साङ्ख्यकारिका - कारिका ३१-४५

साङ्ख्यकारिका ग्रंथ ईश्वरकृष्ण यांनी लिहीलेला असून अतिशय चिंतन करण्याजोगा आहे.


स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम्।
पुरुषार्थ एव हेतुर्न केचित्कार्यते करणम् ॥३१॥


करणं त्रयोदशविधम्, तदाहरणधारणप्रकाशकरम्।
कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥३२॥


अन्तःकरणं त्रिविधं करणं दशधा बाह्यं त्रयस्य विषयाख्याम्।
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥३३॥

बुद्धिन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥३४॥


सान्तः करणा बुद्धिः सर्वं विषयमवगाहते यस्मात्।
तस्मात्रिविधं करणं द्वारि, द्वाराणि शेषाणि ॥३५॥


एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥३६॥


सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः।
सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७॥


तन्मात्राण्यविशेषाः, तेभ्यो भूतानि पञ्च पञ्चभ्यः।
एते स्मृता विशेषाः, शान्ता गोराश्च मूढाश्च ॥३८॥


सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः।
सूक्ष्मास्तेषां नियता, मातापितृजा निवर्तन्ते ॥३९॥


पूर्वोत्पन्नमसक्तं नियतम्महदादिसूक्ष्मपर्यन्तम्।
संसरति निरूपभोगं भावैरधिवासितं लिङ्गम् ॥४०॥


चित्रं यथाश्रयमृतेस्थाण्वादिभ्यो विना यथाच्छाया।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥४१॥


पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन।
प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् ॥४२॥


सांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिकाश्च धर्माद्याः।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥४३॥


धर्मेण गमनमूर्ध्वं, गमनमधस्ताद्भवत्यधर्मेण।
ज्ञानेन चापवर्गो, विपर्ययादिष्यते बन्धः ॥४४॥


वैराग्यात् प्रकृतिलयः, संसारो भवति राजसाद्रागात्।
एश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥४५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP