संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ४|पाद १| खण्ड ४५ पाद १ खण्ड ४२ खण्ड ४३ खण्ड ४४ खण्ड ४५ खण्ड ४६ पाद १ - खण्ड ४५ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ४५ Translation - भाषांतर १ - ११ - अञ्प्रकरणे ग्रीष्मात् अच्छन्दसि ।२ - ११ - अञ्प्रकरणे ग्रीष्मात् अच्छन्दसि इति वक्तव्यम् ।३ - ११ - ग्रैष्मम् ।४ - ११ - अच्छन्दसि इति किम् ।५ - ११ - त्रिष्टुप् ग्रैष्मी ।६ - ११ - यदि अच्छन्दसि इति उच्यते ग्रैष्मौ एतौ मासौ अत्र न प्राप्नोति ।७ - ११ - अच्छन्दसि इति उच्यते ।८ - ११ - न एतत् छन्दः समीक्षितम् काठकम् कापालकम् मौदकम् पप्पलादकम् वा ।९ - ११ - किम् तर्हि ।१० - ११ - प्रत्ययार्थविशेषणम् एत ।११ - ११ - न चेत् छन्दः प्रत्ययार्थः भवति इति ।१ - २६ - किमर्थम् नञ्स्नञौ उच्येते न नञ् एव उच्येत ।२ - २६ - का रूपसिद्धिः पौंस्नम् ।३ - २६ - पुंस् इति सकारान्तः नकारशब्दः च प्रत्ययः ।४ - २६ - न सिध्यति ।५ - २६ - संयोगान्तस्य लोपः इति लोपः प्राप्नोति ।६ - २६ - एवम् तर्हि न एव अर्थः नञा न अपि स्नञा ।७ - २६ - अञ् प्रकृतः ।८ - २६ - सः अनुवर्तिष्यते नकारः च आगमः वक्तव्यः ।९ - २६ - अथ नकारागमे सति किम् पूर्वान्तः करिष्यते आहोस्वित् परादिः ।१० - २६ - किम् च अतः ।११ - २६ - यदि पूर्वान्तः स्त्रैणाः बहुषु लोपः प्राप्नोति ।१२ - २६ - स्त्रैणानाम् सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञाम् अण् इति अण् प्राप्नोति ।१३ - २६ - अथ परादिः पौंसम् सः एव दोषः संयोगान्तलोपः प्राप्नोति ।१४ - २६ - अस्तु पूर्वान्तः ।१५ - २६ - कथम् स्त्रैणाः स्त्रैणानाम् सङ्घः इति ।१६ - २६ - उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् ।१७ - २६ - न च इदम् लौकिकम् गोत्रम् ।१८ - २६ - ईकारः तर्हि प्राप्नोति ।१९ - २६ - इष्टम् एव एतत् सङ्गृहीतम् ।२० - २६ - स्त्रैणी पौंसी इति एव भवितव्यम् ।२१ - २६ - एवम् हि सौनागाः पठन्ति नञ्स्नञीकक्खुंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति ।२२ - २६ - टिलोपः तर्हि प्राप्नोति ।२३ - २६ - नुग्वचनात् न भविष्यति ।२४ - २६ - भवेत् इह नुग्वचनात् न स्यात् स्त्रैणम् इति ।२५ - २६ - इह तु खलु पऊम्सम् इति नुग्वचनात् एव प्राप्नोति ।२६ - २६ - तस्मात् नञ्स्नञौ वक्तव्यौ ।१ - २१ - अथ इमौ नञ्स्नञौ प्राक् भवनात् आहोस्वित् प्राक् वतेः ।२ - २१ - कः च अत्र विशेषः ।३ - २१ - नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः ।४ - २१ - नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः वक्तव्यः ।५ - २१ - स्त्रीवत् पुंवत् इति ।६ - २१ - किम् पुनः कारणम् न सिध्यति ।७ - २१ - इम नञ्स्नञौ प्राक् भवनात् इति उच्येते ।८ - २१ - तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् ।९ - २१ - तत् तर्हि वक्तव्यम् ।१० - २१ - न वक्तव्यम् ।११ - २१ - वतेः प्राक् इति वक्ष्यामि ।१२ - २१ - वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् ।१३ - २१ - वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् कर्तव्यम् ।१४ - २१ - स्त्रीभावः स्त्रैणम् पुम्भावः पौंस्नम् इति ।१५ - २१ - सूत्रम् च भिद्यते ।१६ - २१ - यथान्यासम् एव अस्तु ।१७ - २१ - ननु च उक्तम् नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः इति ।१८ - २१ - न एषः दोषः ।१९ - २१ - आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति ।२० - २१ - एवम् अपि स्त्रीवत् इति न सिध्यति ।२१ - २१ - योगापेक्षम् ज्ञापकम् । १ - १४ - इह कस्मात् न भवति त्रैविद्यः पाञ्चनदः षाट्कुलः इति । २ - १४ - इह तावत् त्रैविद्यः इति न एवम् विज्ञायते तिस्रः विद्याः अधीते त्रैविद्यः इति । ३ - १४ - कथम् तर्हि । ४ - १४ - त्र्यवयवा विद्या त्रिविद्या । ५ - १४ - त्रिविद्याम् अधीते त्रैविद्यः इति । ६ - १४ - इह अपि पाञ्चनदः इति न एवम् विज्ञायते पञ्चसु नदीषु भवः पाञ्चनदः इति । ७ - १४ - कथम् तर्हि । ८ - १४ - पञ्चानाम् नदीनाम् समाहारः पञ्चनदम् । ९ - १४ - पञ्चनदे भवः पाञ्चनदः इति । १० - १४ - षाट्कुलः इति न एवम् विज्ञायते षट्सु कुलेषु भवः षाट्कुलः इति । ११ - १४ - कथम् तर्हि । १२ - १४ - षण्णाम् कुलम् षट्कुलम् षट्कुले भवः षाट्कुलः इति । १३ - १४ - अजादिग्रहणम् च कर्तव्यम् । १४ - १४ - इह मा भूत् पञ्चगर्भरूप्यम् पञ्चगर्भमयम् ।१ - ४१ - द्विगोः लुकि तन्निमित्तग्रहणम् ।२ - ४१ - द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् ।३ - ४१ - द्विगुनिमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् ।४ - ४१ - इह मा भूत् ।५ - ४१ - पञ्चकपालस्य इदम् खण्डम् पाञ्चकपालम् इति ।६ - ४१ - अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि ।७ - ४१ - अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति वक्तव्यम् ।८ - ४१ - किम् प्रयोजनम् ।९ - ४१ - पञ्चसु कपालेषु संस्कृतः पञ्चकपालः ।१० - ४१ - पन्चकपाल्याम् संस्क्र्तः इति अपि विगृह्य पञ्चकपालः इति एव यथा स्यात् ।११ - ४१ - अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते ।१२ - ४१ - तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति ।१३ - ४१ - किम् च अतः ।१४ - ४१ - यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति पञ्चकपालस्य इदम् खण्डम् इति ।१५ - ४१ - अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति ।१६ - ४१ - यथ न दोषः तथा अस्तु ।१७ - ४१ - सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते ।१८ - ४१ - कुतः एतत् ।१९ - ४१ - यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।२० - ४१ - तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् ।२१ - ४१ - न कर्तव्यम् ।२२ - ४१ - द्विगोः इति न एषा पञ्चमी ।२३ - ४१ - का तर्हि ।२४ - ४१ - सम्बन्धषष्ठी ।२५ - ४१ - द्विगोः तद्धितस्य लुक् भवति ।२६ - ४१ - किम् च द्विगोः तद्धितः ।२७ - ४१ - निमित्तम् ।२८ - ४१ - यस्मिन् द्विगुः इति एतत् भवति ।२९ - ४१ - कस्मिन् च एतत् भवति ।३० - ४१ - प्रत्यये ।३१ - ४१ - इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।३२ - ४१ - एतत् च न वक्तव्यम् ।३३ - ४१ - इह अस्माभिः त्रैशब्द्यम् साध्यम् ।३४ - ४१ - पञ्चसु कपालेषु संस्कृतः पञ्चकपाल्याम् संस्कृतः पञ्चकपालः दशकपालः इति ।३५ - ४१ - तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।३६ - ४१ - तत् यथा ।३७ - ४१ - अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति ।३८ - ४१ - एवम् पञ्चसु कपालेषु संस्कृतः इति विगृह्य पञ्चकपालः इति भविष्यति ।३९ - ४१ - पञ्चकपाल्याम् संस्कृतः इति विगृह्य वाक्यम् एव ।४० - ४१ - त्रैशब्द्यम् च इह साध्यम् ।४१ - ४१ - तत् च एवम् सति सिद्धम् भवति ।१ - २४ - गोत्रे अलुक् अचि इति चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।२ - २४ - गोत्रे अलुक् अचि इति चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।३ - २४ - का इतरेतराश्रयता ।४ - २४ - अलुग्निमित्तः अजादिः अजादिनिमित्तः च अलुक् ।५ - २४ - तत् इतरेतराश्रयम् भवति ।६ - २४ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।७ - २४ - विप्रतिषेधात् तु लुकः छविधानम् ।८ - २४ - विप्रतिषेधात् तु लुकः छः भविष्यति ।९ - २४ - लुकः अवकाशः गर्गाः वत्साः बिदाः उर्वाः ।१० - २४ - छस्य अवकाशः शालीयः मालीयः गार्गीयः वात्सीयः ।११ - २४ - इह उभयम् प्राप्नोति ।१२ - २४ - गर्गाणाम् छात्राः गार्गीयाः वात्सीयः ।१३ - २४ - छः भवति विप्रतिषेधेन ।१४ - २४ - न एषः युक्तः विप्रतिषेधः ।१५ - २४ - भूम्नि च लुक् प्राप्तः बाह्ये च अर्थे विधीयते अजादिः ।१६ - २४ - बहिरङ्गम् अन्तरङ्गात् ।१७ - २४ - विप्रतिषेधात् अयुक्तम् स्यात् ।१८ - २४ - भूम्नि प्राप्तस्य लुकः यत् अजादौ तद्धिते अलुकम् शास्ति एतत् ब्रवीति कूर्वन् समानकालौ अलुक् लुक् च ।१९ - २४ - यत् अयम् भूम्नि प्राप्तस्य लुकः अजादौ तद्धिते अलुकम् शास्ति तत् ज्ञापयति आचार्यः समानकालौ एतौ अलुग्लुकौ इति ।२० - २४ - यदि वा लुकः प्रसङ्गे भवति अलुक् छः तथा प्रसिद्धः अस्य ।२१ - २४ - यदि वा लुकः प्रसङ्गे भवति अलुक् भवति तथा अस्य छः प्रसिद्धः अस्य ।२२ - २४ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।२३ - २४ - लुक् वा अलुकः प्रसङ्गम् प्रतीक्षते छे अलुक् अस्य तथा । लुक् वा पुनः अलुकः प्रसङ्गम् यदि प्रतीक्षते तथा अस्य छे अलुक् सिद्धः भवति ।२४ - २४ - प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।१ - ६४ - गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् ।२ - ६४ - गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः ।३ - ६४ - बिदानाम् अपत्यम् माणवकः बैदः बैदौ ।४ - ६४ - किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः ।५ - ६४ - अचि इति उच्यते ।६ - ६४ - न च अत्र अजादिम् पश्यामः ।७ - ६४ - प्रत्ययलक्षणेन ।८ - ६४ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।९ - ६४ - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि ।१० - ६४ - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः ।११ - ६४ - बैदस्य अपत्यम् बहवः माणवकाः बिदाः ।१२ - ६४ - बैदयोः बिदाः ।१३ - ६४ - अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।१४ - ६४ - मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति ।१५ - ६४ - अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति भविष्यति ।१६ - ६४ - न एवम् शक्यम् ।१७ - ६४ - इह हि दोषः स्यात् ।१८ - ६४ - काश्यपप्रतिकृतयः काश्यपाः इति ।१९ - ६४ - न एषः दोषः ।२० - ६४ - यत् तावत् उच्यते गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः इति ।२१ - ६४ - न वक्तव्यः ।२२ - ६४ - अचि इति एव अलुक् सिद्धः ।२३ - ६४ - अचि इति उच्यते ।२४ - ६४ - न च अत्र अजादिम् पश्यामः ।२५ - ६४ - प्रत्ययलक्षणेन ।२६ - ६४ - ननु च उक्तम् वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति ।२७ - ६४ - यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदम् अपि भविष्यति ।२८ - ६४ - अथ वा अविशेषेण अलुकम् उक्त्वा हलि न इति वक्ष्यामि ।२९ - ६४ - यदि अविशेषेण अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि प्राप्नोति ।३० - ६४ - अस्तु ।३१ - ६४ - पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति ।३२ - ६४ - पुनः अलुक् कस्मात् न भवति ।३३ - ६४ - समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते ।३४ - ६४ - न च एतत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् ।३५ - ६४ - किम् तर्हि ।३६ - ६४ - द्वितीयम् अर्थम् उपसङ्क्रान्तम् ।३७ - ६४ - अवश्यम् च एतत् एवम् विज्ञेयम् अत्रिभरवाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिकाकुत्सकुशिकिका इति एवमर्थम् ।३८ - ६४ - गर्गभार्गविकाग्रहणम् वा नियमार्थम् ।३९ - ६४ - अथ वा गर्गभार्गविकाग्रहणम् नियमार्थम् भविष्यति ।४० - ६४ - एतस्य एव द्वितीयम् अर्थम् उपसङ्क्रान्तस्य अलुक् भवति न अन्यस्य इति ।४१ - ६४ - यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः ।४२ - ६४ - अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।४३ - ६४ - मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति ।४४ - ६४ - अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति भविष्यति ।४५ - ६४ - ननु च उक्तम् न एवम् शक्यम् ।४६ - ६४ - इह हि दोषः स्यात् ।४७ - ६४ - काश्यपप्रतिकृतयः काश्यपाः इति ।४८ - ६४ - न एषः दोषः ।४९ - ६४ - लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् ।५० - ६४ - यदि अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति एवम् उच्यते बिदानाम् अपत्यम् माणवकः बैदः बैदौ अत्र अपि प्राप्नोति ।५१ - ६४ - अलुक् अत्र लिकम् बाधिष्यति ।५२ - ६४ - अलुकि च कृते पुनः लुकः निमित्तम् न अस्ति इति कृत्वा पुनः लुक् न भविष्यति ।५३ - ६४ - उक्तम् वा ।५४ - ६४ - किम् उक्तम् ।५५ - ६४ - आपत्यः वा गोत्रम् ।५६ - ६४ - परमप्रकृतेः च आपत्यः ।५७ - ६४ - आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः ।५८ - ६४ - सः च अस्त्रियाम् ।५९ - ६४ - एकगोत्रग्रहणानर्थक्यम् च ।६० - ६४ - बहुवचनलोपिषु च सिद्धम् इति ।६१ - ६४ - तत्र बिदानाम् अपत्यम् माणवकः इति विगृह्य बिदशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति ।६२ - ६४ - बैदः बैदौ ।६३ - ६४ - बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य बिदशब्दात् बहुषु उत्पत्तिः भविष्यति ।६४ - ६४ - बिदा इति अविरविकन्यायेन ।१ - १७ - यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रसङ्गः ।२ - १७ - यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टम् प्राप्नोति ।३ - १७ - अनिष्टे प्रत्यये अवस्थिते लुक् ।४ - १७ - अनिष्टप्रत्ययस्य श्रवणम् प्रस्ज्येत ।५ - १७ - सिद्धम् तु अविशेषेण लुग्वचनम् हलि च प्रतिषेधः ।६ - १७ - सिद्धम् एतत् ।७ - १७ - कथम् ।८ - १७ - अविशेषेण लुकम् उक्त्वा हलि न इति वक्ष्यामि ।९ - १७ - सिध्यति ।१० - १७ - सूत्रम् तर्हि भिद्यते ।११ - १७ - यथान्यासम् एव अस्तु ।१२ - १७ - ननु च उक्तम् यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रसङ्गः इति ।१३ - १७ - न एषः दोषः. अचि इति न एषा परसप्तमी ।१४ - १७ - का तर्हि ।१५ - १७ - विषयसप्तमी ।१६ - १७ - अजादौ विषये इति ।१७ - १७ - तत्र अचि विषये लुके कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।१ - ५० - कानि पुनः अस्य योगस्य प्रयोजनानि ।२ - ५० - प्रयोजनम् सौवीरगोत्रेभ्यः णठक्छाः ।३ - ५० - ण ।४ - ५० - फाण्टाहृतेः अपत्यम् माणवकः फाण्टाहृतः ।५ - ५० - फाण्टहृतस्य यूनः छात्राः फाण्टाहृताः ।६ - ५० - ण ।७ - ५० - ठक् ।८ - ५० - भागवित्तेः अपत्यम् माणवकः भागवित्तिकः ।९ - ५० - भागवित्तिकस्य यूनः छात्राः भागवित्ताः ।१० - ५० - ठक् ।११ - ५० - तैलायनेः अपत्यम् माणवकः तैलायनीयः ।१२ - ५० - तैलायनीय यूनः छात्राः तैलायनीयाः ।१३ - ५० - इञ्ण्यौ सर्वत्र ।१४ - ५० - इञ्ण्यौ सर्वत्र प्रयोजनम् ।१५ - ५० - औपगवेः यूनः छात्राः औपगवीयाः ।१६ - ५० - वृद्धवदतिदेशे सति इञः गोत्रे इति अण् प्राप्नोति ।१७ - ५० - न एषः दोषः ।१८ - ५० - प्रत्याख्यायते असौ अतिदेशः ।१९ - ५० - कथम् यानि प्रयोजनानि ।२० - ५० - तानि ज्ञापकेन सिद्धानि ।२१ - ५० - यत्खच्छान्तात् तर्हि इञः प्रयोजनम् ।२२ - ५० - यत् ।२३ - ५० - श्वशुरस्य अपत्यम् श्वशुर्यः ।२४ - ५० - श्वशुर्यस्य अपत्यम् श्वाशुरिः ।२५ - ५० - श्वाशुरेः यूनः छात्राः श्वाशुराः ।२६ - ५० - यत् ।२७ - ५० - ख ।२८ - ५० - कुलस्य अपत्यम् कुलीनः ।२९ - ५० - कुलीनस्य अपत्यम् कौलीनिः ।३० - ५० - कौलीनेः यूनः छात्राः कौलीनाः ।३१ - ५० - ख ।३२ - ५० - छ ।३३ - ५० - स्वसुः अपत्यम् स्वस्रीयः ।३४ - ५० - स्वस्रीयस्य अपत्यम् स्वास्रीयिः ।३५ - ५० - स्वास्रीयेः यूनः छात्राः स्वास्रीयाः ।३६ - ५० - एतानि अपि हि न सन्ति प्रयोजनानि ।३७ - ५० - अत्र अपि यूनि श्वशुर्यः कुलीनः स्वस्रीयः इति एव भवितव्यम् ।३८ - ५० - उक्तम् एतत् अणिञोः लुकि अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् इति ।३९ - ५० - अब्राह्मणगोत्रमात्रात् इति उच्यते ।४० - ५० - न च एतत् अब्राह्मणगोत्रमात्रम् ।४१ - ५० - अब्राह्मणगोत्रमात्रात् इति न अयम् पर्युदासः यत् अन्यत् ब्राह्मणगोत्रमात्रात् इति ।४२ - ५० - किम् तर्हि प्रसज्य अयम् प्रतिषेधः ब्राह्मणगोत्रमात्रात् न इति ।४३ - ५० - अवश्यम् च एतत् एवम् विज्ञेयम् मायुरिः कापोतिः कापिञ्जलिः इति एवमर्थम् ।४४ - ५० - एवम् तर्हि अण्ण्यौ सर्वत्र प्रयोजनम् ।४५ - ५० - अण् ।४६ - ५० - ग्लुचुकायनेः अपत्यम् माणवकः ग्लौचुकायनः ।४७ - ५० - ग्लौचुकायनस्य यूनः छात्राः ग्लौचुकायनाः ।४८ - ५० - ण्यः च कापिञ्जलाद्यर्थम् ।४९ - ५० - कापिञ्जलेः अपत्यम् माणवकः कापिञ्जलाद्यः ।५० - ५० - तस्य यूनः छात्राः कापिञ्जलादाः ।१ - ४३ - प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः । प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः कर्तव्यः ।२ - ४३ - युवा वृद्धवत् भवति इति वक्तव्यम् ।३ - ४३ - गार्ग्यायणानाम् समूहः गार्ग्याणकम् ।४ - ४३ - गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् ।५ - ४३ - गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः ।६ - ४३ - गोत्राश्रयः वुञ् यथा स्यात् ।७ - ४३ - यदि वृद्धवदतिदेशः क्रियते औपगवेः यूनः छात्राः औपगवीयाः इति इञः गोत्रे इति अण् प्राप्नोति ।८ - ४३ - यदि पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः अतिदिश्येत ।९ - ४३ - कथम् पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः शक्या अतिदेष्टुम् ।१० - ४३ - वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।११ - ४३ - तत् यथा उशीनरवत् मद्रेषु यवाः ।१२ - ४३ - सन्ति न सन्ति इति ।१३ - ४३ - मातृवत् अस्याः कलाः ।१४ - ४३ - सन्ति न सन्ति इति ।१५ - ४३ - एवम् इह अपि युवा वृद्धवत् भवति वृद्धवत् न भवति इति एवम् वाक्यशेषम् समर्थयिष्यामहे ।१६ - ४३ - यथ गोत्रे युवप्रत्ययः न भवति एवम् प्राग्दीव्यतोधिकारे यूनि अपि न भवति इति ।१७ - ४३ - तत् वक्तव्यम् ।१८ - ४३ - यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न क्रियते ।१९ - ४३ - कथम् तर्हि फक्फिञोः अन्यतरस्याम् इति ।२० - ४३ - फक्फिञ्वर्ती युवा वा वृद्धवत् भवति इति वक्ष्यामि ।२१ - ४३ - यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।२२ - ४३ - यदि पुनः युवा वृद्धवत् इति अनेन अर्थः अतिदिश्येत ।२३ - ४३ - प्राग्दीव्यतोधिकारेयूनः वृद्धवत् अर्थः भवति इति ।२४ - ४३ - तत् वक्तव्यम् ।२५ - ४३ - यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न करिष्यते ।२६ - ४३ - कथम् तर्हि फक्फिञोः अन्यतरस्याम् इति ।२७ - ४३ - फक्फिञ्वर्ती युवार्थः वा वृद्धवत् भवति इति वक्ष्यामि ।२८ - ४३ - यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।२९ - ४३ - एवम् तर्हि राजन्यात् वुञ् मनुष्यात् च ज्ञापकम् लौकिकम् परम् ।३० - ४३ - यत् अयम् वुञ्विधौ राजन्यमनुष्ययोः ग्रहणम् करोति तत् ज्ञापयति आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति ।३१ - ४३ - युवा च लोके गोत्रम् इति उपचर्यते ।३२ - ४३ - किङ्गोत्रः असि माणवकः ।३३ - ४३ - गार्ग्यायणः ।३४ - ४३ - किङ्गोत्रः असि माणवकः ।३५ - ४३ - वात्स्यायनः ।३६ - ४३ - यदि एतत् ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः गोत्राश्रयः इञः गोत्रे इति अण् प्राप्नोति ।३७ - ४३ - सामुहिकेषु ज्ञापकम् ।३८ - ४३ - यदि सामुहिकेषु ज्ञापकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।३९ - ४३ - वुञ्विधौ ज्ञापकम् ।४० - ४३ - वुञ्विधौ ज्ञापकम् शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण् न प्राप्नोति ।४१ - ४३ - अस्तु तर्हि अविशेषेण ।४२ - ४३ - कथम् औपगवेः यूनः छात्राः औपगवीयाः ।गोत्रेण इञम् विशेषयिष्यामः ।४३ - ४३ - गोत्रे यः इञ् विहितः इति ।१ - २० - तस्य इदम् इति अपत्ये अपि ।२ - २० - तस्य इदम् इति अपत्ये अपि अण् सिद्धः ।३ - २० - तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः तस्य निवासः इति ।४ - २० - किम् अर्थम् तर्हि इदम् उच्यते ।५ - २० - बाधनार्थम् कृतम् भवेत् ।६ - २० - ये तस्य बाधकाः तद्बाधनार्थम् ।७ - २० - कथम् पुनः अशैषिकः शैषिकम् बाधेत ।८ - २० - उत्सर्गः शेषः एव असौ । यः हि उत्सर्गः सः अपि शेषः एव ।९ - २० - अथ एतस्मिन् बाधकबाधने सति किम् प्रयोजनम् ।१० - २० - वृद्धानि अस्य प्रयोजनम् ।११ - २० - वृद्धानि प्रयोजयन्ति ।१२ - २० - भानोः अपत्यम् भानवः ।१३ - २० - श्यामगोः अपत्यम् श्यामगवः ।१४ - २० - कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् ।१५ - २० - तस्यग्रहणसामर्थ्यात् ।१६ - २० - किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य ।१७ - २० - अवश्यम् उत्तराथम् अर्थनिर्देशः कर्तव्यः ।१८ - २० - समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्थम् प्रतिनिर्देष्टव्या ।१९ - २० - एवम् तर्हि योगविभागकरणसामर्थ्यात् ।२० - २० - इतरथा हि तस्य अपत्यम् अतः इञ् भवति इति एव ब्रूयात् ।१ - ५९ - पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनान्तेन च ।२ - ५९ - तेन पुंलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च ।३ - ५९ - स्त्रीनपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च इदम् न स्यात् ।४ - ५९ - तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् तस्य अविवक्षितत्वात् ।५ - ५९ - तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् ।६ - ५९ - किम् कारणम् ।७ - ५९ - तस्य अविवक्षितत्वात् ।८ - ५९ - न अत्र निर्देशः तन्त्रम् ।९ - ५९ - कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।१० - ५९ - तत्कारी च भवान् तद्द्वेषी च ।११ - ५९ - नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च. अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्य इति ।१२ - ५९ - तत् यथा ।१३ - ५९ - कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् ।१४ - ५९ - सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।१५ - ५९ - तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् ।१६ - ५९ - सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।१७ - ५९ - एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च. न हि अत्र निर्देशः तन्त्रम् ।१८ - ५९ - सर्वनामनिर्देशे विशेषासम्प्रत्ययः सामान्यनिर्देशात् ।१९ - ५९ - सर्वनामनिर्देशे विशेषस्य असम्प्रत्ययः ।२० - ५९ - किम् कारणम् ।२१ - ५९ - सामान्यनिर्देशात् ।२२ - ५९ - सर्वनाम्ना अयम् निर्देशः क्रियते ।२३ - ५९ - सरनाम च सामान्यवाचि ।२४ - ५९ - तेन सामान्यवाचिनः एव उत्पत्तिः स्यात् ।२५ - ५९ - विशेषवाचिनः न स्यात् ।२६ - ५९ - सामान्यचोदनाः तु विशेषेषु ।२७ - ५९ - सामान्यचोदनाः तु विशेषेषु अवतिष्ठन्ते ।२८ - ५९ - तत् यथा गौः अनूबध्यः अजः अग्नीषोमीयः इति आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते ।२९ - ५९ - विषमः उपन्यासः ।३० - ५९ - अस्ति कारणम् येन एतत् एवम् भवति ।३१ - ५९ - किम् कारणम् ।३२ - ५९ - असम्भवात् ।३३ - ५९ - आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ।३४ - ५९ - इदम् अपि एवञ्जातीयकम् एव ।३५ - ५९ - असम्भवात् सामान्यवाचिनः उत्पत्तौ विशेषवाचिनः उत्पत्तिः भविष्यति ।३६ - ५९ - अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः नपुंसकत्वात् ।३७ - ५९ - अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः ।३८ - ५९ - किम् कारणम् ।३९ - ५९ - नपुंसकलिङ्गत्वात् ।४० - ५९ - अपत्यम् नपुंसकलिङ्गम् ।४१ - ५९ - तेन नपुंसकलिङ्गस्य एव अभिधानम् स्यात् ।४२ - ५९ - स्त्रीपुंलिङ्गस्य न स्यात् ।४३ - ५९ - ननु च इदम् पुरस्तात् एव चोदितम् परिहृतम् च ।४४ - ५९ - उत्पत्तिः तत्र चोद्यते ।४५ - ५९ - इह पुनः उत्पन्नेन अभिधानम् चोद्यते ।४६ - ५९ - सिद्धम् तु प्रजनस्य विवक्षितत्वात् ।४७ - ५९ - सिद्धम् एतत् ।४८ - ५९ - कथम् ।४९ - ५९ - प्रजनस्य विवक्षितत्वात् ।५० - ५९ - प्रजनः अत्र विवक्षितः सः च सर्वलिङ्गः ।५१ - ५९ - किम् पुनः कारणम् समानायाम् प्रवृत्तौ अपत्यम् नपुंसकलिङ्गम् प्रजनः सर्वलिङ्गः ।५२ - ५९ - एकार्थे शब्दान्यत्वात् दृष्टम् लिङ्गान्यत्वम् ।५३ - ५९ - एकार्थे शब्दान्यत्वात् लिङ्गान्यत्वम् दृश्यते ।५४ - ५९ - तत् यथा पुष्यः तारकाः नक्षत्रम् ।५५ - ५९ - गेहम् कुटी मठः इति ।५६ - ५९ - अवयवान्यत्वात् च ।५७ - ५९ - अवयवान्यत्वात् च लिङ्गान्यत्वम् दृश्यते ।५८ - ५९ - तत् यथा कुटी कुटीरः शमी शमीरः शुण्डा शुण्डारः ।५९ - ५९ - अवयवान्यत्वात् किल लिङ्गान्यत्वम् स्यात् किम् पुनः यत्र शब्दान्यत्वम् अपि ।१ - २०० - किमर्थम् इदम् उच्यते ।२ - २०० - उत्पादयितारम् प्रति अपत्ययोगात् तस्य च विवक्षितत्वात् एकवचनम् गोत्रे ।३ - २०० - उत्पादयिता उत्पादयिता अपत्येन युज्यते ।४ - २०० - तस्य च विवक्षितत्वात् ।५ - २०० - उत्पादयितुः सः च अभिसम्बन्धः विवक्षितः ।६ - २०० - उत्पादयितारम् प्रति अपत्ययोगात् तस्य च अभिसम्बन्धस्य विवक्षितत्वात् उत्पादयितुः उत्पादयितुः अपत्याभिधाने अनेकः प्रत्ययः प्राप्नोति ।७ - २०० - इष्यते च एकः एव स्यात् इति ।८ - २०० - तत् च अन्तरेण यत्नम् न सिध्यति इति एकवचनम् गोत्रे ।९ - २०० - एवमर्थम् इदम् उच्यते ।१० - २०० - कथम् पुनः ज्ञायते उत्पादयिता उत्पादयिता अपत्येन युज्यते इति ।११ - २०० - एवम् हि दृश्यते लोके ।१२ - २०० - पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति ।१३ - २०० - सः आह देवदत्तस्य यज्ञदत्तस्य वा इति ।१४ - २०० - उत्पादयितारम् व्यपदिशति न आत्मानम् ।१५ - २०० - अस्ति प्रयोजनम् एतत् ।१६ - २०० - किम् तर्हि इति ।१७ - २०० - तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः गोत्रे नियतत्वात् ।१८ - २०० - तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः वक्तव्यः ।१९ - २०० - औपगवस्य अपत्यम् इति ।२० - २०० - किम् कारणम् ।२१ - २०० - गोत्रे नियतत्वात् ।२२ - २०० - गोत्रे हि अयम् नियमः क्रियते ।२३ - २०० - तेन यः च असौ यथाजातीयकः च गोत्रप्रत्ययः प्राप्नोति सः एकः स्यात् ।२४ - २०० - कः च प्राप्नोति ।२५ - २०० - यः प्रत्ययान्तात् ।२६ - २०० - परमप्रकृतेः च उत्पत्तिः ।२७ - २०० - परमप्रकृतेः च उत्पत्तिः वक्तव्या ।२८ - २०० - अयोगात् हि न प्राप्नोति ।२९ - २०० - एतयोः च एव परिहारः पठिष्यति हि आचार्यः यूनि च अन्तर्हिते अप्राप्तिः इति तस्य च यथा तत्प्रत्ययान्तम् ।३० - २०० - यथा तत् एव विकारावयवप्रत्ययान्तम् द्वितीयम् च तृतीयम् च विकारम् सङ्क्रामति एवम् इह अपि तत् एव अपत्यप्रत्ययान्तम् द्वितीयम् च तृतीयम् च अपत्यम् सङ्क्रमिष्यति ।३१ - २०० - भवेत् सिद्धम् औपगवस्य अपत्यम् औपगवः यत्र सः एव अनन्तरः इष्यते सः एव गोत्रे ।३२ - २०० - इदम् तु खलु न सिध्यति गर्गस्य अपत्यम् गार्ग्यः इति ।३३ - २०० - अत्र हि अन्यः अनन्तरः इष्यते अन्यः गोत्रे ।३४ - २०० - स्त्रियाम् च अनियमः ।३५ - २०० - स्त्रियाम् च युवत्याम् नियमः न प्राप्नोति ।३६ - २०० - औपगवी माणवकी ।३७ - २०० - नियमात् हि स्त्री पर्युदस्यते एकः गोत्रे गोत्रात् यूनि अस्त्रियाम् इति ।३८ - २०० - कतरस्मिन् पक्षे अयम् दोषः ।३९ - २०० - उत्पादयितरि अपत्ययुक्ते ।४० - २०० - उत्पादयितरि तावत् अपत्ययुक्ते न दोषः ।४१ - २०० - उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवितव्यम् ।४२ - २०० - तत्र नियमः न उपपद्यते ।४३ - २०० - असति नियमे न एषः दोषः ।४४ - २०० - सर्वेषु तर्हि अपत्ययुक्तेषु अयम् दोषः ।४५ - २०० - सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवितव्यम् ।४६ - २०० - तत्र नियमः उपपन्नः भवति ।४७ - २०० - सति नियमे एषः दोषः ।४८ - २०० - उत्पादयितरि च अपत्ययुक्ते स्त्रिया युवत्या अभिधानम् न प्राप्नोति ।४९ - २०० - किम् कारणम् ।५० - २०० - गोत्रसञ्ज्ञा युवसञाम् बाधते ।५१ - २०० - गोत्रात् यूनि च अस्त्रियाम् प्रत्ययः विधीयते ।५२ - २०० - यूनि च अन्तर्हिते अप्राप्तिः ।५३ - २०० - यूनि च अन्तर्हिते नियमस्य अप्राप्तिः ।५४ - २०० - गार्ग्यायणस्य अपत्यम् इति ।५५ - २०० - कतरस्मिन् पक्षे अयम् दोषः ।५६ - २०० - सर्वेषु अपत्ययुक्तेषु ।५७ - २०० - सर्वेषु अपत्ययुक्तेषु तावत् न दोषः ।५८ - २०० - सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् ।५९ - २०० - तत्र नियमः उपपन्नः भवति ।६० - २०० - सति नियमे न एषः दोषः ।६१ - २०० - उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः ।६२ - २०० - उत्पादयितरि हि अपत्ययुक्ते परमप्रकृतेः अनन्तरात् गोत्रात् च अयोगात् न प्राप्नोति ।६३ - २०० - यूनः च न प्राप्नोति ।६४ - २०० - किम् कारणम् ।६५ - २०० - गोत्रात् इति नियमात् ।६६ - २०० - सन्तु तर्हि कथम् पुनः ज्ञायते सर्वे अपत्ययुक्ताः इति ।६७ - २०० - एवम् हि याज्ञिकाः पठन्ति ।६८ - २०० - दशपुरुषानूकम् यस्य गृहे शूद्राः न विद्येरन् सः सोमम् पिबेत् इति ।६९ - २०० - यदि च सर्वे अपत्ययुक्ताः भवन्ति ततः एतत् उपपन्नम् भवति ।७० - २०० - कथम् यत् उक्तम् पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति ।७१ - २०० - सः आह देवदत्तस्य यज्ञदत्तस्य वा इति ।७२ - २०० - उत्पादयितारम् व्यपदिशति न आत्मानम् इति ।७३ - २०० - उत्पत्तिः तस्य विवक्षिता ।७४ - २०० - सर्वेषाम् न इदम् अपत्यम् ।७५ - २०० - देवदत्तः तु अस्य उत्पादयिता इति ।७६ - २०० - अथ सर्वेषु अपत्ययुक्तेषु किम् अनेन क्रियते एकः गोत्रे इति ।७७ - २०० - सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे ।७८ - २०० - सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे इति उच्यते ।७९ - २०० - अस्ति प्रयोजनम् एतत् ।८० - २०० - किम् तर्हि इति ।८१ - २०० - न तु ज्ञायते कः एकः भवति यः वा परमप्रकृतेः यः वा अनन्तरात् इति ।८२ - २०० - नियमानुपपत्तिः च ।८३ - २०० - नियमः च न उपपद्यते ।८४ - २०० - किम् कारणम् ।८५ - २०० - न हि एकस्मिन् अपत्ये अनेकप्रत्ययप्राप्तिः ।८६ - २०० - न हि एकस्मिन् अपत्ये अनेकप्रत्ययः प्राप्नोति ।८७ - २०० - किम् तर्हि ।८८ - २०० - अपत्यान्तरे शब्दान्तरात् प्रत्ययान्तरप्राप्तिः ।८९ - २०० - अपत्यान्तरे अपत्यान्तर शब्दान्तरात् शब्दान्तरात् प्रत्ययान्तरम् प्रत्ययान्तरम् प्राप्नोति ।९० - २०० - फकन्तात् इञ् इञन्तात् फक् इति फगिञोः दाशतयी प्रत्ययमाला प्राप्नोति ।९१ - २०० - कतरस्मिन् पक्षे अयम् दोषः ।९२ - २०० - सर्वेषु अपत्ययुक्तेषु ।९३ - २०० - सर्वेषु अपत्ययुक्तेषु तावत् न दोषः ।९४ - २०० - सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् ।९५ - २०० - तत्र नियमः उपपन्नः भवति ।९६ - २०० - सति नियमे न एषः दोषः ।९७ - २०० - उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः ।९८ - २०० - उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवतिव्यम् ।९९ - २०० - तत्र नियमः न उपपद्यते ।१०० - २०० - असति नियमे एषः दोषः ।१०१ - २०० - उत्पादयितरि च अपत्ययुक्ते न दोषः ।१०२ - २०० - कथम् ।१०३ - २०० - अपत्यम् समुदायः चेत् नियमः अत्र समीक्षितः ।१०४ - २०० - तस्मिन् सुबहवः प्राप्ताः ।१०५ - २०० - नियमः अस्य भविष्यति । अपत्यम् इति सर्वम् उपग्वादिपितृकम् अपत्यम् समीक्षितम् ।१०६ - २०० - तस्मिन् सुबहवः प्रत्ययाः प्राप्ताः ।१०७ - २०० - नियमः अस्य भविष्यति एकः गोत्रे इति ।१०८ - २०० - यत् अपि उच्यते स्त्रियाम् च अनियमः इति एवम् वक्ष्यामि ।१०९ - २०० - गोत्रात् यूनि प्रत्ययः भवति ।११० - २०० - स्त्रियाम् न इति ।१११ - २०० - एवम् अपि स्त्रियाः युवत्याः अभिधानम् न प्राप्नोति ।११२ - २०० - एवम् तर्हि एवम् वक्ष्यामि ।११३ - २०० - गोत्रात् यूनि प्रत्ययः भवति ।११४ - २०० - स्त्रियाम् लुक् ।११५ - २०० - एवम् अपि औपगवी माणविका अनुपसर्जनात् इति ईकारः न प्राप्नोति ।११६ - २०० - मा भूत् एवम् अण् यः अनुपसर्जनम् इति ।११७ - २०० - अणन्तात् अनुपसर्जनात् इति एवम् भविष्यति ।११८ - २०० - न एवम् शक्यम् ।११९ - २०० - इह हि दोषः स्यात् ।१२० - २०० - काशकृत्स्निन प्रोक्ता मीमांसा काशकृत्स्नी ।१२१ - २०० - ताम् अधीते काशकृत्स्ना ब्राह्मणी ।१२२ - २०० - अणन्तात् इति ईकारः प्रसज्येत ।१२३ - २०० - न एषः दोषः ।१२४ - २०० - अध्येत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् ।१२५ - २०० - यः च अत्र अध्येत्र्याम् अभिधेयायाम् अण् लुप्तः सः यः च श्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति ।१२६ - २०० - इह तर्हि औपगवी माणविका भार्या अस्य औपगवीभार्यः जातिलक्षणः पुंवद्भावप्रतिषेधः न प्राप्नोति ।१२७ - २०० - मा भूत् एवम् ।१२८ - २०० - वृद्धिनिमित्तस्य इति एवम् भविष्यति ।१२९ - २०० - यः तर्हि न वृद्धिनिमित्तः ।१३० - २०० - ग्लुचुकायनी माणविका भार्या अस्य ग्लुचुकायनीभार्यः ।१३१ - २०० - तस्मात् स्त्रियाः युवत्याः युवसञ्ज्ञा एव पर्युदसितव्या ।१३२ - २०० - तस्याम् च पर्युदस्तायाम् गोत्रप्रत्ययान्तम् एतत् यूनि वर्तते ।१३३ - २०० - इह उत्पादयितरि अपत्ययुक्ते प्रत्ययान्तात् प्रतिषेधः वक्तव्यः परमप्रकृतेः च उत्पत्तिः वक्तव्या ।१३४ - २०० - सर्वेषु अपत्ययुक्तेषु प्रत्ययान्तात् प्रतिषेधः वक्तव्यः ।१३५ - २०० - तस्मात् प्रतिषेधः ।१३६ - २०० - तस्मात् प्रतिषेधः वक्तव्यः ।१३७ - २०० - सञ्ज्ञाकारिभ्यः वा प्रत्ययोत्पत्तिः ।१३८ - २०० - अथ वा सञ्ज्ञाकारिभ्यः प्रत्ययोत्पत्तिः वक्तव्या ।१३९ - २०० - यदि सञ्ज्ञाकारिभ्यः प्रत्ययोत्पत्तिः उच्यते कथम् गार्ग्यायणः वात्स्यायनः इति ।१४० - २०० - गोत्रात् यूनि च ।१४१ - २०० - गोत्रात् यूनि इति एतत् वक्तव्यम् ।१४२ - २०० - तत् च जात्यादिनिवृत्त्यर्थम् ।१४३ - २०० - तत् च अवश्यम् सञ्ज्ञाकारिग्रहणम् कर्तव्यम् ।१४४ - २०० - किम् प्रयोजनम् ।१४५ - २०० - जात्यादिनिवृत्त्यर्थम् ।१४६ - २०० - जात्यादिभ्यः उत्पत्तिः मा भूत् इति ।१४७ - २०० - जातिः न वर्तते ।१४८ - २०० - सङ्ख्या न वर्तते ।१४९ - २०० - सर्वनाम न वर्तते ।१५० - २०० - जातिः न वर्तते ।१५१ - २०० - काकस्य अपत्यम् कुररस्य अपत्यम् इति ।१५२ - २०० - सङ्ख्या न वर्तते ।१५३ - २०० - नवानाम् अपत्यम् दशानाम् अपत्यम् इति ।१५४ - २०० - सर्वनाम न वर्तते ।१५५ - २०० - सर्वेषाम् अपत्यम् विश्वेषाम् अपत्यम् इति ।१५६ - २०० - यत् तावत् उच्यते जातिः न वर्तते ।१५७ - २०० - काकस्य अपत्यम् कुररस्य अपत्यम् इति ।१५८ - २०० - येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति ।१५९ - २०० - यत् अपि उच्यते सङ्ख्या न वर्तते ।१६० - २०० - नवानाम् अपत्यम् दशानाम् अपत्यम् इति ।१६१ - २०० - सङ्ख्येयम् अपेक्ष्य सङ्ख्या प्रवर्तते ।१६२ - २०० - तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति असामर्थ्यात् न भविष्यति ।१६३ - २०० - यत् अपि उच्यते सर्वनाम न वर्तते ।१६४ - २०० - सर्वेषाम् अपत्यम् विश्वेषाम् अपत्यम् इति ।१६५ - २०० - निर्देश्यम् अपेक्ष्य सर्वनाम वर्तते ।१६६ - २०० - तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति असामर्थ्यात् न भविष्यति ।१६७ - २०० - यत् तावत् उच्यते येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति इति ।१६८ - २०० - न एतत् विवदामहे काकः न काकः इति ।१६९ - २०० - किम् तर्हि ।१७० - २०० - येन एव हेतुना एतत् वाक्यम् भवति काकस्य अपत्यम् कुररस्य अपत्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।१७१ - २०० - यद् अपि उच्यते सङ्ख्येयम् अपेक्ष्य सङ्ख्या प्रवर्तते ।१७२ - २०० - तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति ।१७३ - २०० - भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् ।१७४ - २०० - यदा निर्ज्ञातम् तदा वृत्तिः प्राप्नोति ।१७५ - २०० - यद् अपि उच्यते निर्देश्यम् अपेक्ष्य सर्वनाम वर्तते ।१७६ - २०० - तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति ।१७७ - २०० - भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् ।१७८ - २०० - यदा निर्ज्ञातम् तदा वृत्तिः प्राप्नोति ।१७९ - २०० - एवम् तर्हि अनभिधानात् जात्यादिभ्यः उत्पत्तिः न भविष्यति ।१८० - २०० - तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।१८१ - २०० - क्रियमाणे अपि हि सञ्ज्ञाकारिग्रहणे यत्र जात्यादिभ्यः उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः ।१८२ - २०० - तत् यथा ।१८३ - २०० - कुतः चरति मायूरिः केन कापिञ्जलिः कृशः आहेयेन च दष्टस्य पाञ्चिः सुतमसः मतः ।१८४ - २०० - तादायनिः , यादायनिः , कैमायनिः इति ।१८५ - २०० - तत् एतत् अनन्यार्थम् सञ्ज्ञाकारिग्रहणम् वा कर्तव्यम् प्रत्ययान्तात् व प्रतिषेधः वक्तव्यः ।१८६ - २०० - उभयम् न कर्तव्यम् ।१८७ - २०० - गोत्रग्रहणम् न करिष्यते ।१८८ - २०० - एकः अपत्ये प्रत्ययः भवति इति एव ।१८९ - २०० - यदि च इदानीम् प्रत्ययान्तात् अपि प्रत्ययः स्यात् न एकः अपत्ये प्रत्ययः स्यात् ।१९० - २०० - यदि गोत्रग्रहणम् न क्रियते कथम् गार्ग्यायणः वात्स्यायनः इति ।१९१ - २०० - वक्तव्यम् एव एतत् गोत्रात् यूनि अस्त्रियाम् इति ।१९२ - २०० - अथ अपि गोत्रग्रहणम् क्रियते एवम् अपि न दोषः ।१९३ - २०० - न एकग्रहणेन प्रत्ययः अभिसम्बध्यते एकः गोत्रे प्रत्ययः भवति इति ।१९४ - २०० - किम् तर्हि ।१९५ - २०० - प्रकृतिः अभिसम्बध्यते एका प्रकृतिः गोत्रे प्रत्ययम् उत्पादयति ।१९६ - २०० - यदि च इदानीम् प्रत्ययान्तात् अपि प्रत्ययः स्यात् न एका प्रकृतिः गोत्रे प्रत्ययम् उत्पादयेत् ।१९७ - २०० - अथ वा अस्थाने अयम् यत्नः क्रियते ।१९८ - २०० - न हि इदम् लोकात् भिद्यते ।१९९ - २०० - लोके सञ्ख्याम् प्रवर्तमानाम् उपचरन्ति एकः इति वा प्रथमः इति वा ।२०० - २०० - यावत् ब्रूयात् प्रथमः अपत्ये प्रत्ययम् उत्पादयति तावत् एकः गोत्रे इति ।१ - १७ - इञः वृद्धावृद्धाभ्याम् फिञ्फिनौ विप्रतिषेधेन ।२ - १७ - इञः वृद्धावृद्धाभ्याम् फिञ्फिनौ भवतः विप्रतिषेधेन ।३ - १७ - इञः अवकाशः दाक्षिः प्लाक्षिः ।४ - १७ - फिञः अवकाशः तादायनिः यादायनिः ।५ - १७ - इह उभयम् प्राप्नोति तापसायनिः साम्मितिकायनिः ।६ - १७ - फिनः अवकाशः त्वचायनिः स्रुचायनिः ।७ - १७ - इञः सः एव ।८ - १७ - इह उभयम् प्राप्नोति ग्लुचुकायनिः मुलुचुकायनिः ।९ - १७ - फिञ्फिनौ भवतः विप्रतिषेधेन ।१० - १७ - इह कस्मात् न भवति दाक्षिः प्लाक्षिः ।११ - १७ - बहुलवचनात् ।१२ - १७ - तद्राजः च ।१३ - १७ - तद्राजः च इञः भवति विप्रतिषेधेन ।१४ - १७ - तद्राजसय अवकाशः ऐक्ष्वकः ।१५ - १७ - इञः सः एव ।१६ - १७ - इह उभयम् प्राप्नोति पाञ्चालः वैदेहः वैदर्भः ।१७ - १७ - तद्राजः भवति विप्रतिषेधेन । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP