोत्रघ्राणरसनत्वमाख्यानि।
वाक् पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः ॥२६॥


उभयात्मकमत्र मनः, सङ्कल्पमिन्द्रिय व साधर्म्यात्।
गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥२७।॥


शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥२८॥


स्वालक्षण्यं वृत्तित्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्यावायवः पञ्च ॥२९॥


युगपच्चतुष्टयस्य तु वृत्तिः क्रमश्च तस्य निर्दिष्टा।
दृष्टे तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP