साङ्ख्यकारिका - कारिका ४६-६०

साङ्ख्यकारिका ग्रंथ ईश्वरकृष्ण यांनी लिहीलेला असून अतिशय चिंतन करण्याजोगा आहे.


एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टि करणवैकल्यात्।
गुणवैषम्यविमर्दात्, तस्य च भेदास्तु पञ्चाशत् ॥४६॥


पञ्चविपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात्।
अष्टाविंशति भेदा तुष्टिर्नवधाऽष्टधा सिद्धिः ॥४७॥


भेदस्तमसोऽष्टविधो मोहस्य च, दशविधोमहामोहः।
तामिस्रोऽष्टदशधा, तथा भवत्यन्धतामिस्रः ॥४८॥


एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा।
सप्तदशबधा बुद्धेर्विपर्ययात्तुष्टि सिद्धीनाम् ॥४९॥


आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः।
बाह्या विषयोपरमात् पञ्च, नव तुष्टयोऽभिमताः ॥५०॥


ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः।
दानं च सिद्धयोऽष्टौ, सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥५१॥

न विना भावैलिङ्गं, न विना लिङ्गेन भावनिवृत्तिः।
लिङ्गाख्यो भावाख्यस्तस्मादुद्विविधः प्रवर्तते सर्गः ॥५२॥


अष्ट विकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति।
मानुषश्चैकविधः, समासतो भौतिकः सर्गः ॥५३॥


उर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्वः।
मध्ये रजोविशालो, ब्रह्मादिस्तम्बपर्यन्तः ॥५४॥


तत्र जरामरणकृतं दुःखम्प्राप्नोति चेतनः पुरुषः।
लिङ्स्याविनिवृत्तेस्तस्माद्दुखं स्वभावेन ॥५५॥


इत्येषप्रकृतिकृतोमहदादि विशेषभूतपर्यन्तः।
प्रतिपुरुष विमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥५६॥


वत्स विवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य।
पुरुष विमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥५७॥

औत्सुक्य निवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः।
पुरुष विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥५८॥


रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्।
पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥५९॥


नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः।
गुणवत्यगुणस्यसतस्स्यार्थमपार्थकञ्चरति ॥६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP